Learning Sanskrit by fresh approach – Lesson 59

Learning Sanskrit by fresh approach – Lesson 59
संस्कृतभाषायाः नूतनाध्ययनस्य नवपञ्चाशत्तमः (५९) पाठः ।

Mr. K. V. Mohan posted a query to samskrita@googlegroups.com, requesting translation of two verses. Mr. G S S Murthy promptly submitted some “rough” translations. Those verses make interesting study for these lessons, too. So, here is the first one –

मा गा इत्यपमङ्गलं व्रज सखे स्नेहेन दीनं वचः।
तिष्ठेति प्रभुता यथामति चरेत्यैवम् ह्युदासीनता ।
नो जीवाम विना त्वया यदुपते सम्भाव्यते वा न वा ।
स्मर्तव्या वयमादरेण भवता यावत् पुनर्दर्शनम् ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

मा गाः इति अपमङ्गलं व्रज सखे स्नेहेन दीनं वचः।
तिष्ठ इति प्रभुता यथा-मति चर इति एवम् हि उदासीनता ।
न उ जीवामः विना त्वया यदु-पते सम्भाव्यते वा न वा ।
स्मर्तव्याः वयम् आदरेण भवता यावत् पुनः दर्शनम् ॥

Actually व्रज सखे can be considered both as –

  • two separate words or
  • a compound word व्रज-सखे

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ मा (= “do not”) इति अव्ययम् ।
२.२ गाः “गम्” १ प. (= to go) इति धातुः । तस्य लेट्-आज्ञार्थे द्वितीय-पुरुषे एकवचनम् च ।

मा गाः is somewhat of a special construction in Sanskrit. It needs to be detailed better. I shall be obliged for a guidance on this detailing.

२.३ इति (= thus, such) अव्ययम् ।
२.४ अपमङ्गलम् ।

  • २.४.१ मङ्गलात् दूरम् = अपमङ्गलम् । उपपद-तत्पुरुषः ।
  • २.४.२ अप इति उपसर्गः “दूरम्”-इति भावार्थेन ।
  • २.४.३ मङ्गलात् “मङ्गल” (= good, blissful) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनम् च ।
  • २.४.४ दूरम् (= away) इति अव्ययम् ।
  • २.४.५ अपमङ्गलम् = away from being good, blissful, hence not of good omen.

२.५ व्रज  “व्रज्” १ प. (= to go, to move) इति धातुः । तस्य लेट्-आज्ञार्थे द्वितीयपुरुषे एकवचनम् ।
२.६ सखे “सखा” (= friend) इति स्त्रीलिङ्गि सामान्यनाम । तस्य सम्बोधन-प्रथमा विभक्तिः एकवचनम् च ।

Considering व्रज-सखे as a compound word –

व्रज-सखे ।

  • व्रजस्य सखा = व्रजसखा । षष्ठी-तत्पुरुषः ।
  • व्रजस्य “व्रज्” १ प. (= to go, to move) इति धातुः । तस्मात् “अयं व्रजति इति व्रजः” एवम् कर्तृवाचकम् पुल्लिङ्गि नाम “व्रज”(= one who walks, a cowherd – because he has to walk alongside of the cows) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • व्रजसखे “व्रजसखा” (= friend of cowherds) इति सामासिकम् पुल्लिङ्गि नाम । तस्य सम्बोधन-प्रथमा विभक्तिः एकवचनम् च ।

This is similar to व्रजभूमि = व्रजाणाम् भूमिः (= land of cowherds)

२.७ स्नेहेन “स्निह्” ४ प. (= to be affectionate) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “स्नेह” (= affection) । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.८ दीनम् “दीन” (= poor) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.९ वचः “वच्” २ प. (= to speak) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “वचस्” (= speech) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१० तिष्ठ “स्था” १ प. (= to stand, to stay, to stay put) इति धातुः । तस्य लेट्-आज्ञार्थे द्वितीयपुरुषे एकवचनम् ।
२.११ प्रभुता “प्र + भू” १ प. (= to overlord) इति धातुः । तस्मात् भाववाचकम् स्त्रीलिङ्गि नाम “प्रभुता” (= overlord-ship) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१२ यथा-मति ।

