Revisiting Lesson # 11 of Learning Sanskrit by fresh approach

Revisiting Lesson # 11 of Learning Sanskrit by fresh approach

What prompted revisiting ?

Recently one Mr. B. Vishwanath sent me a message saying, “…

I have a request for you. I am a fan of the ” learning Sanskrit by fresh approach” series. My mother tongue is Telugu and I find lot of similarities between Samskrit and Telugu. I am thinking that if the ‘learning Sanskrit’ series is available in Telugu also, it would be hugely beneficial to me and many other folks.
here is the request. Can I have the opportunity to convert/translate your lessons into Telugu ? I mean I would like to translate the explanation currently in English to Telugu. ….”
That reminded me to revive my postings of the lessons for Learning Sanskrit in Marathi medium at another of my blog. Having posted 10 lessons there already, I had a re-look at Lesson # 11
As things would have it, Lesson #11 turned out to be having a long verse.
Anyway, it had to be done. The result was a complete overhaul of Section 2.
This is how now Sections 1 and 2 become –
परिच्छेद: १ – सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

शिरः मे राघवः पातु भालं दश-रथ-आत्म-जः ।
कौसल्येयः दृशौ पातु विश्वामित्र-प्रियः श्रुती ।
घ्राणं पातु  मख-त्राता मुखं सौमित्रि-वत्सलः ॥
जिव्हां विद्या-निधिः पातु कण्ठं भरत-वन्दितः ।
स्कन्धौ दिव्य-आयुधः पातु भुजौ भग्न-ईश-कार्मुकः ॥
करौ सीता-पतिः पातु हृदयं जामदग्न्य-जित् ।
मध्यं पातु खर-ध्वंसी  नाभिं जाम्बवत्-आश्रयः   ॥
सुग्रीव-ईशः कटी पातु सक्थिनी हनुमत्-प्रभुः ।
ऊरू रघु-उत्तमः पातु रक्षः-कुल-विनाश-कृत् ॥
जानुनी सेतु-कृत् पातु जङ्घे दश-मुख-अन्त-कः ।
पादौ वि-भीषण-श्री-दः पातु रामः अखिलं वपुः ॥

परिच्छेद: २ – समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।
१ शिरः “शिरस्” (= head) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२ मे “अस्मद्” (= Pronoun of first person – I, we) सर्वनाम । अस्य लिङ्गभेदः नास्ति । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३ राघवः रघु-वंशीयः अतः राघवः (belonging t the lineage of रघु) “राघव” इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४ पातु “पा” २ प. (= to protect) इति धातुः । तस्य लेट्-आज्ञार्थे तृतीय-पुरुषे एकवचनम् ।
५ भालम् “भाल” (= forehead) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
६ दश-रथ-आत्म-जः ।
  • ६.१ दश रथाः यस्य सः = दशरथः । बहुव्रीहिः ।
  • ६.२ आत्मनः जातः = आत्मजः । उपपद-तत्पुरुषः ।
  • ६.३ दशरथस्य आत्मजः = दशरथात्मजः । षष्ठी-तत्पुरुषः ।
  • ६.४ दश (= ten) इति संख्यावाचकम् विशेषणम् सर्वदा बहुवचनि । अत्र पुल्लिङ्गि ।
  • ६.५ रथाः “रथ” (= chariot) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • ६.६ आत्मनः “आत्मन्” (= oneself) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६.७ जातः “जन्” ४ आ. (= to be born) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “जात” (= born) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.८ आत्मजः “आत्मज” (= born of oneself, son) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.९ दशरथस्य “दशरथ” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६.१० दशरथात्मजः = son of दशरथ

७ कौसल्येयः “कौसल्यायाः अयम् इति कौसल्येयः” (= He is (son) of कौसल्या, hence कौसल्येयः) एवम् “कौसल्येय” इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ दृशौ “दृश्” १ प. (= to see) इति धातुः । तस्मात् “ई”-प्रत्ययेन स्त्रीलिङ्गि नाम “दृशी” (= an eye) । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
९ विश्वामित्रप्रियः ।

  • ९.१ विश्वं मित्रम् यस्य = विश्वामित्रः । बहुव्रीहिः । अथवा
  • ९.१ (अ) विश्वस्य मित्रम् = विश्वामित्रः । षष्ठी-तत्पुरुषः ।
  • ९.२ विश्वामित्रस्य प्रियः = विश्वामित्रप्रियः । षष्ठी-तत्पुरुषः ।
  • ९.३ विश्वम् “विश्व” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.४ मित्रम् “मित्र” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.५ विश्वामित्रस्य “विश्वामित्र” इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ९.६ प्रियः “प्री” ९ उ. (= to please, to make happy, to satisfy) इति धातुः । तस्मात् विशेषणम् “प्रिय” (= one, one is happy with । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.७ विश्वामित्रप्रियः = Pet of विश्वामित्र ।

