Learning Sanskrit by fresh approach – Lesson 60

Learning Sanskrit by fresh approach – Lesson 60
संस्कृतभाषायाः नूतनाध्ययनस्य षष्टितमः (६०) पाठः ।

As mentioned in the introduction of the previous lesson, Mr. K. V. Mohan posted a query at samskrita@googlegroups.com, requesting translation of two verses. Mr. G S S Murthy promptly submitted some “rough” translations. Those verses make interesting asignments for study in these lessons, too. Here is the second one –

“भो भोः पान्थ कुतो?” “नगरतो” “वार्ता तु काचित् श्रुता?” ।
“बाढं” “ब्रूहि” “युवा पयोदसमये भार्यां विना जीवति ।”
“सत्यं जीवति” “जीवतीति कथिता वार्ता मयापि श्रुता “।
“संकीर्णा पृथिवी जनाश्च बहवः किं तन्न सम्पद्यते” ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

“भोः भोः पान्थ कुतः ?” “नगरतः” “वार्ता तु काचित् श्रुता?” ।
“बाढं” “ब्रूहि” “युवा पयोद-समये भार्यां विना जीवति ।”
“सत्यं जीवति” “जीवति इति कथिता वार्ता मया अपि श्रुता “।
“संकीर्णा पृथिवी जनाः च बहवः किं तत् न सम्पद्यते” ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ भोः (= eh) अव्ययम् ।
२.२ पान्थ “पान्थ” (= traveller) इति सामान्यनाम। तस्य सम्बोधन-प्रथमा विभक्तिः एकवचनम् च ।
२.३ कुतः (= from where) अव्ययम् ।
२.४ नगरतः = नगर + तः ।

  • २.४.१ नगर (= town, city) इति सामान्यनाम ।
  • २.४.२ तः (= from) प्रत्ययः ।
  • २.४.३ नगरतः =  from town

२.५ वार्ता “वृत्” १ आ. (= to happen) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “वार्ता” (= happening, news) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.६ तु (= but) अव्ययम् ।
२.७ काचित् = का + चित् ।

  • २.७.१ का “किम्” (= what) इति सर्वनाम । अत्र स्त्रीलिङ्गि “का” ।
  • २.७.२ चित् (= some) प्रत्ययः ।
  • २.७.३ काचित् = somewhat, any

२.८ श्रुता “श्रु” ५ प. (= to hear, to listen to) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “श्रुत” (= heard) । अत्र स्त्रीलिङ्गि “श्रुता” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.९ बाढम् (= yes) अव्ययम् ।
२.१० ब्रूहि “ब्रू” २ उ. (= to say, to tell) इति धातुः । तस्य परस्मैपदेन लेट्-आज्ञार्थे द्वितीयपुरुषे एकवचनम् च ।
२.११ युवा “युवन्” (= young) इति विशेषणम् । अत्र पुल्लिङ्गि प्रायः नाम अपि “युवा” (= youth, young man) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१२ पयोद-समये ।

  • २.१२.१ पयः ददाति = पयोदः । उपपद-तत्पुरुषः ।
  • २.१२.२ पयोदस्य समयः = पयोदसमयः । षष्ठी-तत्पुरुषः ।
  • २.१२.३ पयः “पयस्” (= water) नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • २.१२.४ ददाति “दा” ३ उ. (= to give) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।
  • २.१२.५ पयोदस्य “पयोद” (= who gives water, cloud) इति सामासिकम् पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.१२.६ समयः “समय” (= time, season) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.१२.७ पयोदसमये “पयोदसमय” (= time of cloud, rainy season) इति सामासिकम् पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.१३ भार्याम् “भृ” ३ उ. (= to bear, to attend to) इति धातुः । तस्य प्रयोजकात् विध्यर्थवाचकम् विशेषणम् “भार्य” (= attendant) । अत्र स्त्रीलिङ्गि नाम “भार्या” (= wife) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२.१४ विना (= without) अव्ययम् ।
२.१५ जीवति “जीव्” १ प. (= to live) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।
२.१६ सत्यम् “अस्” २ प. (= to be, to exist) इति धातुः । तस्मात् वर्तमानकालवाचकम् विशेषणम् “सत्” (= being, existing) तथा विध्यर्थवाचकम् विशेषणम् “सत्य” (= true) । प्रायः नपुंसकलिङ्गि नाम अपि “सत्य” (= truth, reality) । तस्य प्रथमा विभक्तिः एकवचनम् च । अत्र क्रियाविशेषणार्थे सत्यम् = really
२.१७ इति (= so, thus) अव्ययम् ।
२.१८ कथिता “कथ्” १० उ. (= to tell, to narrate) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “कथित” (= told, said, narrated) । अत्र स्त्रीलिङ्गि “कथिता” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१९ मया “अस्मद्” (= pronoun of first person, I, we) इति सर्वनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.२० अपि (= also) अव्ययम् ।
२.२१ संकीर्णा “सम् + किर्” ? (= to spread all over) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “संकीर्ण” (= diverse) । अत्र स्त्रीलिङ्गि “संकीर्णा” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.२२ पृथिवी (= earth) इति सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.२३  जनाः “जन” (= person, people) इति सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.२४  च (= and) अव्ययम्
२.२५ बहवः “बहु” (= many) इति अनिश्चित-संख्यावाचकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.२६  किम् (= what) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.२७  तत् (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च । परिणामवाचक क्रियाविशेषणार्थे अपि “तत्” (= then, as a result) ।
२.२८  न (= not) अव्ययम्
२.२९ सम्पद्यते “सम् + पद्” ४, १० आ. (= to happen, to be, to realize) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।

३ अन्वयाः अनुवादाः च ।

“भोः भोः पान्थ कुतः ?” = Eh, traveller, from where ?
“नगरतः” = “From city”
“वार्ता तु काचित् श्रुता?” = “Heard (got) any news ?”
“बाढम्” = “Yes”
“ब्रूहि” = “Tell (me)”
“युवा पयोद-समये भार्यां विना जीवति ।” = “Young man lives without (his) wife in rainy season”
“सत्यं जीवति” = “Really lives (?)”
“जीवति इति कथिता वार्ता मया अपि श्रुता ” = “(Yah), lives ! Thus I too heard a news being told (doing rounds)”
“पृथिवी संकीर्णा (अस्ति) = Earth (World) is diverse
जनाः च बहवः (सन्ति) = And men are many
किं तत् न सम्पद्यते” = What (can) then not happen ?

Mr. G S S Murthy gave a good translation –

“Traveler, from where are you?” “From the city” “Any news?” “Yes” “Tell me” ” Young man lives without his wife during the rainy season” “Really?” ” I heard so only” ” This world has variety; there are many people and what is it that cannot happen?”

४ टिप्पणयः ।

४.१ Analysis of the verse to find its meter would be as follows –

“भो भोः पान्थ कुतो?” “नगरतो” “वार्ता तु काचित् श्रुता?” । वर्णाः १७
(२ २ २) (१ १-२) (१-१-१)-(२ २-२) (१ २ २) १-२ मात्राः ।
(मातारा)-(सलगं)-(नसल)-(मातारा) (यमाता) ल-ग गणाः म स न म य ल ग

“बाढं” “ब्रूहि” “युवा पयोदसमये भार्यां विना जीवति ।” वर्णाः १९
(२-२ २)-(११-२) (१-२-१) (१-१-२) (२-२ १)-(२-२-१) १ मात्राः ।
(मातारा)-(सलगं) (जभान) (सलगं) (ताराज)-(ताराज) ग गणाः म स ज स त त ग

“सत्यं जीवति” “जीवतीति कथिता वार्ता मयापि श्रुता “। वर्णाः १९
(२-२ २)-(११-२) (१-२-१) (१-१-२) (२-२ १)-(२-२-१) १ मात्राः ।
(मातारा)-(सलगं) (जभान) (सलगं) (ताराज)-(ताराज) ग गणाः म स ज स त त ग

“संकीर्णा पृथिवी जनाश्च बहवः किं तन्न सम्पद्यते” ॥ वर्णाः ११
(२-२ २)-(११-२) (१-२-१) (१-१-२) (२-२ १)-(२-२-१) १ मात्राः ।
(मातारा)-(सलगं) (जभान) (सलगं) (ताराज)-(ताराज) ग गणाः म स ज स त त ग

गणाः म स ज स त त ग = शार्दूलविक्रीडितम् वृत्तम् ।

Analysis of only the first line is not working out to be of this meter. It seems to be rhyming alright. Maybe, I am committing some error when analysing.

४.२ Indian economy has been predominantly agrarian. In agrarian economy during rainy season there is no work in the farms for the young population. Youth will have the natural tendency to enjoy company of the spouse in rainy season. So if a youth lives without his wife in rainy season, it becomes a matter to wonder about. It becomes a “news” ! –

४.३ The whole poem मेघदूतम् by महाकवि कालिदास is set on this theme only. The young यक्ष has been banished by his master कुबेर to spend one year away from his home. It is onset of rainy season आषाढस्य प्रथमदिवसे He sights a cloud मेघमाश्लिष्टसानुम् । embracing (!) the peak of a hillock. Awareness of being away from his wife becomes intense in his mind. He becomes कामार्त and loses all discretion of what to tell to whom. That is how it is with people overcome with pangs of separation. कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ।

४.४ There has been an interesting sociologist thought behind some traditions and customs, followed especially during the rainy season. Considering that youth will tend to spend excessive time at home during this period, concept of चातुर्मास and rules of custom related to this चातुर्मास regulate over-indulgence in almost every other aspect of living the life. The customs even take care of proper eating habits to be observed during rainy season. Ladies observe every Monday of चातुर्मास as a fasting day. Observance of pious thoughts is of course inherent to observing fasting. That regulates sexual indulgence also.