  • २.१२.१ यथा मतिः = यथामति । अव्ययीभावः ।
  • २.१२.२ यथा (= as) क्रियाविशेषणात्मकम् अव्ययम् ।
  • २.१२.३ मतिः “मन्” ४, ८ आ. (= to think) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “मत” । अत्र स्त्रीलिङ्गि “मति” (= thinking, intellect) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.१२.४ यथामति = as per own thinking

२.१३ चर “चर्” १ प. (= to move about) इति धातुः । तस्य लेट्-आज्ञार्थे द्वितीयपुरुषे एकवचनम् ।
२.१४ एवम् (= thus) अव्ययम् ।
२.१५ हि (= also) अव्ययम् ।
२.१६ उदासीनता “उत् + अस्” २ प. (= to be dejected) इति धातुः । तस्मात् भूतकालवाचकम् विशेषण”उदासीन” (= dejected) । तस्मात् भाववाचकम् स्त्रीलिङ्गि नामुदासीनता (= dejection, indifference)। तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१७ न (= not) अव्ययम् ।
२.१८ उ (= A particle of interjection, In classical literature used with न So न + उ = नो) अव्ययम् ।
२.१९ जीवामः “जीव्” १ प. (= to live) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे बहुवचनम् ।
२.२० विना (= without) अव्ययम्
२.२१ त्वया “युष्मद्” (= you) इति सर्वनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.२२ यदु-पते ।

  • २.२२.१ यदूनाम् पतिः = यदुपतिः । षष्ठी-तत्पुरुषः ।
  • २.२२.२ यदूनाम् “यदु” (= Name of an ancient king, Eldest son of ययाति and देवयानि, Ancestor of यादवा-s, In turn, यदु = descendant of यदु*) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • २.२२.३ पति: “पति” (= husband, master) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२२.४ यदुपते “यदुपति” (= master of यदु -s) इति सामासिकम् पुल्लिङ्गि नाम । तस्य सम्बोधन-प्रथमा विभक्तिः एकवचनम् च ।

२.२३ सम्भाव्यते “सम् + भू” १ प. (= to happen) इति धातुः । तस्य प्रयोजकस्य कर्मणि-प्रयोगे लट्-वर्तमानकाले तृतीय-पुरुषे एकवचनम् ।
२.२४ वा (= or) अव्ययम् ।
२.२५ स्मर्तव्याः “स्मृ” ५ प. (= to remember) इति धातुः । तस्मात् “तव्य”-प्रत्ययेन विध्यर्थि विशेषणम् “स्मर्तव्य” (= worthy of remembering) । तस्य पुल्लिङ्गेन तथा स्त्रीलिङ्गेण प्रथमा विभक्तिः बहुवचनम् च ।
२.२६ वयम् “अस्मद्” (= Pronoun of first person, i.e. I, We. Declensions of this pronoun are common in all genders) इत्ति सर्वनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.२७ आदरेण “आ + दृ” ६ आ. (= to have regard. This verb is normally used with the prefix आ) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “आदर” (= respects) । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.२८ भवता “भवत्” (= pronoun of second person, especially in respectable sense) इति आदरार्थि द्वितीय-पुरुषि सर्वनाम । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.२९ यावत् (= until) अव्ययम् ।
२.३० पुनः (= again) अव्ययम् ।
२.३१ दर्शनम् “दृश्” १ प. (= to see) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “दर्शन” (= having sight of) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

मा गा इति अपमङ्गलम् । = (To say) “Do not go” is not of good omen
व्रज सखे स्नेहेन दीनं वचः । = (To say) “Go friend” is a speech poor (devoid) of affection
तिष्ठ इति प्रभुता । = (To say) “Stay” connotes overlord-ship
यथा-मति चर इति एवम् हि उदासीनता । = (To say) “Do as you please” as such connotes indifference
न उ जीवामः विना त्वया यदु-पते सम्भाव्यते वा न वा । (To say) ” Oh master of descendants of यदु We would not live without you” will be (speaking a lie, because one does not know whether it) will happen so or not
स्मर्तव्याः वयम् आदरेण भवता यावत् पुनः दर्शनम् । = May we be worthy (that) you the honorable (will) remember us until (our) sighting you again.

