संस्कृतभाषायां संभाषणं कर्तुं रचिते पाठ्यक्रमे द्वितीयः पाठः ।

द्वितीयः पाठः ।
शब्दानां अभ्यासस्य पूर्वे सन्धिविच्छेदाः समासविग्रहाः च कर्तव्याः ।
आचार्यः – नमो नमः ।
विद्यार्थिनः – आचार्य, वन्दामहे ।
आचार्यः – उपविशन्तु भवन्तः ।
प्रथमे पाठे अस्माभिः परस्पराणां परिचयः ज्ञातः ।
पाठस्यान्ते मया सूचितमासीत् यत् प्रत्येकस्य शब्दस्य विस्तृतः अभ्यासः आवश्यकः ।
तथापि कस्मिन्नपि वाक्ये के के शब्दाः सन्ति, तान् सुस्पष्टतया ज्ञातुं प्रथमतः विचारणीयम्, यदि कस्मिंश्चिदपि वाक्ये शब्दानां सन्धयः सन्ति वा न वा ।
मया प्रारम्भे उक्तं “नमो नमः” इति । यद्यपि एतस्मिन् उच्चारे नमो च नमः च एवं द्वे शब्दे श्रूयेते, अपि किं एते शब्दे असमाने ? न तु एवम् ।
यः प्रथमः शब्दः “नमो” इति अस्ति, सः अपि “नमः” इत्येव शब्दः ।
“नमो नमः” इति उच्चारः “नमः नमः” एतावतयोः द्वयोः शब्दयोः सन्धिः मात्र । द्वयोः शब्दयोः मध्ये कतिपयविधाः सन्धयः भवन्ति तद् सावकाशम् पश्यामः ।
अग्रतः अस्ति अन्यः शब्दोच्चारः “कदापि” इति । एषः अपि “कदा + अपि” एवंविधः सन्धिः ।
यदा द्वे शब्दे झटितं उच्चार्येते, तदा यथाविधः सम्मिलितः उच्चारः भविष्यति, तेनैव तयोः शब्दयोः सन्धिः भवति ।
अग्रतः अस्ति अन्यः शब्दः “नवागतेन” इति । अस्मिन् शब्दे न केवलं “नव + आगतेन” एवंविधः सन्धिः । अयं शब्दः तु सामासिकः अपि अस्ति । अयं शब्दः कंचित् विस्तृतं अर्थं सूचयति, यथा “(यः) नवं आगतः, तेन” इति ।
पाठे आगतानां सर्वेषां शब्दानां अभ्यासस्य आरंभे सन्धीनां विच्छेदाः समासानां विग्रहाः च कर्तव्याः ।
अधुना अस्य पाठस्य अपि कानिचित् नवानि सुभाषितानि ।
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥१॥
क्षणं चित्तं क्षणं वित्तं क्षणं जीवति मानवः ।
यमस्य करुणा नास्ति धर्मस्य त्वरिता गतिः ॥२॥
अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥३॥
हंसः श्वेतः बकः श्वेतः को भेदो बकहंसयोः ।
नीरक्षीरविवेके तु हंसो हंसः बको बकः ॥४॥
पापं कर्तुं ऋणं कर्तुं मन्यन्ते मानवाः सुखम् ।
परिणामोऽतिगहनो महतामपि नाशकृत् ॥५॥
गृहपाठाः
(१) अयं सम्पूर्णः पाठः स्वीये टिप्पणिपुस्तिकायां स्वहस्तेन लिखितव्यः, मन्तव्यः च, यथा अत्रागतान् सर्वान् संवादान् भणितुं सर्वे एव समर्थाः भविष्यन्ति ।
(२) अस्मिन् द्वितीये पाठे तथा प्रथमे पाठेऽपि ये सन्धयः सामासिकाः शब्दाः च सन्ति, तेषां विच्छेदाः विग्रहाः च ज्ञातव्याः ।
(३) अत्र दत्तानि सुभाषितानि मुखोद्गतानि कर्तव्यानि । तेषां अर्थोऽपि ज्ञातव्यः ।
(४) अस्मिन् पाठे येषां शब्दानां उल्लेखः जातः, तस्मात् शब्दसंग्रहः संगठनीयः ।
पाठस्यान्ते एका सुलभा प्रार्थना –
गुरुर्ब्रम्हा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रम्ह तस्मै श्रीगुरवे नमः ॥
-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s