In Maharashtra devotees trek to Pandharpur to have दर्शन of deity विठ्ठल during early part of आषाढमास. The trek would involve covering on foot a distance of 300-400 kilometers in about 10-12 days, weathering the rains.

A number of festivals occur in rainy season – नागपञ्चमी, रक्षाबंधन (समुद्रपूजन), गोकुलाष्टमी (श्रीकृष्णजन्मोत्सव), गणेशोत्सव, दशहरा ।

Since every festival is associated with some deity or the other, observance of pious thoughts is integral to observance of the festivities. नागपञ्चमी is particularly interesting. Since rain-waters will enter their holes, serpents will come out of the holes. Observance of नागपञ्चमी mandates not killing the serpents. They are friends of the farmers since they regulate the rodents. So, even serpents are an integral part of an agrarian economy !! नागपञ्चमी dictates serpents to be respected as deities. There is a village बत्तीसशिराळे in Maharashtra, where serpents come out or even taken out from their holes and on नागपञ्चमी day the serpents will not sting !! You can’t believe ? Well, visit बत्तीसशिराळे !

रक्षाबंधन (समुद्रपूजन) occurs on the full-moon day of श्रावणमास On this day, all sisters tie a thread on the wrists of their brothers. It is a tie, a binding on the brother, an annual oath that the brother will protect his sister against all odds. It is also the day for the fishermen to worship the lord of the seas. Sea is rough during monsoon, the rainy season. After this full-moon day the sea will become calmer for the fishermen to go fishing. Before embarking on the new season of going fishing after a long lull due to rough seas, समुद्रपूजन is performed seeking benevolence of the deities of the seas !

Is not this concept of deity associated with every other thing, so amazing and compelling and encompassing and empathetic and devout a concept ? A whole culture has been created around this concept and the culture lives for thousands of years, really thousands of years !!

४.५ Such culture will live. There is no reason why it would not live. सत्यं जीवति !

शुभमस्तु |

-o-O-o-

Advertisements

Learning Sanskrit by fresh approach – Lesson 59

Learning Sanskrit by fresh approach – Lesson 59
संस्कृतभाषायाः नूतनाध्ययनस्य नवपञ्चाशत्तमः (५९) पाठः ।

Mr. K. V. Mohan posted a query to samskrita@googlegroups.com, requesting translation of two verses. Mr. G S S Murthy promptly submitted some “rough” translations. Those verses make interesting study for these lessons, too. So, here is the first one –

मा गा इत्यपमङ्गलं व्रज सखे स्नेहेन दीनं वचः।
तिष्ठेति प्रभुता यथामति चरेत्यैवम् ह्युदासीनता ।
नो जीवाम विना त्वया यदुपते सम्भाव्यते वा न वा ।
स्मर्तव्या वयमादरेण भवता यावत् पुनर्दर्शनम् ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

मा गाः इति अपमङ्गलं व्रज सखे स्नेहेन दीनं वचः।
तिष्ठ इति प्रभुता यथा-मति चर इति एवम् हि उदासीनता ।
न उ जीवामः विना त्वया यदु-पते सम्भाव्यते वा न वा ।
स्मर्तव्याः वयम् आदरेण भवता यावत् पुनः दर्शनम् ॥

Actually व्रज सखे can be considered both as –

  • two separate words or
  • a compound word व्रज-सखे

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ मा (= “do not”) इति अव्ययम् ।
२.२ गाः “गम्” १ प. (= to go) इति धातुः । तस्य लेट्-आज्ञार्थे द्वितीय-पुरुषे एकवचनम् च ।

मा गाः is somewhat of a special construction in Sanskrit. It needs to be detailed better. I shall be obliged for a guidance on this detailing.

२.३ इति (= thus, such) अव्ययम् ।
२.४ अपमङ्गलम् ।

  • २.४.१ मङ्गलात् दूरम् = अपमङ्गलम् । उपपद-तत्पुरुषः ।
  • २.४.२ अप इति उपसर्गः “दूरम्”-इति भावार्थेन ।
  • २.४.३ मङ्गलात् “मङ्गल” (= good, blissful) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनम् च ।
  • २.४.४ दूरम् (= away) इति अव्ययम् ।
  • २.४.५ अपमङ्गलम् = away from being good, blissful, hence not of good omen.

२.५ व्रज  “व्रज्” १ प. (= to go, to move) इति धातुः । तस्य लेट्-आज्ञार्थे द्वितीयपुरुषे एकवचनम् ।
२.६ सखे “सखा” (= friend) इति स्त्रीलिङ्गि सामान्यनाम । तस्य सम्बोधन-प्रथमा विभक्तिः एकवचनम् च ।

Considering व्रज-सखे as a compound word –

व्रज-सखे ।

  • व्रजस्य सखा = व्रजसखा । षष्ठी-तत्पुरुषः ।
  • व्रजस्य “व्रज्” १ प. (= to go, to move) इति धातुः । तस्मात् “अयं व्रजति इति व्रजः” एवम् कर्तृवाचकम् पुल्लिङ्गि नाम “व्रज”(= one who walks, a cowherd – because he has to walk alongside of the cows) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • व्रजसखे “व्रजसखा” (= friend of cowherds) इति सामासिकम् पुल्लिङ्गि नाम । तस्य सम्बोधन-प्रथमा विभक्तिः एकवचनम् च ।

This is similar to व्रजभूमि = व्रजाणाम् भूमिः (= land of cowherds)

२.७ स्नेहेन “स्निह्” ४ प. (= to be affectionate) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “स्नेह” (= affection) । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.८ दीनम् “दीन” (= poor) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.९ वचः “वच्” २ प. (= to speak) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “वचस्” (= speech) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१० तिष्ठ “स्था” १ प. (= to stand, to stay, to stay put) इति धातुः । तस्य लेट्-आज्ञार्थे द्वितीयपुरुषे एकवचनम् ।
२.११ प्रभुता “प्र + भू” १ प. (= to overlord) इति धातुः । तस्मात् भाववाचकम् स्त्रीलिङ्गि नाम “प्रभुता” (= overlord-ship) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१२ यथा-मति ।

  • २.१२.१ यथा मतिः = यथामति । अव्ययीभावः ।
  • २.१२.२ यथा (= as) क्रियाविशेषणात्मकम् अव्ययम् ।
  • २.१२.३ मतिः “मन्” ४, ८ आ. (= to think) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “मत” । अत्र स्त्रीलिङ्गि “मति” (= thinking, intellect) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.१२.४ यथामति = as per own thinking

२.१३ चर “चर्” १ प. (= to move about) इति धातुः । तस्य लेट्-आज्ञार्थे द्वितीयपुरुषे एकवचनम् ।
२.१४ एवम् (= thus) अव्ययम् ।
२.१५ हि (= also) अव्ययम् ।
२.१६ उदासीनता “उत् + अस्” २ प. (= to be dejected) इति धातुः । तस्मात् भूतकालवाचकम् विशेषण”उदासीन” (= dejected) । तस्मात् भाववाचकम् स्त्रीलिङ्गि नामुदासीनता (= dejection, indifference)। तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१७ न (= not) अव्ययम् ।
२.१८ उ (= A particle of interjection, In classical literature used with न So न + उ = नो) अव्ययम् ।
२.१९ जीवामः “जीव्” १ प. (= to live) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे बहुवचनम् ।
२.२० विना (= without) अव्ययम्
२.२१ त्वया “युष्मद्” (= you) इति सर्वनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.२२ यदु-पते ।

  • २.२२.१ यदूनाम् पतिः = यदुपतिः । षष्ठी-तत्पुरुषः ।
  • २.२२.२ यदूनाम् “यदु” (= Name of an ancient king, Eldest son of ययाति and देवयानि, Ancestor of यादवा-s, In turn, यदु = descendant of यदु*) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • २.२२.३ पति: “पति” (= husband, master) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२२.४ यदुपते “यदुपति” (= master of यदु -s) इति सामासिकम् पुल्लिङ्गि नाम । तस्य सम्बोधन-प्रथमा विभक्तिः एकवचनम् च ।

२.२३ सम्भाव्यते “सम् + भू” १ प. (= to happen) इति धातुः । तस्य प्रयोजकस्य कर्मणि-प्रयोगे लट्-वर्तमानकाले तृतीय-पुरुषे एकवचनम् ।
२.२४ वा (= or) अव्ययम् ।
२.२५ स्मर्तव्याः “स्मृ” ५ प. (= to remember) इति धातुः । तस्मात् “तव्य”-प्रत्ययेन विध्यर्थि विशेषणम् “स्मर्तव्य” (= worthy of remembering) । तस्य पुल्लिङ्गेन तथा स्त्रीलिङ्गेण प्रथमा विभक्तिः बहुवचनम् च ।
२.२६ वयम् “अस्मद्” (= Pronoun of first person, i.e. I, We. Declensions of this pronoun are common in all genders) इत्ति सर्वनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.२७ आदरेण “आ + दृ” ६ आ. (= to have regard. This verb is normally used with the prefix आ) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “आदर” (= respects) । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.२८ भवता “भवत्” (= pronoun of second person, especially in respectable sense) इति आदरार्थि द्वितीय-पुरुषि सर्वनाम । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.२९ यावत् (= until) अव्ययम् ।
२.३० पुनः (= again) अव्ययम् ।
२.३१ दर्शनम् “दृश्” १ प. (= to see) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “दर्शन” (= having sight of) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

मा गा इति अपमङ्गलम् । = (To say) “Do not go” is not of good omen
व्रज सखे स्नेहेन दीनं वचः । = (To say) “Go friend” is a speech poor (devoid) of affection
तिष्ठ इति प्रभुता । = (To say) “Stay” connotes overlord-ship
यथा-मति चर इति एवम् हि उदासीनता । = (To say) “Do as you please” as such connotes indifference
न उ जीवामः विना त्वया यदु-पते सम्भाव्यते वा न वा । (To say) ” Oh master of descendants of यदु We would not live without you” will be (speaking a lie, because one does not know whether it) will happen so or not
स्मर्तव्याः वयम् आदरेण भवता यावत् पुनः दर्शनम् । = May we be worthy (that) you the honorable (will) remember us until (our) sighting you again.