१० श्रुती “श्रु” ५ प. (= to hear) इति धातुः । तस्मात् स्त्रीलिङ्गि सामान्यनाम “श्रुति” (= ear) । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
११ घ्राणम् “घ्रा” (= to smell) इति धातुः । तस्मात् “घ्राण” (= nose) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१२ मख-त्राता ।

  • १२.१ मखस्य त्राता = मखत्राता । षष्ठी-तत्पुरुषः ।
  • १२.२ मखस्य “मख” (= यज्ञ) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १२.३ त्राता “त्रा” २ आ. (= to protect) इति धातुः । तस्य “तृ”-प्रत्ययेन कर्तृवाचकम् विशेषणम् “त्रातृ” (= protector) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२.४ मखत्राता = protector of यज्ञs. विश्वामित्रऋषी got दशरथ to send श्रीराम with him primarily to protect यज्ञs.

१३ मुखम् “मुख” (= mouth, face) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१४ सौमित्रि-वत्सलः ।

  • १४.१ सौमित्रेः वत्सलः = सौमित्रि-वत्सलः । षष्ठी-तत्पुरुषः ।
  • १४.२ सौमित्रेः सुमित्रायाः अयम् इति सौमित्रि (= He is of सुमित्रा Hence सौमित्रि, i.e. लक्ष्मण) “सौमित्रि” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १४.३ सुमित्रायाः ।
  1. १४.३.१ सुष्ठु मित्रम् या सा = सुमित्रा । उपपद-बहुव्रीहिः ।
  2. १४.३.२ सुष्ठु (= good) इति विशेषणार्थि अव्ययम् ।
  3. १४.३.३ मित्रम् “मित्र” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  4. १४.३.४ या “यत्” इति सर्वनाम । अत्र स्त्रीलिङ्गि (= who) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  5. १४.३.५ सा “तत्” इति सर्वनाम । अत्र स्त्रीलिङ्गि (= she) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  6. १४.३.६ सुमित्रायाः “सुमित्रा” इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १४.४ वत्सलः “वत्सल” (= loved by, brother, friend) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.५ सौमित्रि-वत्सलः = brother, friend of लक्ष्मण

१५ जिव्हाम् “जिव्हा” (= tongue) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१६ विद्या-निधिः ।

  • १६.१ विद्ययाः निधिः = विद्ययाः निधिः । षष्ठी-तत्पुरुषः ।
  • १६.२ विद्ययाः “विद्या” इति स्त्रीलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १६.३ निधिः “नि + धा” ३ उ. “नितान्तम् दधाति” (= to hold, to store) इति धातुः । तस्मात् “इ”-प्रत्ययेन पुल्लिङ्गि सामान्यनाम “निधि” (= storage) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १६.४ विद्या-निधिः = storage, repertoir of knowledge

१७ कण्ठम् “कण्ठ” (= throat) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१८ भरत-वन्दितः ।

  • १८.१ भरतेन वन्दितः = भरतवन्दितः । तृतीया-तत्पुरुषः ।
  • १८.२ भरतेन “भरत” इति पुल्लिङ्गि विशेषनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • १८.३ वन्दितः “वन्द्” १ आ. (= to pay respects) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “वन्दित” (= one, to whom respects are paid) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १८.४ भरत-वन्दितः = He to whom भरत paid respects

१९ स्कन्धौ “स्कन्ध” (= shoulder) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२० दिव्य-आयुधः ।

  • २०.१ दिव्यम् आयुधम् यस्य सः = दिव्यायुधः । बहुव्रीहिः ।
  • २०.२ दिव्यम् “दिव्” ४ प. (= to shine) इति धातुः । तस्मात् “य”प्रत्ययेन विध्यर्थि विशेषणम् “दिव्य” (= bright, shining, brilliant) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम च ।
  • २०.३ आयुधम् “आ + युध्” ४ आ. (= to fight) इति धातुः । तस्मात् “अ”-प्रत्ययेन करणवाचकम् नपुंसकलिङ्गि नाम “आयुध” (= weapon) । तस्य प्रथमा विभक्तिः एकवचनम च ।
  • २०.४ दिव्यायुधः = He, who has brilliant weapons

