ॐ
नमो नम:
सुभाषितमिदं हितोपदेशे मित्रलाभे सप्तमम् ⇒
विद्या शस्त्रस्य शास्त्रस्य द्वे विद्ये प्रतिपत्तये ।
आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥७॥
१. छन्दोविश्लेषणम्
विद्या शस्त्रस्य शास्त्रस्य (८ अक्षराणि)
“स्य शास्त्र(स्य)” एतेषां मात्रा: १२२
द्वे विद्ये प्रतिपत्तये (८ अक्षराणि)
“तिपत्त” एतेषां मात्रा: १२१
आद्या हास्याय वृद्धत्वे (८ अक्षराणि)
“य वृद्ध(त्वे)” एतेषां मात्रा: १२२
द्वितीयाद्रियते सदा (८ अक्षराणि)
“यते स” एतेषां मात्रा: १२१
अनुष्टुभ- छन्दोऽत्र ।
२. पदच्छेदाः
विद्या शस्त्रस्य शास्त्रस्य द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीया आद्रियते सदा
३. पदाभ्यासा:
१) विद्या नाम स्त्री. १/१
२) शस्त्रस्य शस्त्र नाम नपुं. ६/१
- धातुपाठे शस् १ प. शसुं हिंसायाम्
- शब्दकल्पद्रुमे – शस्त्रं, क्ली, (शस्यते हिंस्यते अनेन । “अमिचिमिदिशसिभ्यः क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः । यद्बा, “दाम्नीशसुयुयुजेति ।” ३ । २ । १८२ ।इति ष्ट्रन् ।) लोहम् । अस्त्रम् । इत्यमरः ॥ शस्त्रास्त्रैर्बहुधा मुक्तैरित्यादिदर्शनात् शस्त्रास्त्रयोः कश्चिद्भेदमाह । येन करधृतेन हन्यते तत् शस्त्रं खड्गादि । येन क्षिप्तेन हन्यते तदस्त्रं काण्डादि ।
- शस्त्रम् = hand-held weapon
३) शास्त्रस्य शास्त्र नाम नपुं. ६/१
- शास्त्रं, क्ली, (शिष्यते अनेन । शास् + “सर्व्वधातुभ्यष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।) निदेशः ।
- धातुपाठे – शास् २ प. शासुँ अनुशिष्टौ
४) द्वे द्वि संख्या-वि. स्त्री. १/२ two
५) विद्ये विद्या नाम स्त्री. १/२ two knowledge-systems
६) प्रतिपत्तये प्रतिपत्ति स्त्री. ४/१ assertion
७) आद्या आद्य वि. स्त्री. १/१ first
८) हास्याय हास्य नाम नपुं. ४/१ laughter
९) वृद्धत्वे वृद्धत्व नाम नपुं. ७/१ old age
१०) द्वितीया द्वितीय वि. स्त्री. १/१ second
११) आद्रियते from ashtadhyayi.com ⇒ ०६.०१४७ दृ दृङ् आदरे तुदादिः, आत्मनेपदी, सकर्मकः, अनिट् लट्लकारः (आत्मनेपदम्) प्रथमपुरुषः एकवचनम् (to respect, to praise, to honor) विशेषः अयं धातुः प्रायः ‘आङ्’पूर्वकः एव प्रयुज्यते ।
- आद्रियते = is respected
१२) सदा अव्ययम् at all times
४. अन्वयार्था:
१) विद्या शस्त्रस्य (भवति) – There is (branch of) knowledge about (wielding) weapons
२) (विद्या) शास्त्रस्य (च भवति) – There is (branch of) knowledge about sciences
२) द्वे विद्ये प्रतिपत्तये (भवत:) – The two knowledge-systems help assertion of oneself.
३) आद्या वृद्धत्वे हास्याय (भवति) – first one (that of wielding weapons) may become laughable in old age
४) द्वितीया सदा आद्रियते – second one is respectable at all times.
५. स्वाध्याया:
१) The poet’s choice of the two words शस्त्रस्य and शास्त्रस्य is on one count onomatopoeic and is also very apt, classifying knowledge-systems in two broad classes, especially in the context of assertion of one’s personality, which in turn will help one to get respect in the society.
२) This सुभाषितम् also summarises a good approach for career-guidance. In every society, there are always children, who have at the stage of choosing a career. The career should be so chosen that the विद्या knowledge acquired for that career shall be सदा आद्रियते respectable at all times.
शुभमस्तु !
-o-O-o-