Mr. G S S Murthy gave a good translation –

If we say,” Do not go”, it will be considered a bad omen; if we say,” friend, do go”, it will be deemed devoid of love; if we say, “stay back,” it will be considered an order; if we say,” do as you like,” it will be considered disinterestedness; if we say,” O, chief of Yadus, we will not live without you” it may not be believed; ” Do remember us with love till we meet again.”

४ टिप्पणयः ।

४.१ वर्णसंख्या मात्राः गणाः च –

मा गा इत्यपमङ्गलं व्रज सखे स्नेहेन दीनं वचः । वर्णसंख्या – १९
(२ २ २)-(१-१ २)-(१-२ १)-(१-१-२) (२-२-१) (२-२ १) ग मात्राः ।
(मातारा)-(सलगं) (जभान) (सलगं (ताराज)-(ताराज)-ग गणाः म स ज स त त ग

तिष्ठेति प्रभुता यथामति चरेत्यैवम् ह्युदासीनता ।
नो जीवाम विना त्वया यदुपते सम्भाव्यते वा न वा ।
स्मर्तव्या वयमादरेण भवता यावत् पुनर्दर्शनम् ॥

एतत् शार्दूलविक्रीडितम् वृत्तम् ।

४.२ The verse dwells upon six different options of what one may say at the time of someone dear going away. For five of the six options, a comment on how it could be misinterpreted is also stated.

४.३ The incident is from “श्रीमद्भागवतमहापुराणे दशमे स्कन्धे (in Part 10) एकोनचत्वारिंशः अध्यायः (Chapter 39) – श्रीकृष्णबलरामयोः मथुरां प्रति प्रस्थानं, (ShreekRuShNa and BalarAma starting to go to MathurA) विरहकातरगोपीनाम् करोणोद्गारः (Expression of anguish by Gopi-s due to separation)”

कंस, the king of मथुरा had sent अक्रूर to bring श्रीकृष्ण and बलराम to मथुरा. कंस was ill-famous for his cruelty. The anguish of separation had the added hue of anxiety about what may happen if कंस will go to extremes of cruelty towards श्रीकृष्ण and बलराम

By the fact itself, that कंस had ordered अक्रूर to bring श्रीकृष्ण and बलराम to मथुरा , everyone knew the intent. श्रीकृष्ण and बलराम were young boys really and had been commissioned to be in the presence of the cruel कंस  It was of course an invitation to a battle, especially after the fact that श्रीकृष्ण had put to death all the wily characters like पूतना when they were one at a time. So, कंस  had possibly decided to unleash the whole army.

४.४ Although the options are mentioned in the context of a specific instance in श्रीमद्भागवतम् an instance of someone dear about to go away can arise anytime. Interestingly, this has evolved into a convention of how the speech should be.

  • The last option has evolved into a custom to say गम्यताम् पुनरागमनाय ।
  • A custom closest to this is in Hindi “फिर मिलेंगे”
  • In Marathi, it is almost the rule that the person leaving should say येतो meaning “I (shall) come” To say जातो meaning “I go”, is considered not only bad omen but also as if the person has not learnt good manners.
  • To a person who is taking leave, in Gujarathi they say આવજો pronounced “aavajo” meaning “Do come” (again). That is so sweet, is it not ?
  • In German they say “auf wiedersehen” meaning “off, (but) to see again”.
  • In Japanese they say “saayo naaraa”. I wonder what that means literally.
  • When chatting on the internet, one simply types “c u” 🙂

४.५ Why, to say “Do not go” is considered as bad omen also has a logic. “Do not go” has “not” in it, a negative word. Anything negative is not a good omen. It is suggestive of a halt, a break, in the path, on which the person is embarking upon, is proceeding on.  Anyone’s tongue can have वाचासिद्धि that is to say, what the tongue emits will come true. If “Do not go” meaning a break in the mission would come true, it will be bad. So, saying so becomes a bad omen.

In fact there is a conventional assumption that God is always blessing तथास्तु (Be it so) to every utterance. And a blessing of तथास्तु to a negative utterance will be a bad omen. Haven’t people written books on “Positive Thinking” ?

४.६ How challenging it must be for a lady when her beloved, who, being a soldier, has orders to report at his battalion to join the war ? I get to remember the instance in the Hindi film दिल चाहता है 😦

४.७ War is never good. There is a very strong and long argument put forth by Arjuna in the first chapter in श्रीमद्भगवद्गीता. It spans over 15 श्लोकाः (32 to 46) !

४.८ The instance of a girl leaving her father’s house after marriage also became the prompt for the famous four श्लोकाः in अभिज्ञानशाकुन्तलम् । which we did study.

I do wish that people deeply in love with each other may never suffer separation – सम्भाव्यते वा न वा !!

शुभमस्तु |

-o-O-o-

Learning Sanskrit by fresh approach – Lesson 58

Learning Sanskrit by fresh approach – Lesson 58
संस्कृतभाषायाः नूतनाध्ययनस्य अष्टपञ्चाशत्तमः (५८) पाठः ।

In the previous lesson we studied reply of धर्मराज युधिष्ठिर to the second of the last four questions by यक्ष Here is reply of धर्मराज युधिष्ठिर to the third of the last four questions The question was “कः पन्थाः ?” The reply –

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः ।
नैको मुनिर्यस्य मतं प्रमाणम् ।
धर्मस्य तत्त्वं निहितं गुहायाम् ।
महाजनो येन गतः स पन्थाः ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

तर्कः अप्रतिष्ठः श्रुतयः विभिन्नाः ।
न एकः मुनिः यस्य मतं प्रमाणम् ।
धर्मस्य तत्त्वं निहितं गुहायाम् ।
महा-जनः येन गतः सः पन्थाः ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ तर्कः “तर्क्” (= to reason) इति धातुः । तस्मात् पुल्लिङ्गि नाम “तर्क” (= reasoning, logic) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.२ अप्रतिष्ठः “अ + प्र + स्था” १ प. (= not to be respected) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “अप्रतिष्ठ” (= not respected) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.३ श्रुतयः “श्रु” ५ प. (= to hear, to listen to) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “श्रुति” (= things to be listened to, scriptures) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.४ विभिन्नाः “वि + भिद्” १ प. ७ उ. (= to differ) इति धातुः । तस्य भूतकालवाचकम् विशेषणम्  “भिन्न” । अत्र स्त्रीलिङ्गि “भिन्ना” (= different, differing) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.५ न (= not) अव्ययम् ।
२.६ एकः “एक” (= one) इति संख्यावाचकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.७ मुनिः “मुनि” (= sage) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.८ यस्य “यत्” (= which) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
२.९ मतम् “मन्” ४, ८ आ. (= to bear in mind, to hold an opinion) इति धातुः । तस्य भूतकालवाचकम् विशेषणम्  । अत्र नपुंसकलिङ्गि “मत” (= opinion) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१० प्रमाणम् “प्र + मन्” ४, ८ आ. (= to be the norm) इति धातुः । तस्य प्रयोजकः “प्र + मान्” । तस्मात् विशेषणम् । अत्र नपुंसकलिङ्गि “प्रमाण” (= norm, standard) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.११ धर्मस्य “धृ” ६ आ. (= to hold steadfast) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “धर्म” (= righteousness) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
२.१२ तत्त्वम् “तत् + त्व = तत् इति भावः यस्य तत् “तत्त्व” (= principle, fundamental) इति भाववाचकम् नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१३ निहितम् “नि + धा” ३ उ. (= to hold in custody, to treasure) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “निहित” (= treasured) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१४ गुहायाम् “गुह्” १ उ. (= to cover, hide) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “गुहा” (= cave) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
२.१५ महा-जनः ।
२.१५.१ महान् जनः = महाजनः । कर्मधारयः ।
२.१५.२ महान् “महत्” (= large, highly placed) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१५.३ महाजनः “महाजन” (= highly placed person, idol) इति सामासिकम् पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१६ येन “यत्” (= which) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.१७ गतः “गम्” १ प. (= to go, to tread) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “गत” (= treaded) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१८ पन्थाः “पन्थस्” (= way, pathway) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

तर्कः अप्रतिष्ठः (अस्ति) । = Logic does not command high regards
श्रुतयः विभिन्नाः (सन्ति) । = Scriptures are varied
न एकः मुनिः (अस्ति) = There is no one single sage,
यस्य मतं प्रमाणम् (अस्ति) । = whose opinion is the norm
धर्मस्य तत्त्वं गुहायाम् निहितं (भवति) । = Fundamentals of truth and righteousness are treasured in a cave
महा-जनः येन गतः सः पन्थाः (भवति) । = The way to go is the way a respected person goes.

