Greetings in Sanskrit

Greetings

  1. Good Morning = सुप्रभातम्
  2. Have a good day = सुदिनमस्तु
  3. How are you (masculine)? = कथमस्ति भवान् ?
  4. How are you (feminine) ? = कथमस्ति भवती ?
  5. Good evening = शुभः सायंकालः
  6. Good night = शुभरात्रिः
  7. Good bye!! or Bye ! Bye !! = शुभम्
  8. See you soon = शीघ्रम् मिलयामः
  9. Hearty wishes = हार्दिकाः शुभेच्छाः
  10. Thank you = धन्यवादाः
  11. Are you (masculine) fine ? = कुशली भवान् ?
  12. Are you (feminine) fine ? = कुशलिनी भवती ?
  13. Is everything fine ? = कुशलम् सर्वम् ?
  14. Excuse me please = क्षमस्व
  15. Yes = आम् or सत्यम्
  16. No = न or न तु
  17. Okay = सुष्ठु
  18. May you have long, healthy life = दीर्घायुरारोग्यमस्तु
  19. May success be yours = सुयशः भवतु
  20. May victory be yours = विजयः भवतु
  21. Happy Birthday = जन्मदिनशुभेच्छाः
  22. Wish you a long and happy married life = अखण्डसौभाग्यमस्तु
Formal addresses –
  1. Sir = महोदय
  2. Madam = महोदया
  3. Cordially or Affectionately = सस्नेहम्
शुभमस्तु = May everything be fine!!


Learning Sanskrit at Distance – Lesson 7 Usual Greetings

Greetings

  1. Good Morning = सुप्रभातम्
  2. Have a good day = सुदिनमस्तु
  3. How are you (masculine)? = कथमस्ति भवान् ?
  4. How are you (feminine) ? = कथमस्ति भवती ?
  5. Good evening = शुभः सायंकालः
  6. Good night = शुभरात्रिः
  7. Good bye!! or Bye ! Bye !! = शुभम्
  8. See you soon = शीघ्रम् मीलयामः
  9. Hearty wishes = हार्दिकाः शुभेच्छाः
  10. Thank you = धन्यवादाः
  11. Are you (masculine) fine ? = कुशली भवान् ?
  12. Are you (feminine) fine ? = कुशलिनी भवती ?
  13. Is everything fine ? = कुशलम् सर्वम् ?
Formal addresses –
  1. Sir = महोदय
  2. Madam = महोदया
  3. Cordially or Affectionately = सस्नेहम्
शुभमस्तु = May everything be fine!!

