Learning Sanskrit by fresh approach – Lesson 60

Learning Sanskrit by fresh approach – Lesson 60
संस्कृतभाषायाः नूतनाध्ययनस्य षष्टितमः (६०) पाठः ।

As mentioned in the introduction of the previous lesson, Mr. K. V. Mohan posted a query at samskrita@googlegroups.com, requesting translation of two verses. Mr. G S S Murthy promptly submitted some “rough” translations. Those verses make interesting asignments for study in these lessons, too. Here is the second one –

“भो भोः पान्थ कुतो?” “नगरतो” “वार्ता तु काचित् श्रुता?” ।
“बाढं” “ब्रूहि” “युवा पयोदसमये भार्यां विना जीवति ।”
“सत्यं जीवति” “जीवतीति कथिता वार्ता मयापि श्रुता “।
“संकीर्णा पृथिवी जनाश्च बहवः किं तन्न सम्पद्यते” ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

“भोः भोः पान्थ कुतः ?” “नगरतः” “वार्ता तु काचित् श्रुता?” ।
“बाढं” “ब्रूहि” “युवा पयोद-समये भार्यां विना जीवति ।”
“सत्यं जीवति” “जीवति इति कथिता वार्ता मया अपि श्रुता “।
“संकीर्णा पृथिवी जनाः च बहवः किं तत् न सम्पद्यते” ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ भोः (= eh) अव्ययम् ।
२.२ पान्थ “पान्थ” (= traveller) इति सामान्यनाम। तस्य सम्बोधन-प्रथमा विभक्तिः एकवचनम् च ।
२.३ कुतः (= from where) अव्ययम् ।
२.४ नगरतः = नगर + तः ।

  • २.४.१ नगर (= town, city) इति सामान्यनाम ।
  • २.४.२ तः (= from) प्रत्ययः ।
  • २.४.३ नगरतः =  from town

२.५ वार्ता “वृत्” १ आ. (= to happen) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “वार्ता” (= happening, news) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.६ तु (= but) अव्ययम् ।
२.७ काचित् = का + चित् ।

  • २.७.१ का “किम्” (= what) इति सर्वनाम । अत्र स्त्रीलिङ्गि “का” ।
  • २.७.२ चित् (= some) प्रत्ययः ।
  • २.७.३ काचित् = somewhat, any

२.८ श्रुता “श्रु” ५ प. (= to hear, to listen to) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “श्रुत” (= heard) । अत्र स्त्रीलिङ्गि “श्रुता” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.९ बाढम् (= yes) अव्ययम् ।
२.१० ब्रूहि “ब्रू” २ उ. (= to say, to tell) इति धातुः । तस्य परस्मैपदेन लेट्-आज्ञार्थे द्वितीयपुरुषे एकवचनम् च ।
२.११ युवा “युवन्” (= young) इति विशेषणम् । अत्र पुल्लिङ्गि प्रायः नाम अपि “युवा” (= youth, young man) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१२ पयोद-समये ।