४ टिप्पणयः ।

४.१ By setting the verse into four lines, it would read as –

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः । वर्णाः ११
(२-२-१)-(२-२ १)-(१-२ १)-२-२ मात्राः ।
(ताराज)-(ताराज)-(जभान)-ग-ग गणाः त त ज ग ग

नैको मुनिर्यस्य मतं प्रमाणम् । वर्णाः ११
(२-२ १)-(२-२-१) (१-२-१)-२-२ मात्राः ।
(ताराज)-(ताराज)-(जभान)-ग-ग गणाः त त ज ग ग

धर्मस्य तत्त्वं निहितं गुहायाम् । वर्णाः ११
(२-२-१) (२-२-१)-(१-२-१)-२-२ मात्राः ।
(ताराज)-(ताराज)-(जभान)-ग-ग गणाः त त ज ग ग

महाजनो येन गतः स पन्थाः ।  वर्णाः ११
(१-२-१)-(२-२-१) (१-२-१) २-२ मात्राः ।
(जभान)-(ताराज)-(जभान)-ग-ग गणाः ज त ज ग ग

प्रथमे द्वितीये तथा तृतीये चरणे त-त-ज-ग-ग गणाः । तेन “इन्द्रवज्रा” वृत्तम् ।
चतुर्थे चरणे ज-त-ज-ग-ग गणाः । तेन “उपेन्द्रवज्रा” वृत्तम् ।
संपूर्ण-पदस्य वृत्तम् “उपजाति” ।

४.२ The last two lines of this shloka have become famous as stand-alone cardinal statements –

धर्मस्य तत्त्वं निहितं गुहायाम् ।

as also

महाजनो येन गतः स पन्थाः ।

४.३ One finds endorsement of the statement धर्मस्य तत्त्वं निहितं गुहायाम् in many scriptures –

  • मुण्डकोपनिषद् –
  • एतद्यो वेद निहितं गुहायाम् (मन्त्रः – २४)
  • कठोपनिषद् –
  • आत्मास्य जन्तोर्-निहितो गुहायाम् (मन्त्रः – ४४)
  • क्षुरस्य धारा निशिता दुरत्यया ।
  • दुर्गं पथस्तत् कवयो वदन्ति । (मन्त्रः – ६१)
  • ईशावास्योपनिषद् –
  • हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् ।
  • तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये । (मन्त्रः – १५)
  • Note – तत्त्वं पूषन्नपावृणु = तत्त्वं पूषन् अपावृणु
  • also तत्त्वं पूषन्नपावृणु = तत् त्वम् पूषन् अपावृणु !!
  • also in श्रीमद्भगवद्गीता –
  • आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
  • कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३-३९॥

४.४ Although the two statements above have become cardinal statements, it becomes necessary to understand why धर्मराज युधिष्ठिर says at the beginning of his reply तर्कः अप्रतिष्ठः (अस्ति) । = Logic does not command high regards.

  • Since I have never studied “Logic” as a subject, I explored on the internet and found following information at http://en.wikipedia.org/wiki/Law_of_noncontradiction
  • “…..
  • In logic, the Principle of contradiction is the second of the so-called three classic laws of thought. The oldest statement of the law is that contradictory statements cannot both at the same time be true
  • The principle is also found in ancient Indian logic as a meta-rule in the Shrauta Sutras, the grammar of PāNini and the Brahma Sutras attributed to Vyasa. It was later elaborated on by medieval commentators such as Madhvacharya.
  • ….”
  • In short what we can understand is that the science of Logic does not lead to definitive conclusions, which will be beyond contradictions.
  • धर्मस्य तत्त्वम् which any person would want to know is the “fundamental truth”, fundamental truth of, say, how life is born, why life is born, what all things control the passage of life, what is destiny, what are limitations of human effort, are there limitations, can the limitations be surmounted, can aging be overcome so that man may live immortal and so on and so forth
  • I guess, it is these sort of questions, which धर्मराज युधिष्ठिर encompasses by the phrase धर्मस्य तत्त्वम् He alludes to two resources (1) science of Logic and (2) scriptures श्रुतयः Both have been dwelt upon by the sages मुनयः the thinkers, people who meditated deeply into the depths of “caves” But there is not one sage, who can be said to have given the ultimate answer.
  • Even today people are constructing 27 km long “cave” – the photon accelerator – to find what “matter” is. This is what one can expect materialistic people to explore.
  • Actually when saying “नैको मुनिर्यस्य मतं प्रमाणम्” धर्मराज युधिष्ठिर may not be wanting to dwell on the contradictions in the theories propounded by मुनि-s. He seems to be more speaking of what the norm प्रमाणम् should be. What should the common man do ? That is what यक्ष asked “कः पन्थाः ?” Actually we should acknowledge that यक्ष asked the question on behalf of all of us !! Right ?
  • Reply of धर्मराज युधिष्ठिर is really one-liner – महाजनो येन गतः स पन्थाः But the first three lines are sort of justifications of the advice in the last line.
  • We come across this advice महाजनो येन गतः स पन्थाः  also in श्रीमद्भगवद्गीता –

यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः |
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ||३-२१॥

  • Interestingly norms are set not by the sages मुनयः but by महा-जनः or श्रेष्ठः  It is श्रेष्ठः who प्रमाणं कुरुते sets the norm. One such श्रेष्ठः was possibly आचार्य चाणक्य who set the norms for polity, governance, economics, etc.
  • Another श्रेष्ठः was Mahatma Gandhi.
  • Important point to call a person as श्रेष्ठः is one, who sets the norm by his own conduct यद्यदाचरति Norms are better set by one’s own conduct and not by writing volumes of philosophy.  महा-जनः has to walk the path. That and only that then becomes सः पन्थाः

४.५ महा-जनः really leads the way. It seems today’s world is pathetically short of people who can be called as महा-जनः or श्रेष्ठः
Every other country in the world has leaders. But they are all political leaders. What societies need are people with character महा-जनः or श्रेष्ठः who have to be also active in the social cause, not really ones, who delve deep into “caves” and photon accelerators or those want to traverse the caves of the extra-terrestrial worlds.

४.६ How a महा-जनः or श्रेष्ठः condescends in a society or how a society can have a महा-जनः or श्रेष्ठः can be a matter of investigation for the मुनयः or scientists 🙂 !

शुभमस्तु |

-o-O-o-

Learning Sanskrit by fresh approach – Lesson 57

Learning Sanskrit by fresh approach – Lesson 57
संस्कृतभाषायाः नूतनाध्ययनस्य सप्तपञ्चाशत्तमः (५७) पाठः ।

In the previous lesson we had a question किमत्र चित्रम् We have a similar question किम् आश्चर्यम् in this सुभाषितम् –

अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

अहनि अहनि भूतानि गच्छन्ति इह यम-आलयम् ।
शेषाः स्थावरम् इच्छन्ति किम् आश्चर्यम् अतः परम् ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ अहनि “अहन्” (= day) इति नपुंसकलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
२.२ भूतानि “भू” १ प. (= to be) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “भूत” (= being brought into existence) । अत्र नपुंसकलिङ्गि  सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.३ गच्छन्ति “म्” (= to go) इति धातुः । तस्य लट्-वर्तमानकाले तृतीयपुरुषे बहुवचनम् च ।
२.४ इह (= here) अव्ययम् ।
२.५ यम-आलयम् ।

  • २.५.१ यमस्य आलयम् = यमालयम् । षष्ठी-तत्पुरुषः ।
  • २.५.२ यमस्य “यम्” (= to regulate) इति धातुः । तस्मात् कर्तृवाचकम् पुल्लिङ्गि विशेषनाम “यम” (= regulation, Name of God of death)। तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.५.३ आलयम् “आ + ली” ४ आ. (= to rest) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “आलय” (= resting place) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.५.४ यमालयम् “यमालय” (= abode of यम) इति सामासिकम् नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.६ शेषाः “शिष्” १ प. ७ प. १० उ. (= to remain balance) इति धातुः । तस्मात् विशेषणम् “शेष” (= what remains or he who remains) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.७ स्थावरम् ।

  • २.७.१ स्थातुम् वरम् = स्थावरम् । मध्यमपदलोपी समासः ।
  • २.७.२ स्थातुम् “स्था” (= to stand, to stay, to stay put, to live) १ प. इति धातुः । तस्य तुमन्तम् अव्ययम् स्थातुम् (= to be staying, to be living) ।
  • २.७.३ वरम् “वृ” १, ५, ९ उ. (= to prefer, to select, to choose) इति धातुः । तस्मात् भाववाचकम् विशेषणम् “वर” (= preferable) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.७.४ स्थावरम् “स्थावर” (= preference to live) इति सामासिकम् नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२.८ इच्छन्ति “इष्” ६ प. (= to wish, to desire) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे बहुवचनम् च ।
२.९ किम् (= what) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१० आश्चर्यम् (आः एवम् चर्यते अनेन = ) “आश्चर्य” (= strange, wonder) इति भाववाचकम् नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.११ अतः (= from here) इति अव्ययम् ।
२.१२ परम् “पर” (= another) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१३ अतः परम् becomes a commonplace phrase, meaning “other than this”, “further to this”

३ अन्वयाः अनुवादाः च ।

इह अहनि अहनि भूतानि यम-आलयम् गच्छन्ति । = Here (in this world) every day beings brought into existence go to abode of यम (That is every day millions and trillions of lives die
शेषाः स्थावरम् इच्छन्ति । = Those who remain (yet) wish to stay, wish to live. They are all driven by survival instinct
अतः परम्आश्चर्यम् किम् । = what is (what can be) stranger than this ?

४ टिप्पणयः ।

४.१ By setting the verse into four lines, it would read as –

अहन्यहनि भूतानि । वर्णाः ८
१-२-१-१-१ २-२*-१ मात्राः ।

गच्छन्तीह यमालयम् । वर्णाः ८
२-२-२-१ १-२-१*-२ मात्राः ।

शेषाः स्थावरमिच्छन्ति । वर्णाः ८
२-२ २-१-१-२-२*-१ मात्राः ।

किमाश्चर्यमतः परम् । वर्णाः ८
१-२-२-१-१-२ १*-२ मात्राः ।

अनुष्टुभ् छन्दः । लक्षणम् – श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुःपादयोर्र्‍हस्वं सप्तमं दीर्घमन्ययोः ॥

I have made fifth and sixth syllables bold to facilitate verification of पञ्चमम् लघु and षष्ठं गुरु
Asterisk * is marked for the seventh to facilitate verification of the second line.