२१ भुजौ “भुज” (= arm) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२२ भग्न-ईश-कार्मुकः ।

  • २२.१ ईशस्य कार्मुकम् = ईशकार्मुकम् । षष्ठी-तत्पुरुषः ।
  • २२.२ भग्नम् ईशकार्मुकम् येन सः = भग्नेशकार्मुकः । बहुव्रीहिः ।
  • २२.३ ईशस्य “ईश्” २ आ. (= to regulate, to command) इति धातुः । तस्मात् “अ”प्रत्ययेन पुल्लिङ्गि नाम “ईश” (= ईश्वर, most commonly शिव) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २२.४ कार्मुकम् “कार्मुक” (= bow) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २२.५ भग्नम् “भञ्ज्” ७ प. (= to break) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “भग्न” (= broken) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २२.६ भग्नेशकार्मुकः = He, who broke bow of शिव

२३ करौ “कर” (= hand) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२४ सीता-पतिः ।

  • २४.१ सीतायाः पतिः = सीतापतिः । षष्ठी-तत्पुरुषः ।
  • २४.२ सीतायाः “सीता” इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २४.३ पतिः “पति” इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२५ हृदयम् “हृदय” (= heart) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२६ जामदग्न्य-जित् ।

  • २६.१ जामदग्न्यः जितः येन सः = जामदग्न्यजित् । उपपद-बहुव्रीहिः ।
  • २६.२ जामदग्न्यः “जमदग्नेः अयम् इति जामद्ग्न्यः” एवम् “जामदग्न्य” (= परशुराम) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६.३ जमदग्नेः “जमदग्नि” (a Muni by this name) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २६.४ जितः “जि” १ प. (= to win over) इति धातुः । तस्मात् विशेषणम् “जित्” (= the one, winning over) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६.५ जामदग्न्यजित् = He, who won over परशुराम

२७ मध्यम् “मध्य” (= middle) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२८ खर-ध्वंसी ।

  • २८.१ खरस्य ध्वंसी = खरध्वंसी । षष्ठी-तत्पुरुषः ।
  • २८.२ खरस्य “खर” (= devil, a demon named “खर”) इति विशेषणम् पुल्लिङ्गि विशेषनाम च । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २८.३ ध्वंसी “ध्वंस्” १ आ. (= to destroy) इति धातुः । तस्मात् “इन्”-प्रत्ययेन कर्तृवाचकम् विशेषणम् “ध्वंसिन्” (= destroyer) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २८.४ खरध्वंसी = one, who vanquished devils or a demon named खर

२९ नाभिम् “नाभि” इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३० जाम्बवत्-आश्रयः ।

  • ३०.१ जाम्बवतः आश्रयः = जाम्बवदाश्रयः । षष्ठी-तत्पुरुषः ।
  • ३०.२ जाम्बवतः “जाम्बवत्” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३०.३ आश्रयः “आ + श्रि” १ उ. (= to get refuge) । तस्मात् “अ”-प्रत्ययेन भाववाचकम् पुल्लिङ्गि नाम “आश्रय” (= refuge) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३०.४ जाम्बवदाश्रयः = One who was refuge for जाम्बवत

३१ सुग्रीव-ईशः ।

  • ३१.१ सुष्ठु ग्रीवा यस्य सः = सुग्रीवः । बहुव्रीहिः ।
  • ३१.२ सुग्रीवस्य ईशः = सुग्रीवेशः । षष्ठी-तत्पुरुषः । अथवा
  1. ३१.२.१ सुग्रीवस्य “सुग्रीव” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३१.३ ग्रीवा (= neck) इति स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३१.४ सुग्रीवेशः = Master of सुग्रीव

३२ कटी “कटि” (= side of waist) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३३ सक्थिनी “सक्थि”(= upper portion of thigh) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३४ हनुमत्-प्रभुः ।

  • ३४.१ हनुमतः प्रभुः = हनुमत्प्रभुः । षष्ठी-तत्पुरुषः ।
  • ३४.२ हनुमतः “हनु + मत् = हनुः अस्य वैशिष्ट्यम्” इति विशेषण-युक्तम् पुल्लिङ्गि विशेषनाम “हनुमत्” । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३४.३ प्रभुः “प्रकर्षेण भवति वा प्रभावः अस्य अस्ति” इति पुल्लिङ्गि सामान्यनाम “प्रभु”। तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३४.४ हनुमत्प्रभुः = Lord of हनुमंत