संस्कृतभाषायां संभाषणं कर्तुं रचिते पाठ्यक्रमे द्वितीयः पाठः ।

द्वितीयः पाठः ।
शब्दानां अभ्यासस्य पूर्वे सन्धिविच्छेदाः समासविग्रहाः च कर्तव्याः ।
आचार्यः – नमो नमः ।
विद्यार्थिनः – आचार्य, वन्दामहे ।
आचार्यः – उपविशन्तु भवन्तः ।
प्रथमे पाठे अस्माभिः परस्पराणां परिचयः ज्ञातः ।
पाठस्यान्ते मया सूचितमासीत् यत् प्रत्येकस्य शब्दस्य विस्तृतः अभ्यासः आवश्यकः ।
तथापि कस्मिन्नपि वाक्ये के के शब्दाः सन्ति, तान् सुस्पष्टतया ज्ञातुं प्रथमतः विचारणीयम्, यदि कस्मिंश्चिदपि वाक्ये शब्दानां सन्धयः सन्ति वा न वा ।
मया प्रारम्भे उक्तं “नमो नमः” इति । यद्यपि एतस्मिन् उच्चारे नमो च नमः च एवं द्वे शब्दे श्रूयेते, अपि किं एते शब्दे असमाने ? न तु एवम् ।
यः प्रथमः शब्दः “नमो” इति अस्ति, सः अपि “नमः” इत्येव शब्दः ।
“नमो नमः” इति उच्चारः “नमः नमः” एतावतयोः द्वयोः शब्दयोः सन्धिः मात्र । द्वयोः शब्दयोः मध्ये कतिपयविधाः सन्धयः भवन्ति तद् सावकाशम् पश्यामः ।
अग्रतः अस्ति अन्यः शब्दोच्चारः “कदापि” इति । एषः अपि “कदा + अपि” एवंविधः सन्धिः ।
यदा द्वे शब्दे झटितं उच्चार्येते, तदा यथाविधः सम्मिलितः उच्चारः भविष्यति, तेनैव तयोः शब्दयोः सन्धिः भवति ।
अग्रतः अस्ति अन्यः शब्दः “नवागतेन” इति । अस्मिन् शब्दे न केवलं “नव + आगतेन” एवंविधः सन्धिः । अयं शब्दः तु सामासिकः अपि अस्ति । अयं शब्दः कंचित् विस्तृतं अर्थं सूचयति, यथा “(यः) नवं आगतः, तेन” इति ।
पाठे आगतानां सर्वेषां शब्दानां अभ्यासस्य आरंभे सन्धीनां विच्छेदाः समासानां विग्रहाः च कर्तव्याः ।
अधुना अस्य पाठस्य अपि कानिचित् नवानि सुभाषितानि ।
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥१॥
क्षणं चित्तं क्षणं वित्तं क्षणं जीवति मानवः ।
यमस्य करुणा नास्ति धर्मस्य त्वरिता गतिः ॥२॥
अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥३॥
हंसः श्वेतः बकः श्वेतः को भेदो बकहंसयोः ।
नीरक्षीरविवेके तु हंसो हंसः बको बकः ॥४॥
पापं कर्तुं ऋणं कर्तुं मन्यन्ते मानवाः सुखम् ।
परिणामोऽतिगहनो महतामपि नाशकृत् ॥५॥
गृहपाठाः
(१) अयं सम्पूर्णः पाठः स्वीये टिप्पणिपुस्तिकायां स्वहस्तेन लिखितव्यः, मन्तव्यः च, यथा अत्रागतान् सर्वान् संवादान् भणितुं सर्वे एव समर्थाः भविष्यन्ति ।
(२) अस्मिन् द्वितीये पाठे तथा प्रथमे पाठेऽपि ये सन्धयः सामासिकाः शब्दाः च सन्ति, तेषां विच्छेदाः विग्रहाः च ज्ञातव्याः ।
(३) अत्र दत्तानि सुभाषितानि मुखोद्गतानि कर्तव्यानि । तेषां अर्थोऽपि ज्ञातव्यः ।
(४) अस्मिन् पाठे येषां शब्दानां उल्लेखः जातः, तस्मात् शब्दसंग्रहः संगठनीयः ।
पाठस्यान्ते एका सुलभा प्रार्थना –
गुरुर्ब्रम्हा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रम्ह तस्मै श्रीगुरवे नमः ॥
-o-O-o-