४.२ This shloka is from श्रीमहाभारते वनपर्वणि आरणेयपर्वणि यक्षप्रश्ने त्रयोदशाधिकत्रिसत्तमेऽध्याये ११६-तमः अयम् श्लोक: । This shloka is answer given by धर्मराज युधिष्ठिर to one of the questions by यक्ष The question was –

को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका ।
ममैतांश्चतुरः प्रश्नान् कथयित्वा जलं पिब ॥११४॥

The background to why यक्ष asked the questions was –
Towards the end of their twelve-year-long वनवास once when पाण्डवा-s were thirsty, धर्मराज युधिष्ठिर sent नकुल to look around for water. Since he did not return for a long time, he sent सहदेव, then भीम then even अर्जुन. Finally when none of them returned for long, he himself went over. There was a big lake. But all his brothers were lying dead at the bank of the lake. He proceeded to the lake to sprinkle water on them. But he was promptly stopped on the way by an invisible somebody. That was a यक्ष The यक्ष declared that all four brothers were lying dead, because they did not obey him and the water turned poison. “You will also meet the same fate, if you also disobey.” धर्मराज युधिष्ठिर asked what the orders are. यक्ष said, you have to answer my questions. The shloka above has the last four questions, after satisfactorily answering which धर्मराज युधिष्ठिर would be free to partake of the water जलं पिब The second question out of the four was किम् आश्चर्यम् ? What we are studying is reply given by धर्मराज युधिष्ठिर

It comes to mind that every one of thirty-odd questions, especially answer given by धर्मराज युधिष्ठिर is a सुभाषितम्, fit to be studied in these lessons of संस्कृतभाषायाः नूतनाध्ययनम्

४.३ This word स्थावर is also mentioned in श्रीमद्भगवद्गीता –

यावत् संजायते किञ्चित् सत्त्वम् स्थावरजंगमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ॥ १३-२६ ॥

स्थावरजंगमम् = animate or moving (जंगम) and inanimate or non-moving (स्थावर) things

४.४ We came across this phrase अहनि अहनि earlier also in पाठः ३३ –

आयुषः खण्डमादाय रविरस्तमयं गतः |
अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम् ||

४.५ The import of the reply of धर्मराज युधिष्ठिर is गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ (पाठः १९) The simple fact that millions and trillions of lives die every day should caution us to remember that we should not take life for granted. I am interpreting the plural in the word भूतानि as millions and trillions of lives, In doing so, I have in mind trillions of microbes also, which are lives, right ? And they have such a short life-span. Every life lives with inherent survival instinct.

The way to live should however be not just by survival instinct but by righteousness धर्मः । One important aspect of धर्मः । is regulated behaviour, regulated conduct यमः = धर्मः ।

The eight-fold aspects of अष्टांगयोगः are – यम-नियम-आसन-प्राणायाम-प्रत्याहार-ध्यान-धारणा-समाधि इति अष्टांगयोगः ।

I have listened to so many people saying “I do योगः every day.” Is योगः something, to be done as a ritual for a limited amount of time every day ? All the eight aspects together make a way of life, to be practised every conscious moment ! The first aspect यम has itself been detailed as –

ब्रह्मचर्य दया शान्तिर्दानं सत्यमकल्कता । अहिंसाऽस्तेयमाधुर्यं दमश्चेति यमाः स्मृताः ॥ (याज्ञवल्क्यसंहिता ३-३१३)

Just consider the word अहिंसा here. Physical harm alone is not हिंसा Hurting by offensive language is also हिंसा Hence we had the mention in lesson # 26 of अनुद्वेगकरं वाक्यं from seventeenth chapter in the श्रीमद्भगवद्गीता –

देवद्विजगुरुप्राज्ञपूजनम् शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७-१४॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७-१५॥
मनःप्रसादं सौम्यत्वं मौनं आत्मविनिग्रहः । भावसंशुद्धिरित्येतत् तपो मानसमुच्यते ॥१७-१६॥

So many misconceptions seem to prevail and spread about doing योगः every day (!), about यमः about धर्मः about अहिंसा about तप To resolve many of those misconceptions सुभाषितानि are verily the beacons, the guiding lights !! Hence this संस्कृतभाषायाः नूतनाध्ययनम् by studying सुभाषितानि The study of संस्कृत also becomes as much rich and meaningful, is it not ?

४.६ By saying किमाश्चर्यमतः परम् it seems that धर्मराज युधिष्ठिर is chiding at people living primarily by survival instinct, living with the thought “Today is not my day of dying !” forgetting that न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । (Lesson # 9)

Of course there ought to be also higher purpose in living !

४.७ Why सुभाषितानि in संस्कृतम् | are “jewels” पृथिव्यां त्रीणि रत्नानि is because of the invaluable guidance they provide on how to live our life !!

शुभमस्तु |

-o-O-o-

Learning Sanskrit by fresh approach – Lesson 56

Learning Sanskrit by fresh approach – Lesson 56
संस्कृतभाषायाः नूतनाध्ययनस्य षट्पञ्चाशत्तमः (५६) पाठः ।

We have been discussing some weighty subjects in Sanskrit grammar, like संहिता शिवसूत्राणि वर्णाः अष्टाध्यायी by पाणिनी Maybe it is time to relax a bit. This सुभाषितम् is sort of a parody even though there is a mention of पाणिनी

काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् ।
विचारवान्पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

काचं मणिं काञ्चनम् एक-सूत्रे मुग्धाः निबध्नन्ति किम् अत्र चित्रम् ।
विचारवान् पाणिनिः एक-सूत्रे श्वानं युवानं मघवानम् आह ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ काचम् “काच” (= glass) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२.२ मणिम् “मणि” (= bead) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२.३ काञ्चनम् “काञ्चन” (= gold) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२.४ एक-सूत्रे ।

  • २.४.१ एकम् सूत्रम् = एकसूत्रम् । कर्मधारयः ।
  • २.४.२ एकम् (= one) इति संख्यावाचकम् विशेषणम् । अत्र नपुंसकलिङ्गि ।
  • २.४.३ सूत्रम् “सूत्र्” १० उ. (= to provide a thread) इति धातुः । तस्मात् करणवाचकम् नपुंसकलिङ्गि नाम “सूत्र” (= thread) । तस्य प्रथमाविभक्तिः एकवचनम् च ।
  • २.४.४ एकसूत्रे “एकसूत्र” (= single thread) इति सामासिकम् नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.५ मुग्धाः “मुह्” ४ प. (= lose sense) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “मुग्ध” (= wayward) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.६ निबध्नन्ति “नि + बन्ध्” ९ प. (= to tie) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे बहुवचनम् च ।
२.७ किम् (= what) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.८ अत्र (= here) अव्ययम् ।
२.९ चित्रम् “चित्र” (= strange) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१० विचारवान् “वि + चर्” १ प. (= to think) इति धातुः । तस्य प्रयोजकात् कर्तृवाचकम् विशेषणम् “विचारवत्” (= wise, intelligent) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.११ पाणिनिः “पाणिनी” इति विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१२ श्वानम् “श्वन्” (= dog) पुल्लिङ्गि सामान्यनाम । तस्य द्वितीयाविभक्तिः एकवचनम् च ।
२.१३ युवानम् “युवन्” (= youth) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२.१४ मघवानम् “मघवन्” (= epithet of Indra) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२.१५ आह “अह्” (= to say) १ आ. अथवा १० उ. धातुः अथवा ब्रू (= to say) २ उ. धातुः । तस्य भूतकाले तृतीयपुरुषे एकवचनम् ।

३ अन्वयाः अनुवादाः च ।

मुग्धाः काचं मणिं काञ्चनम् एकसूत्रे निबध्नन्ति अत्र चित्रम् किम् । = What is (so) strange that wayward people tie onto a single thread, beads, glass and gold ?
विचारवान् पाणिनिः श्वानम् युवानम् मघवानम् एकसूत्रे आह | = (Even) a wise person as PaaNinee put a dog, a youth and Indra in a single thread !

४ टिप्पणयः ।

४.१ By setting the verse into four lines, it would read as –

  • काचं मणिं काञ्चनमेकसूत्रे । वर्णाः ११

(२-२-१)-(२ २-१)-(१-२-१)-२-२ मात्राः
ताराज ताराज जभान ग ग = गणाः त त ज ग ग ।

  • मुग्धा निबध्नन्ति किमत्र चित्रम् । वर्णाः ११

(२-२ १)-(२-२-१) (१-२-१) २-२ मात्राः
ताराज ताराज जभान ग ग = गणाः त त ज ग ग ।

  • विचारवान्पाणिनिरेकसूत्रे । वर्णाः ११

१-२-१-२-२-१-१-२-१-२-२ मात्राः
जभान ताराज जभान ग ग = गणाः ज त ज ग ग ।

  • श्वानं युवानं मघवानमाह ॥ वर्णाः ११

२-२ १-२-२ १-१-२-१-२-१(२) मात्राः
ताराज ताराज जभान ग ग = गणाः त त ज ग ग ।

  • (१) प्रथमे द्वितीये तथा चतुर्थे चरणे – स्यादिंद्रवज्रा यदि तौ जगौ गः । – वृत्तम् इन्द्रवज्रा ।
    (२) तृतीये चरणे – उपेन्द्रवज्रा प्रथमे लघौ सा । – वृत्तम् उपेन्द्रवज्रा ।
    (३) When इन्द्रवज्रा and उपेन्द्रवज्रा are mixed in one stanza, the meter is called उपजाति | It is said to have 14 varieties !! This variety is of course different from the one we had in the previous lesson. There, alternate lines were in इन्द्रवज्रा and उपेन्द्रवज्रा metres. Here we have only the third line in उपेन्द्रवज्रा metre.