Mr. G S S Murthy gave a good translation –

If we say,” Do not go”, it will be considered a bad omen; if we say,” friend, do go”, it will be deemed devoid of love; if we say, “stay back,” it will be considered an order; if we say,” do as you like,” it will be considered disinterestedness; if we say,” O, chief of Yadus, we will not live without you” it may not be believed; ” Do remember us with love till we meet again.”

४ टिप्पणयः ।

४.१ वर्णसंख्या मात्राः गणाः च –

मा गा इत्यपमङ्गलं व्रज सखे स्नेहेन दीनं वचः । वर्णसंख्या – १९
(२ २ २)-(१-१ २)-(१-२ १)-(१-१-२) (२-२-१) (२-२ १) ग मात्राः ।
(मातारा)-(सलगं) (जभान) (सलगं (ताराज)-(ताराज)-ग गणाः म स ज स त त ग

तिष्ठेति प्रभुता यथामति चरेत्यैवम् ह्युदासीनता ।
नो जीवाम विना त्वया यदुपते सम्भाव्यते वा न वा ।
स्मर्तव्या वयमादरेण भवता यावत् पुनर्दर्शनम् ॥

एतत् शार्दूलविक्रीडितम् वृत्तम् ।

४.२ The verse dwells upon six different options of what one may say at the time of someone dear going away. For five of the six options, a comment on how it could be misinterpreted is also stated.

४.३ The incident is from “श्रीमद्भागवतमहापुराणे दशमे स्कन्धे (in Part 10) एकोनचत्वारिंशः अध्यायः (Chapter 39) – श्रीकृष्णबलरामयोः मथुरां प्रति प्रस्थानं, (ShreekRuShNa and BalarAma starting to go to MathurA) विरहकातरगोपीनाम् करोणोद्गारः (Expression of anguish by Gopi-s due to separation)”

कंस, the king of मथुरा had sent अक्रूर to bring श्रीकृष्ण and बलराम to मथुरा. कंस was ill-famous for his cruelty. The anguish of separation had the added hue of anxiety about what may happen if कंस will go to extremes of cruelty towards श्रीकृष्ण and बलराम

By the fact itself, that कंस had ordered अक्रूर to bring श्रीकृष्ण and बलराम to मथुरा , everyone knew the intent. श्रीकृष्ण and बलराम were young boys really and had been commissioned to be in the presence of the cruel कंस  It was of course an invitation to a battle, especially after the fact that श्रीकृष्ण had put to death all the wily characters like पूतना when they were one at a time. So, कंस  had possibly decided to unleash the whole army.

४.४ Although the options are mentioned in the context of a specific instance in श्रीमद्भागवतम् an instance of someone dear about to go away can arise anytime. Interestingly, this has evolved into a convention of how the speech should be.

  • The last option has evolved into a custom to say गम्यताम् पुनरागमनाय ।
  • A custom closest to this is in Hindi “फिर मिलेंगे”
  • In Marathi, it is almost the rule that the person leaving should say येतो meaning “I (shall) come” To say जातो meaning “I go”, is considered not only bad omen but also as if the person has not learnt good manners.
  • To a person who is taking leave, in Gujarathi they say આવજો pronounced “aavajo” meaning “Do come” (again). That is so sweet, is it not ?
  • In German they say “auf wiedersehen” meaning “off, (but) to see again”.
  • In Japanese they say “saayo naaraa”. I wonder what that means literally.
  • When chatting on the internet, one simply types “c u”🙂

४.५ Why, to say “Do not go” is considered as bad omen also has a logic. “Do not go” has “not” in it, a negative word. Anything negative is not a good omen. It is suggestive of a halt, a break, in the path, on which the person is embarking upon, is proceeding on.  Anyone’s tongue can have वाचासिद्धि that is to say, what the tongue emits will come true. If “Do not go” meaning a break in the mission would come true, it will be bad. So, saying so becomes a bad omen.