३५ ऊरू “ऊरु” (= thigh) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३६ रघु-उत्तमः॥

  • ३६.१ रघूणाम् उत्तमः = रघूत्तमः । षष्ठी-तत्पुरुषः । अथवा
  • ३६.१-(अ) रघुषु उत्तमः = रघूत्तमः । सप्तमी-तत्पुरुषः ।
  • ३६.२ रघूणाम् “रघु” (= born in lineage of रघु) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३६.३ उत्तमः “उत्तम = उत् + तम” । “उत्”-उपसर्गः “उच्चैः”-इत्यर्थेन । “तम”-प्रत्ययः विशेषणस्य “तम”-भावाय ।

३७ रक्षः-कुल-विनाश-कृत् ।

  • ३७.१ रक्षसाम् कुलम् = रक्षःकुलम् । षष्ठी-तत्पुरुषः ।
  • ३७.२ रक्षःकुलस्य विनाशः = रक्षःकुलविनाशः । षष्ठी-तत्पुरुषः ।
  • ३७.३ रक्षःकुलविनाशम् कृतवान् इति रक्षःकुलविनाशकृत् । उपपद-तत्पुरुषः ।
  • ३७.४ रक्षसाम् “रक्षस्” (= demon) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३७.५ कुलम् “कुल” (= a family, a horde, in the sense that not just one demon but a horde of demons) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३७.६ विनाशः “वि + नश्” ४ प. (= to destroy) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “विनाश” (= destruction) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३७.७ कृतवान् “कृ” ८ उ. (= to do) इति धातुः । तस्मात् “वत्”-प्रत्ययेन विशेषणम् “कृतवत्” । अत्र पुल्लिङ्गि । तस्य तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३७.८ रक्षःकुलविनाशकृत् = He, who destroyed hordes of demons

३८ जानुनी “जानु” (= knee) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३९ सेतु-कृत् ।

  • ३९.१ सेतुम् कृतवान् इति सेतुकृत् । उपपद-तत्पुरुषः ।
  • ३९.२ सेतुम् “सि” ५, ९ उ. (= to join by construction) इति धातुः । तस्मात् “सिन्यते अनेन इति सेतुः” एवम् पुल्लिङ्गि नाम “सेतु” (= bridge) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३९.३ सेतुकृत् = He who got a bridge constructed

४० जङ्घे “जङ्घा” (= calf, the portion between knee and ankle) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
४१ दश-मुख-अन्त-कः ।

  • ४१.१ दश मुखानि यस्य सः = दशमुखः । बहुव्रीहिः ।
  • ४१.२ दशमुखस्य अन्तः = दशमुखान्तः । षष्ठी-तत्पुरुषः ।
  • ४१.३ दशमुखान्तम् कृतवान् इति दशमुखान्तकः । उपपद-तत्पुरुषः ।
  • ४१.४ दशमुखस्य “दशमुख” (= one who had ten faces, epithet of demon रावण) इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ४१.५ दशमुखान्तकः = He, who brought an end to the ten-faced demon रावण

४२ पादौ “पाद” (= foot) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
४३ वि-भीषण-श्री-दः ।

  • ४३.१ श्रियम् ददाति इति श्रीदः । उपपद-तत्पुरुषः ।
  • ४३.२ विभीषणाय श्रीदः = विभीषणश्रीदः । चतुर्थी-तत्पुरुषः ।
  • ४३.३ श्रियम् “श्री” (= blissful glory) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ४३.४ ददाति “दा” ३ उ. (= to give) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।
  • ४३.५ विभीषणाय “वि + भी” ३ प. (= to frighten ferociously) इति धातुः । तस्मात् विशेषणात्मकम् पुल्लिङ्गि विशेषनाम “विभीषण” (= One who would cause special fear, epithet of brother of रावण) । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
  • ४३.६ विभीषणश्रीदः = He who afforded blissful glory to विभीषण

४४ रामः “राम” इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४५ अखिलम् “अखिल” (= complete, whole of) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
४६ वपुः “वपुस्” (= body) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

४ टिप्पणयः ।
1 Revisiting a previous lesson has proved to be a great experience ! They say, a lion often does that. That natural instinct of a lion has turned to be a popular idiom सिंहावलोकनम्  = सिंहस्य इव अवलोकनम् ।
2. We had the mention of natural instinct of even a cub of a lion in the previous lesson # 52. This post has become imitating another natural instinct of a lion !
शुभमस्तु |

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s