४.२ The सूत्रम् in अष्टाध्यायी of पाणिनी in which he put श्वानं युवानं मघवानम् in one सूत्रम् is – श्वयुवमघोनामतद्धिते (६.४.१३३)

Of course there is grammatical logic why पाणिनी put these three words in one सूत्रम् | All the three words have ending consonant न् in their मूलसंज्ञा as can be seen in (२.१२), (२.१३) and (२.१४) above. They are all पुल्लिङ्गि So, they would decline in a like manner.

Since by their meanings they are so very different in characteristics became enough excuse for the poet to make a parody of it as if to make a justification for the action of witless commoners in putting gold and glass-beads onto one thread to make a necklace.

४.३ Because the justification is by parody, it suggests advocacy of its converse. This is व्यङ्ग्यालङ्कार Converse means people should not put glass beads and gold onto one thread. Basically the advice is not to indulge in external ornamentation. We had similar advice in the सुभाषितम् – पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥  Interestingly, there we had the word मूढैः Here we have मुग्धाः  Both are past participles from the same “मुह्” धातुः ।

४.४ Putting a witty comment or a sage advice in a short two-liner or four-liner seems to be a poetic style in many languages. It might have been substantially motivated by सुभाषितानि in संस्कृतम् During nearly three centuries of Mughal reign in India such short verses in Urdu poetry known as shero-shaayaree flourished very much. They say, in Japanese also they have such style, which is known as Haiku. Urdu shero-shaayaree seems to be more indulgent of the frivolousness in royal courts and in the happy-go-lucky life-styles of the clan. They are replete in dwelling on wine and women.

In Hindi devotional poetry composed primarily by saint poets, two-liners known as दोहा are widely read and recited even to this day, especially in राम-चरित-मानस by Saint कबीर *

* सुष्ठु निर्दिष्टम् श्रीमता “वासु”-महाभागेन यत् “श्रीराम-चरित-मानस” एषा कृतिः तुलसीदास-विरचिता एव अस्ति । “दोहा”-इति काव्यपद्धति-विषये संत-कबीरः अपि विख्यातः ।

In Marathi poetry there is a vast amount of such short-verse poetry most popular and respected ones being (1) भावार्थदीपिका or ज्ञानेश्वरी by संत ज्ञानेश्वर (2) गाथा by संत तुकाराम (3) दासबोध by संत रामदास (4) भागवत by संत एकनाथ Much of the poetry is in a unique metre known as अभंग Since all this poetry is by poet-saints, they dwell upon philosophy, devotion and chaste life.

There is such high dignity and eternal cultural value in the contents of सुभाषितानि in संस्कृतम् | Something close enough to सुभाषितानि in संस्कृतम् are Tirukkurals in Tamil. But Tirukkurals are by a single poet Tiruvalluvar Thyaagaraajan said to have been composed in first century AD. They are 1330 verses made into 133 chapters of 10 verses each. They are in three sections ArattuppaL having 38 chapters, PoruTpaL having 70 chapters and KaamattupaL having 25 chapters. As the names of sections suggest ArattuppaL dwells on अर्थ aspect of man’s life PoruTpaL dwells on धर्म aspect and KaamattupaL dwells on काम aspect.

Sanskrit version of TirukkuraL is available at http://nvkashraf.co.cc/kursan/san13.htm

TirukkuraL seem to be very similar to नीतिशतकम् वैराग्यशतकम् and शृङ्गारशतकम् of भर्तृहरिः ।

शुभमस्तु |

-o-O-o-

Learning Sanskrit by fresh approach – Lesson 55

Learning Sanskrit by fresh approach – Lesson 55
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चपञ्चाशत्तमः (५५) पाठः ।

In टिप्पणयः of previous lesson # 54, I made an observation “… Study of संहिता is like study of chemistry. … The list of vowels and consonants is like the periodic table of elements !” Vowels and consonants are called as वर्णाः in देवनागरी the script of Sanskrit.

देवनागरी वर्णमाला is said to have emanated when Lord शिव played 14 notes from his drum डमरू This is very poetically acknowledged in this श्लोकः –

नृत्तावसाने नटराजराजः निनाद ढक्काम् नवपञ्चवारम् ।
उद्धर्तुकामस्सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

नृत्त-अवसाने नट-राज-राजः निनाद ढक्काम् नव-पञ्च-वारम् ।
उद्धर्तु-कामः सनक-आदि-सिद्धान् एतत् विमर्शे शिव-सूत्र-जालम् ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ नृत्तावसाने ।

  • २.१.१ नृत्तस्य अवसानम् = नृत्तावसानम् । षष्ठी-तत्पुरुषः ।
  • २.१.२ नृत्तस्य “नृत्” (= to dance) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् तथा नपुंसकलिङ्गि नाम “नृत्त” (= dance, act, performance) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.१.३ अवसानम् “अव + सद्” (= to calm down, to complete) इति धातुः । तस्मात् क्रियावाचकम् नपुंसकलिङ्गि नाम “अवसान” (= ending, closing) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.१.४ नृत्तावसाने “नृत्तावसान” (= end of dance) इति सामासिकम् नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.२ नटराजराजः ।

  • २.२.१ नटे राजा = नटराजः । सप्तमी-तत्पुरुषः ।
  • २.२.२ नटराजेषु राजा = नटराजराजः । सप्तमी-तत्पुरुषः ।
  • २.२.३ नटे “नट्” १ प. (= to dance, to act, to perform on stage) इति धातुः । तस्मात् पुल्लिङ्गि सामान्यनाम “नट” (= actor, performer) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २.२.४ राजा “रम् जनयति = generates heat” अथवा “रञ्जनम् करोति = pleases” अथवा “राज्” १ प. (= to be eminent) इति धातुः । तस्मात् कर्तृवाचकम् पुल्लिङ्गि नाम “राजन्” (तत्पुरुष-समासानाम् अन्ते इति अकारान्तम् पुल्लिङ्गि नाम “राज” यथा महाराज, नटराज) (= lord, king) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२.५ नटराजेषु “नटराज” (= lord of the stage) इति सामासिकम् पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
  • २.२.६ नटराजराजः = Lord of Lords of dance, more generally, of stage

२.३ निनाद “नद्” १ प. (= to sound) इति धातुः । तस्य लिट्-परोक्षभूतकाले तृतीय-पुरुषे एकवचनम् च ।
२.४ ढक्काम् “ढक्का” (= Shiva’s drum, also known as डमरू) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२.५ नवपञ्चवारम् ।

  • २.५.१ नव च पञ्च च = नवपञ्च । समाहार द्वन्द्वः ।
  • २.५.२ नवपञ्च वारम् = नवपञ्चवारम् । अव्ययीभावः ।
  • २.५.३ नव (= nine) इति संख्यावाचकम् विशेषणम् ।
  • २.५.४ पञ्च (= five) इति संख्यावाचकम् विशेषणम् ।
  • २.५.५ वारम् “वार” (= count of turns, when something is being repeated or count of number of times) इति प्रत्ययात्मकम् पुलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • २.५.६ नवपञ्चवारम् = nine and five (= total fourteen) times

२.६ उद्धर्तु-कामः ।

  • २.६.१ उद्धर्तुम् कामः यस्य सः =  उद्धर्तुकामः । बहुव्रीहिः ।
  • २.६.२ उद्धर्तुम् “उत् + हृ” १ उ. (= to uplift) इति धातुः । तस्मात् तुमन्तम् अव्ययम् उद्धर्तुम् (= for uplifting) ।
  • २.६.३ कामः “काम” (= wish, desire) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.६.४ उद्धर्तुकामः “उद्धर्तुकाम” (= desirous of uplifting) इति सामासिकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.७ सनक-आदि-सिद्धान् ।

  • २.७.१ सनकः आदौ यस्य सः = सनकादि । बहुव्रीहिः ।
  • २.७.२ सनकादि सिद्धः = सनकादिसिद्धः । कर्मधारयः ।
  • २.७.३ सनकः “सन्” १ प. ८ उ. (= to love, to like, to worship, to adore, to honour, to receive graciously) इति धातुः । तस्मात् “क”-प्रत्ययेन कर्तृवाचकम् विशेषणम् तथा पुराणमुनिनः पुल्लिङ्गि विशेषनाम “सनक” (= respectful, name of sage) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.७.४ आदौ “आदि” (= beginning) इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २.७.५ सिद्धः “सिध्” ४ प. (= to accomplish) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “सिद्ध” (= accomplished) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.७.६ सनकादिसिद्धान् “सनकादिसिद्ध” (= sages starting from sage Sanak) इति सामासिकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

२.८ विमर्शे “वि + मृश्” ६ प. (= to deliberate) इति धातुः । तस्य लट्-वर्तमानकाले प्रथम-पुरुषे एकवचनम् च ।
२.९ शिव-सूत्र-जालम् ।

  • २.९.१ शिवेन निर्देशितम् सूत्रम् = शिवसूत्रम् । मध्यमपदलोपी ।
  • २.९.२ शिवसूत्राणाम् जालम् = शिवसूत्रजालम् । षष्ठी-तत्पुरुषः ।
  • २.९.३ शिवेन “शिः + व = ” “शिवम् करोति सः = ” शिव (= one, who is benevolent, Lord Shiva) इति पुल्लिङ्गि विशेषनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • २.९.४ निर्देशितम् “निः + दिश्” ६ उ. (= to give direction) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “निर्देशित” (= directed) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.९.५ सूत्रम् “सूत्र्” १० उ. (= to provide lead) इति धातुः । तस्मात् करणवाचकम् नपुंसकलिङ्गि नाम “सूत्र” (= lead, thread, aphorism) । तस्य प्रथमाविभक्तिः एकवचनम् च ।
  • २.९.६ शिवसूत्राणाम् “शिवसूत्र” (= aphorism directed by Shiva) इति सामासिकम् नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • २.९.७ जालम् “जाल” (= net, network) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

सनक-आदि-सिद्धान् उद्धर्तु-कामः नट-राज-राजः नृत्त-अवसाने ढक्काम् नव-पञ्च-वारम् निनाद । = Lord among lords of stage (dancers) with the intent of bestowing grace upon accomplished sages starting from Sanak-muni, at the closing of his (celestial) dance played his drum nine and five (= fourteen) times.