संस्कृतभाषायां संभाषणं कर्तुं रचिते पाठ्यक्रमे प्रथमः पाठः ।

प्रथमः पाठः ।
परस्पराणां परिचयः ।
आचार्यः – नमो नमः ।
विद्यार्थिनः – आचार्य वन्दामहे ।
आचार्यः – उपविशन्तु भवन्तः ।
अद्य वयं संस्कृतभाषायां संभाषणं कर्तुं कस्यचित् अभ्यासस्य प्रारंभं कुर्मः ।
यदा कदापि अस्माकं नवागतेन सह मिलनं भविष्यति, तदा यथाविधः वार्तालापः भवति, तस्य अभ्यासं कुर्मः ।
प्रथमतः भवन्तः सर्वे स्वकीयं परिचयं ददन्तु ।
(एकं विद्यार्थिनं प्रति अङ्गुलिनिर्देशं कृत्वा आचार्यः पृच्छति “किं तव नाम ?”)
सर्वैः विद्यार्थिभिः क्रमेण “मम नाम “_ _ _ _ _” अस्ति” एवं परिचयः दातव्यः ।
परिचयस्य द्वितीये स्तरे “त्वं कुत्र वससि ?” एतद्विधस्य प्रश्नस्य उत्तराणि देयानि ।
अस्य प्रश्नस्य उत्तरस्य प्रमाणं एतद्विधं भविष्यति —
अहं मुम्बापुर्यां
“मालाड (पूर्व)”-उपनगरे,
“जनरल अरुणकुमार वैद्य”-मार्गे,
“शुची-हाइट्स्” सौधे
२०१ (द्विः-शून्यं-एकं अथवा एकोत्तर-द्विशतकतम)-क्रमाङ्किते गृहे
निवसामि ।
अत्र पत्र-वितरण-विभागस्य क्रमाङ्कः ४०० ०९७ चतुः-शून्यं-शून्यं शून्यं-नवं-सप्तं अस्ति ।
विद्यार्थिभिः एतावतानि उत्तराणि स्वेषु पुस्तकेषु लिखितव्यानि । तन्नंतरं पुस्तकात्पठित्वा परस्परसंवादाः कर्तव्याः ।
परिचयस्य तृतीये स्तरे “त्वं किं करोसि ?” एतद्विधस्य प्रश्नस्य उत्तराणि देयानि ।
अस्य प्रश्नस्य उत्तरं एतद्विधं भविष्यति —
अहं तंत्रज्ञः अस्मि । अथवा
अहं प्रकृतिचिकित्सकः अस्मि । अथवा
अहं _ _ _ _ कार्यालये सेवां करोमि । अथवा
अहं गृहिणी अस्मि । अथवा
अहं निवृत्तः अस्मि ।
ज्येष्ठ-श्रेष्ठ-जनानां प्रति “किं तव नाम ?” “त्वं कुत्र वससि ?” “त्वं किं करोसि ?” एतान् प्रश्नान् कर्तुं आदरार्थिनः सर्वनामस्य एव प्रयोगः कर्तव्यः ।
यथा, “किं भवतः नाम?” अथवा “किं भवत्यः नाम?”
तथा च, “कुत्र वसति भवान्?” अथवा “कुत्र वसति भवती?”
तथैव, “किं करोति भवान्?” अथवा “किं करोति भवती?”
संस्कृतभाषायाः साहित्ये एकः रमणीयः विशेषः अस्ति, “सुभाषितानि” । पश्यन्तु कानिचित् सुभाषितानि ।
शरदि न वर्षति गर्जति वर्षति वर्षासु निस्वनो मेघः ।
नीचो वदति न कुरुते, न वदति सुजनः करोत्येव ॥१॥
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥२॥
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहाय्यकृत् ॥३॥
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥४॥
सद्विद्या यदि का चिन्ता वराकोदरपूरणे ।
शुकोऽप्यशनमाप्नोति राम रामेति च ब्रुवन् ॥५॥
स्वाध्यायाः ।
(१) अयं सम्पूर्णः पाठः स्वीये टिप्पणिपुस्तिकायां स्वहस्तेन लिखितव्यः, मन्तव्यः च, यथा अत्रागतान् सर्वान् संवादान् भणितुं सर्वे एव समर्थाः भविष्यन्ति ।
(२) अत्र दत्तानि सुभाषितानि मुखोद्गतानि कर्तव्यानि । तेषां अर्थोऽपि ज्ञातव्यः ।
(३) अस्मिन् पाठे येषां शब्दानां उल्लेखः जातः, तस्मात् शब्दसंग्रहः संगठनीयः ।
विद्यार्थिभिः एतदपि मननीयं यत् प्रत्येकस्य शब्दस्य विस्तृतः अभ्यासः आवश्यकः । एवंविधः अभ्यासः कथं भवति तत् वयं अन्ये पाठे पठामः ।
पाठस्यान्ते एका सुलभा प्रार्थना –
त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देव देव ॥
-o-O-o-