In fact there is a conventional assumption that God is always blessing तथास्तु (Be it so) to every utterance. And a blessing of तथास्तु to a negative utterance will be a bad omen. Haven’t people written books on “Positive Thinking” ?

४.६ How challenging it must be for a lady when her beloved, who, being a soldier, has orders to report at his battalion to join the war ? I get to remember the instance in the Hindi film दिल चाहता है😦

४.७ War is never good. There is a very strong and long argument put forth by Arjuna in the first chapter in श्रीमद्भगवद्गीता. It spans over 15 श्लोकाः (32 to 46) !

४.८ The instance of a girl leaving her father’s house after marriage also became the prompt for the famous four श्लोकाः in अभिज्ञानशाकुन्तलम् । which we did study.

I do wish that people deeply in love with each other may never suffer separation – सम्भाव्यते वा न वा !!

शुभमस्तु |

-o-O-o-

4 thoughts on “Learning Sanskrit by fresh approach – Lesson 59

  1. abhyankara mahodaya

    slokarthaaya dhanyavAdah |

    i looked into Gita press edition of Bhagavata 10.39, I could not see this sloka. Is there a different edition that refers this sloka?

    The same idea of Marathi “yeto” is found in Tamil (varen = i shall come or poittuvaren = i shall go and come), Kannada (barteeni = i shall come), Malayalam and Telugu also. “I am going” is pretty much never used.

    sayonara means “If it has to be that way”.

    • धन्यवादाः श्रीमन् “वासु”-महोदय !

      निश्चयेन श्रीमद्भागवते “१०-३९”-तमः श्लोकः तु अन्यः अस्ति । मया तस्य सन्दर्भः केवलं “कः सः प्रसङ्गः ?” तथाविधाय विवरणाय निर्दिष्टः ।

      तमिळ, तेलुगु, कन्नड मल्याळम् आदिषु भाषासु अपि “गच्छामि” एवम् प्रायः न कथ्यते, एतत् सुष्ठु ज्ञापितं भवता । एतद्विषये अपि धन्यवादाः ।

      सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।”

  2. गाः इति – `तस्माच्छसो नः पुंसि’ (अ. ६।१।१०३) इत्यत्र तच्छब्देन प्रथमयोः पूर्वसवर्णदीर्घस्य परामर्शनादिह नत्वं न भवति। ङसिङसोस्तु `ङसिङसोश्च’ (अ ६।१।११०) इति ङसिङसोरेङश्च पूर्वरूपे गोः इति।

  3. To my question about “मा गा” Mr. G. S. S. Murthy has very kindly provided the following guidance –

    “मा गा” इत्यत्र व्याकरणविशेषः इत्थमस्तीति भाति। अदादिगणान्तर्गत-“इण्गतौ” धातोः लुङ्‍रूपाणि “अगात्-अगाताम्-अगुः;अगाः-अगातम्-अगात;अगाम्-अगाव-अगाम” इति भवन्ति। माङ्योगे लुङः विध्यर्थः विकल्पेन अकारलोपश्च भवतः। अतः “मा गा” इत्यत्र “मा गच्छतु” इत्यर्थः।

    मूर्तिः
    Mr. M. B. S. Namboodiripad has very kindly provided also an example –

    In the following shloka from campU-rAmAyaNa , the akAralopaH is seen in bHU dhAtu also…

    मा भूत् त्वत्पदपद्मयोः अरुणिमा कान्तारसंचारतः

    पाणौ पाटलिमा मनाक् प्रसरतु ज्याकर्षणात् एव मे ।

    कैकेयीपरिभूततातवचने नम्रो भवान् मा स्म भूत्

    किंचित् मामकं आर्य शौर्यजलधे नम्रो धनुः वर्तताम् ॥

    ——— चम्पू-रामायणे अयोध्या-काण्डे

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s