It is possible to render another अन्वयः of this –
उद्धर्तु-कामः नट-राज-राजः नृत्त-अवसाने ढक्काम् नव-पञ्च-वारम् सनक-आदि-सिद्धान् निनाद । = Lord Shiva with the intent of bestowing grace (upon the world) at the closing of his (celestial) dance played his drum nine and five (= fourteen) times to (the audience of) accomplished sages starting from Sanak-muni

एतत् शिव-सूत्र-जालम् (अहम्) विमर्शे । = I do deliberation on that net of aphorisms produced by Lord Shiva.

४ टिप्पणयः ।

४.१ By setting the verse into four lines, it would read as –

नृत्तावसाने नटराजराजः । वर्णाः ११
२-२-१-२-२ १-१-२-१-२-२ मात्राः १८
ताराज ताराज जभान गग
गणाः – त त ज ग ग

निनाद ढक्कां नव-पञ्च-वारम् । वर्णाः ११
१-२-१ २-२ १-१-२-१-२-२ मात्राः १७
जभान ताराज जभान ग ग
गणाः – ज त ज ग ग

उद्धर्तुकामः सनकादिसिद्धान् । वर्णाः ११
२-२-१-२-२ १-१-२-१-२-२ मात्राः १८
ताराज ताराज जभान गग
गणाः – त त ज ग ग

एतद्विमर्शे शिवसूत्रजालम् ॥ वर्णाः ११
१-२-१-२-२ १-१-२-१-२-२ मात्राः १७
जभान ताराज जभान ग ग
गणाः – ज त ज ग ग

(१) प्रथमे तथा तृतीये चरणे – स्यादिंद्रवज्रा यदि तौ जगौ गः । – वृत्तम् इन्द्रवज्रा ।
(२) द्वितीये तथा चतुर्थे चरणे – उपेन्द्रवज्रा प्रथमे लघौ सा । – वृत्तम् उपेन्द्रवज्रा ।
(३) When इन्द्रवज्रा and उपेन्द्रवज्रा are mixed in one stanza, the meter is called उपजाति | It is said to have 14 varieties !!

४.२ The fourteen शिवसूत्राणि –

  • १ अ इ उ ण् । वर्णाः ३ अ इ उ
  • २ ऋ ऌ क् । वर्णाः २ ऋ ऌ
  • ३ ए ओ ङ् । वर्णाः २ ए ओ
  • ४ ऐ औ च् । वर्णाः २ ऐ औ
  • ५ ह य व र ट् । वर्णाः ४ ह य व र
  • ६ ल ण् । वर्णाः १ ल
  • ७ ञ म ङ ण न म् । वर्णाः ५ ञ म ङ ण न
  • ८ झ भ ञ् । वर्णाः २ झ भ
  • ९ घ ढ ध ष् । वर्णाः ३ घ ढ ध
  • १० ज ब ग ड द श् । वर्णाः ५ ज ब ग ड द
  • ११ ख फ छ ठ थ च ट त व् । वर्णाः ८ ख फ छ ठ थ च ट त
  • १२ क प य् । वर्णाः २ क प
  • १३ श ष स र् । वर्णाः ३ श ष स
  • १४ ह ल् । वर्णाः १ ह
  • वर्णानाम् कुलसंख्या – ४३
  • स्वराः १ तः ४ सूत्रेषु – ९
  • व्यञ्जनानि – ३४

I have prepared an audio file of these शिवसूत्राणि On listening to the file one would realize that each of the above शिवसूत्राणि is sort of a musical note produced by Shiva on his “ढक्का” (= Shiva’s drum, also known as डमरू) The ending letter of each सूत्रम् is just the closing sound of the note, which every सूत्रम् is. That is why it is not counted above, when giving the number of वर्णाः in each सूत्रम्

४.३ शिवसूत्राणि are used as primary reference in अष्टाध्यायी by पाणिनी For example

There is this सूत्रम् – ऊकालोऽज् ह्रस्वदीर्घप्लुतः (१।२।२७)  = The vowel sounds between अ to च् that means the vowel sounds अ इ उ ऋ ऌ ए ओ ऐ औ will be pronounced ह्रस्व (short) or दीर्घ (long) or प्लुत (extended) depending upon ऊकाल the time dwelt upon in their pronunciation.

The fact that we have to consider this ह्रस्वदीर्घप्लुत aspect as being applicable to all the vowels between अ in the first शिवसूत्रम् to च् in the fourth शिवसूत्रम् is derived from another सूत्रम् of पाणिनी  – आदिरन्त्येन सहेता (१।१।७१)

By the same logic पाणिनीसूत्रम् – अकः सवर्णे दीर्घः (६।१।१०१) speaks of all the vowels between अ in the first शिवसूत्रम् to क् in the second शिवसूत्रम्
So the rule सवर्णे दीर्घः applies to the vowels अ इ उ ऋ ऌ What this means is that –

  • (१) अ + अ = आ (२) अ + आ = आ (३) आ + अ = आ (४) आ + आ = आ ।

अ and आ are सवर्ण i.e. of the same class. Because आ is basically दीर्घ of अ
Examples of these are
देव + अर्चना = देवार्चना । देव + आलय = देवालय । अर्चना + अपेक्षा = अर्चनापेक्षा । अर्चना + आलय = अर्चनालय ।

  • Since the rule applies to other vowels also,

(५) इ + इ = ई (६) इ + ई = ई (७) ई + इ = ई (८) ई + ई = ई । यथा
अति + इत = अतीत । प्रति + ईक्षा = प्रतीक्षा । श्री + इव = श्रीव । रजनी + ईश = रजनीश

  • (९) उ + उ = ऊ (१०) उ + ऊ = ऊ (११) ऊ + उ = ऊ (१२) ऊ + ऊ = ऊ । यथा

भानु + उदय = भानूदय । गुरु + उपदेश = गुरूपदेश । भानु + ऊर्जा = भानूर्जा । अणु + ऊर्जा = अणूर्जा । चमू + उदय = चमूदय ।
चमू + ऊर्जा = चमूर्जा ।
Also धातु + उपसर्ग = धातूपसर्ग which we came across in the previous lesson !

  • Likewise

(१०) ऋ + ऋ = ॠ । ऋ + ॠ = ॠ । ॠ + ऋ = ॠ । ॠ + ॠ = ॠ । यथा
पितृ + ऋणम् = पितॄणम् ।

All these examples of सन्धि are covered by one single सूत्रम् of पाणिनी  – अकः सवर्णे दीर्घः !!
This सूत्रम् of course has शिवसूत्राणि as primary reference !

४.४ In the श्लोकः of this lesson, in the second line there is the mention of सनक-आदि-सिद्धान् I have given two options of अन्वय The second option is also meaningful. Lord Shiva would play the notes only to such audience who can make sense out of them and pass them on for the benefit of humanity. Playing to the right audience is always important. Imparting knowledge to the right student is important.

In श्रीगणपत्यथर्वशीर्षम् there is the edict इदम् अथर्वशीर्षम् अशिष्याय न देयम् ।

Also in श्रीमद्भगवद्गीता there is the same edict –

इदम् ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ १८-६७ ॥

४.५ I am left deliberating whenever I come across the word सिद्ध Anyone who would devoutedly study the biography of Shri Sai-Baba of Shirdi is bound to be astounded by the super-natural other-worldly traits सिद्धिs displayed by Him, always for benevolent purposes of humanity at large. He walked this earth in flesh and blood just 90-odd years back.

English meaning of सिद्धि is accomplishment. I am never comfortable with this meaning. I think the philosophical and spiritual meaning goes far beyond this mundane meaning.

सिद्धिs are said to be eight –

अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च तथा कामावसायिता ॥

However I am left deliberating upon the mention of सिद्धि in following श्लोकः in श्रीमद्भगवद्गीता –

न कर्मणामनारम्भान्नैष्कर्म्यम् पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधि गच्छति ॥ ३-४ ॥

In the second line, three aspects of philosophical, spiritual, meditational practice are intertwined – संन्यास सिद्धि समधि

So much here to deliberate upon, right ?

४.६ In (४.३) above I have tried to show how शिवसूत्राणि are used as primary reference in अष्टाध्यायी by पाणिनी The examples given there especially to explain  अकः सवर्णे दीर्घः really make only a small portion of the vast canvas of संहिता-s in Sanskrit, only the tip of an iceberg ! Since the basic purpose of these lessons is to carry study of Sanskrit on and on, I keep wondering how this vast canvas of संहिता-s and also of समासा-s can be done due justice to. I can only pray for His grace and I wish to keep hanging on to the faith, that He is kind उद्धर्तुकामः The world is a stage and He is the master नटराजराजः !!

शुभमस्तु |

-o-O-o-

Learning Sanskrit by fresh approach – Lesson 54

Learning Sanskrit by fresh approach – Lesson 54
संस्कृतभाषायाः नूतनाध्ययनस्य चतुःपञ्चाशत्तमः (५४) पाठः ।

In lesson # 50, we learnt the सुभाषितम् – अव्याकरणमधीतम् … We have been doing quite some grammatical study of each and every word of every सुभाषितम् | But our study of every सुभाषितम् actually starts with सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा । We have practised quite a lot of these सन्धि-विच्छेदा: and also समासानां विग्रहाः | Yet we have not gone into the details of the rules of सन्धि and समास which are a charming feature of Sanskrit. Here is a verse, which summarizes the rule about when and where सन्धि is compulsory and where it is optional.

संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु (सा) विवक्षामपेक्षते ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

संहिता एकपदे नित्या नित्या धातु-उपसर्गयोः ।
नित्या समासे वाक्ये तु (सा) विवक्षाम् अपेक्षते ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ संहिता “सम् + धा” ३ उ. (= to hold together) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “संहित” (= held together) स्त्रीलिङ्गि नाम “संहिता” (= merger) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

संहिता is also known by the masculine noun सन्धिः ।

२.२ एकपदे ।

  • २.२.१ एकम् पदम् यस्य तत् = एकपदम् । बहुव्रीहिः ।
  • २.२.२ एकम् “एक” (= one) इति संख्यावाचकम् विशेषणम् । अत्र नपुंसकलिङ्गि ।  तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२.३ पदम् “पद” (= step, part of a sentence or part of a compound word) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२.४ एकपदे “एकपद” (= singular part) इति सामासिकम् नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.३ नित्या “नित्य” (= always valid) इति विशेषणम् । अत्र स्त्रीलिङ्गि “नित्या” । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.४ धातूपसर्गयोः ।

  • २.४.१ धातुः च उपसर्गः च = धातूपसर्गौ । समाहारद्वंद्वः ।
  • २.४.२ धातुः “धातु” (= verbal root) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.४.३ उपसर्गः (उपसरणम् गमनम् च अस्य इति = what stays and moves closeby) “उपसर्ग” इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.४.४ उपसरणम् “उप + सृ” १, ३ प. (= to stay close) इति धातुः । तस्मात् क्रियावाचकम् नपुंसकलिङ्गि नाम “उपसरण” (= staying close) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.४.५ गमनम् “गम्” १, प. (= to go) इति धातुः । तस्मात् क्रियावाचकम् नपुंसकलिङ्गि नाम “गमन” (= ) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.४.६ उपसर्गः = vhat stays and moves closeby, a prefix
  • २.४.७ धातूपसर्गयोः “धातूपसर्ग” (= verb and prefix) इति सामासिक पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः द्विवचनम् च ।

२.५ समासे “सम् + अस्”(= to be together) इति धातुः । तस्य प्रयोजकत्वेन “सम् + आस्” (= to put together) । तस्मात् पुल्लिङ्गि नाम “समास” (= compound word) । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.६ वाक्ये  (वाक् अर्थवाही भवति येन तत् = that by which a speech becomes meaningful) “वाक्य” (= sentence) इति नपुंसकलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.७ तु (= but, however) अव्ययम् ।

२.८ विवक्षाम् (वक्तुम् इच्छा सा विवक्षा = desire to speak) “वच्” २ प.(= to speak) इति धातुः । तस्मात् इच्छात्मकम् स्त्रीलिङ्गि नाम “विवक्षा” (= desire to speak) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२.९ अपेक्षते “अप + ईक्ष्” १ आ. (= to expect) इति धातुः । तस्य लट्-वर्तमानकाले तृतीय-पुरुषे एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

संहिता एकपदे नित्या (भवति) । = In a singular word-formation संहिता should be always there. This means that it is compulsory to employ संहिता in formation of every word.

धातु-उपसर्गयोः (संहिता) नित्या (भवति) । = संहिता should be always done in formation of धातु and उपसर्ग This means that it is compulsory to employ संहिता in formation of धातु and उपसर्ग

समासे (संहिता) नित्या (भवति) । = संहिता should be always done in formation of समास This means that it is compulsory to employ संहिता in formation of समास

वाक्ये तु (सा = संहिता) विवक्षाम् अपेक्षते । = However in a sentence संहिता desires (itself) to be so spoken. But that is not compulsory. It is optional. “To be spoken” is desire of संहिता The speaker may or may not honour that desire.

४ टिप्पणयः ।

४.१ By setting the verse into four lines, it would read as –

संहितैकपदे नित्या
नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु
(सा) विवक्षामपेक्षते ॥

Each of the 4 lines has 8 वर्णाः What version of the verse I got had only 7 वर्णाः in the fourth line. I have added on my own (सा) to make 8 वर्णाः in the fourth line also. So the verse now properly conforms to अनुष्टुभ् । Because the modification is done by me, I thought it fit to put it in parenthesis, hence as (सा)

४.२ Under  अनुवादाः I have added to the translation some explanation of what is implied. But the explanations are not at all comprehensive. For comprehensive understanding it would be good to have also explanation of the grammatical terms

  • What is पदम् ? How is संहिता compulsorily employed ?
    What is धातु  ? How is संहिता compulsorily employed ?
    What is उपसर्ग  ? How is संहिता compulsorily employed ?
    What is समास  ? How is संहिता compulsorily employed ?
    What is वाक्य ? How is संहिता optional here ? How would a वाक्य be with and without संहिता ?

The explanations could be more convincing with illustrative examples, right ?

४.३ What is पदम् ? Every word in a sentence is a  पदम् In a sentence in Sanskrit every other word is derived from the seed form बीजम् of the पदम् । So every word in a sentence in Sanskrit is like a sapling which has grown up from a seed.

Here also the word संहिता is a word in a sentence. It is also derived as detailed at 2.1. The seed बीजम् is सम् + धा rather only धा In the process of derivation, in the growth of the sapling, one step is its adjectival form संहित To make feminine from this adjectival form, a suffix आ is added So derivation of संहिता is संहित + आ = संहिता

By its simple looks संहिता is just one word एकपदम् But संहिता is inherent in its derivation. So, संहिता एकपदे नित्या ।

Explanation of What is पदम् ? can also be seen from another angle. The most respected and acknowledged grammarian of Sanskrit grammar is पाणिनी He is respected and acknowledged for his अष्टाध्यायी in which he composed some 4000 crisp statements called as aphorisms सूत्राणि ।
About पदम् the पाणिनीसूत्रम् is सुप्तिङ्तम् पदम् । (१।१।१४)

What is implicit in this सूत्रम् is that every पदम् will have one suffix प्रत्यय or the other सुप् or तिङ् । In the formation of a पदम् the प्रत्यय has to merge. The perfect merger will happen by संहिता Thus again, संहिता एकपदे नित्या ।

About संहिता in general पाणिनी defines it as परः सन्निकर्षः संहिता (१।४।१०९) The closest mutual union [of sounds] is [called] संहिता

४.४ For explanation of What is धातु ? What is उपसर्ग ? How is संहिता compulsorily employed in these ? it would be good to recall the सुभाषितम् we studied in Lesson # 21 उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ There it was also mentioned that उपसर्ग may be used as none, one or many. A simple example of how संहिता is compulsorily employed would be a word प्रत्युपकार Here we have two prefixes प्रति and उप । To use them together we have to use them with their proper merger i.e. संहिता which is प्रति + उप = प्रत्युप । Hence it is well said here in this verse धातु-उपसर्गयोः (संहिता) नित्या ।

४.५ To understand What is समास ? How is संहिता compulsorily employed ? we have the compound word in this verse धातूपसर्गयोः It has two parts धातु and उपसर्ग | The word धातूपसर्गयोः has सप्तमी विभक्तिः द्विवचनम् This declension is applied to the complete compound word. So the two parts धातु and उपसर्ग must compulsorily be mentioned by their proper merger धातु + उपसर्ग = धातूपसर्ग So in any समास also proper merger संहिता is compulsory समासे (संहिता) नित्या ।

४.६ However in a sentence संहिता is not compulsory. For example, here we have two words written with संहिता

संहितैकपदे = संहिता + एकपदे
विवक्षामपेक्षते = विवक्षाम् + अपेक्षते
They are in two different sentences. In their respective sentences, it becomes optional to write them with संहिता or separately. But they were written with संहिता for it to be a good verse, hence to fulfill requirements of अनुष्टुभ् ।

४.७ As can be seen, in achieving a proper merger संहिता we have to focus on  how the ending of one part and beginning of another part will merge.

In धातु + उपसर्ग = धातूपसर्ग ending of first part धातु is उ and beginning of second part is also उ
The merger here is actually of उ + उ = ऊ
If we look minutely into the syllabic composition, we can see that here we have
धात् + (उ + उ)-पसर्ग = धात् + ऊ-पसर्ग = धातूपसर्ग ।

४.८ Ending of the first part will either be a vowel स्वरः such as उ or a consonant व्यञ्जनम् such as म् as in विवक्षाम् or an aspiration विसर्गः as in प्रथमः + अध्यायः = प्रथमोऽध्यायः ।
But we have the vowels

  • अ आ इ ई उ ऊ
  • ऋ ॠ लृ
  • ए ऐ ओ औ

And we have the consonants

  • क् ख् ग् घ् ङ्
  • च् छ् ज् झ् ञ्
  • ट् ठ् ड् ढ् ण्
  • त् थ् द् ध् न्
  • प् फ् ब् भ् म्
  • य् र् ल् व्
  • श् ष् स्
  • ह् ळ्

४.९ With all these vowels and consonants, there will be so many permutations and combinations possible, right ?

Study of संहिता is like study of chemistry. In chemistry we study chemical reactions such as, NaOH + HCl = NaCl + H2O

In study of संहिता also, we write equations to say what sound will result when one ending sound is followed by another beginning sound !

The list of vowels and consonants is like the periodic table of elements !

In Sanskrit the topic of संहिता is of course delineated very scientifically.  Study of Sanskrit will be incomplete without the study of संहिता with the requisite scientific attitude !

४.१० I can be writing the sub-title of the third section of each lesson “अन्वयाः अनुवादाः च” as “अन्वयानुवादाः” i.e. as a समास where सन्धि would be compulsory. But since basically, I did not resort to समास, whether to employ सन्धि or not became optional 🙂

शुभमस्तु |

-o-O-o-