  • २.१२.१ पयः ददाति = पयोदः । उपपद-तत्पुरुषः ।
  • २.१२.२ पयोदस्य समयः = पयोदसमयः । षष्ठी-तत्पुरुषः ।
  • २.१२.३ पयः “पयस्” (= water) नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • २.१२.४ ददाति “दा” ३ उ. (= to give) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।
  • २.१२.५ पयोदस्य “पयोद” (= who gives water, cloud) इति सामासिकम् पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.१२.६ समयः “समय” (= time, season) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.१२.७ पयोदसमये “पयोदसमय” (= time of cloud, rainy season) इति सामासिकम् पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.१३ भार्याम् “भृ” ३ उ. (= to bear, to attend to) इति धातुः । तस्य प्रयोजकात् विध्यर्थवाचकम् विशेषणम् “भार्य” (= attendant) । अत्र स्त्रीलिङ्गि नाम “भार्या” (= wife) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२.१४ विना (= without) अव्ययम् ।
२.१५ जीवति “जीव्” १ प. (= to live) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।
२.१६ सत्यम् “अस्” २ प. (= to be, to exist) इति धातुः । तस्मात् वर्तमानकालवाचकम् विशेषणम् “सत्” (= being, existing) तथा विध्यर्थवाचकम् विशेषणम् “सत्य” (= true) । प्रायः नपुंसकलिङ्गि नाम अपि “सत्य” (= truth, reality) । तस्य प्रथमा विभक्तिः एकवचनम् च । अत्र क्रियाविशेषणार्थे सत्यम् = really
२.१७ इति (= so, thus) अव्ययम् ।
२.१८ कथिता “कथ्” १० उ. (= to tell, to narrate) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “कथित” (= told, said, narrated) । अत्र स्त्रीलिङ्गि “कथिता” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१९ मया “अस्मद्” (= pronoun of first person, I, we) इति सर्वनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.२० अपि (= also) अव्ययम् ।
२.२१ संकीर्णा “सम् + किर्” ? (= to spread all over) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “संकीर्ण” (= diverse) । अत्र स्त्रीलिङ्गि “संकीर्णा” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.२२ पृथिवी (= earth) इति सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.२३  जनाः “जन” (= person, people) इति सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.२४  च (= and) अव्ययम्
२.२५ बहवः “बहु” (= many) इति अनिश्चित-संख्यावाचकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.२६  किम् (= what) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.२७  तत् (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च । परिणामवाचक क्रियाविशेषणार्थे अपि “तत्” (= then, as a result) ।
२.२८  न (= not) अव्ययम्
२.२९ सम्पद्यते “सम् + पद्” ४, १० आ. (= to happen, to be, to realize) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।

३ अन्वयाः अनुवादाः च ।

“भोः भोः पान्थ कुतः ?” = Eh, traveller, from where ?
“नगरतः” = “From city”
“वार्ता तु काचित् श्रुता?” = “Heard (got) any news ?”
“बाढम्” = “Yes”
“ब्रूहि” = “Tell (me)”
“युवा पयोद-समये भार्यां विना जीवति ।” = “Young man lives without (his) wife in rainy season”
“सत्यं जीवति” = “Really lives (?)”
“जीवति इति कथिता वार्ता मया अपि श्रुता ” = “(Yah), lives ! Thus I too heard a news being told (doing rounds)”
“पृथिवी संकीर्णा (अस्ति) = Earth (World) is diverse
जनाः च बहवः (सन्ति) = And men are many
किं तत् न सम्पद्यते” = What (can) then not happen ?

Mr. G S S Murthy gave a good translation –

“Traveler, from where are you?” “From the city” “Any news?” “Yes” “Tell me” ” Young man lives without his wife during the rainy season” “Really?” ” I heard so only” ” This world has variety; there are many people and what is it that cannot happen?”

४ टिप्पणयः ।

४.१ Analysis of the verse to find its meter would be as follows –

“भो भोः पान्थ कुतो?” “नगरतो” “वार्ता तु काचित् श्रुता?” । वर्णाः १७
(२ २ २) (१ १-२) (१-१-१)-(२ २-२) (१ २ २) १-२ मात्राः ।
(मातारा)-(सलगं)-(नसल)-(मातारा) (यमाता) ल-ग गणाः म स न म य ल ग

“बाढं” “ब्रूहि” “युवा पयोदसमये भार्यां विना जीवति ।” वर्णाः १९
(२-२ २)-(११-२) (१-२-१) (१-१-२) (२-२ १)-(२-२-१) १ मात्राः ।
(मातारा)-(सलगं) (जभान) (सलगं) (ताराज)-(ताराज) ग गणाः म स ज स त त ग

“सत्यं जीवति” “जीवतीति कथिता वार्ता मयापि श्रुता “। वर्णाः १९
(२-२ २)-(११-२) (१-२-१) (१-१-२) (२-२ १)-(२-२-१) १ मात्राः ।
(मातारा)-(सलगं) (जभान) (सलगं) (ताराज)-(ताराज) ग गणाः म स ज स त त ग

“संकीर्णा पृथिवी जनाश्च बहवः किं तन्न सम्पद्यते” ॥ वर्णाः ११
(२-२ २)-(११-२) (१-२-१) (१-१-२) (२-२ १)-(२-२-१) १ मात्राः ।
(मातारा)-(सलगं) (जभान) (सलगं) (ताराज)-(ताराज) ग गणाः म स ज स त त ग

गणाः म स ज स त त ग = शार्दूलविक्रीडितम् वृत्तम् ।

Analysis of only the first line is not working out to be of this meter. It seems to be rhyming alright. Maybe, I am committing some error when analysing.

४.२ Indian economy has been predominantly agrarian. In agrarian economy during rainy season there is no work in the farms for the young population. Youth will have the natural tendency to enjoy company of the spouse in rainy season. So if a youth lives without his wife in rainy season, it becomes a matter to wonder about. It becomes a “news” ! –

४.३ The whole poem मेघदूतम् by महाकवि कालिदास is set on this theme only. The young यक्ष has been banished by his master कुबेर to spend one year away from his home. It is onset of rainy season आषाढस्य प्रथमदिवसे He sights a cloud मेघमाश्लिष्टसानुम् । embracing (!) the peak of a hillock. Awareness of being away from his wife becomes intense in his mind. He becomes कामार्त and loses all discretion of what to tell to whom. That is how it is with people overcome with pangs of separation. कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ।

४.४ There has been an interesting sociologist thought behind some traditions and customs, followed especially during the rainy season. Considering that youth will tend to spend excessive time at home during this period, concept of चातुर्मास and rules of custom related to this चातुर्मास regulate over-indulgence in almost every other aspect of living the life. The customs even take care of proper eating habits to be observed during rainy season. Ladies observe every Monday of चातुर्मास as a fasting day. Observance of pious thoughts is of course inherent to observing fasting. That regulates sexual indulgence also.

In Maharashtra devotees trek to Pandharpur to have दर्शन of deity विठ्ठल during early part of आषाढमास. The trek would involve covering on foot a distance of 300-400 kilometers in about 10-12 days, weathering the rains.

A number of festivals occur in rainy season – नागपञ्चमी, रक्षाबंधन (समुद्रपूजन), गोकुलाष्टमी (श्रीकृष्णजन्मोत्सव), गणेशोत्सव, दशहरा ।

Since every festival is associated with some deity or the other, observance of pious thoughts is integral to observance of the festivities. नागपञ्चमी is particularly interesting. Since rain-waters will enter their holes, serpents will come out of the holes. Observance of नागपञ्चमी mandates not killing the serpents. They are friends of the farmers since they regulate the rodents. So, even serpents are an integral part of an agrarian economy !! नागपञ्चमी dictates serpents to be respected as deities. There is a village बत्तीसशिराळे in Maharashtra, where serpents come out or even taken out from their holes and on नागपञ्चमी day the serpents will not sting !! You can’t believe ? Well, visit बत्तीसशिराळे !

रक्षाबंधन (समुद्रपूजन) occurs on the full-moon day of श्रावणमास On this day, all sisters tie a thread on the wrists of their brothers. It is a tie, a binding on the brother, an annual oath that the brother will protect his sister against all odds. It is also the day for the fishermen to worship the lord of the seas. Sea is rough during monsoon, the rainy season. After this full-moon day the sea will become calmer for the fishermen to go fishing. Before embarking on the new season of going fishing after a long lull due to rough seas, समुद्रपूजन is performed seeking benevolence of the deities of the seas !

Is not this concept of deity associated with every other thing, so amazing and compelling and encompassing and empathetic and devout a concept ? A whole culture has been created around this concept and the culture lives for thousands of years, really thousands of years !!

४.५ Such culture will live. There is no reason why it would not live. सत्यं जीवति !

शुभमस्तु |

-o-O-o-

One thought on “Learning Sanskrit by fresh approach – Lesson 60

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s