Learning Sanskrit by fresh approach – Lesson 52

Learning Sanskrit by fresh approach – Lesson 52
संस्कृतभाषायाः नूतनाध्ययनस्य द्विपञ्चाशत्तमः (५२) पाठः ।

Having spoken in the previous lesson, about an elephant and its intoxication we have a mention of that in this सुभाषितम् also, though the focus here is on how a cub of a lion behaves. Here it is –

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु
प्रकृतिरियं सत्त्ववतां न वयस्तेजसो हेतुः ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

सिंहः शिशुः अपि निपतति मद-मलिन-कपोल-भित्तिषु गजेषु
प्रकृतिः इयं सत्त्ववतां न वयस्-तेजसः हेतुः ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ सिंहः “सिंह” (= lion) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.२ शिशुः “शिशु” (= cub) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.३ अपि (= even if, also) अव्ययम् ।
२.४ निपतति “नि + पत्” १ प. (= to jump at) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे एकवचनम् ।
२.५ मद-मलिन-कपोल-भित्तिषु ।

  • २.५.१ मदेन मलिनः = मदमलिनः । तृतीया-तत्पुरुषः ।
  • २.५.२ मदमलिनः कपोलः = मदमलिनकपोलः । कर्मधारयः ।
  • २.५.३ मदमलिनकपोलः भित्तिः इव यस्य सः = मदमलिनकपोलभित्तिन् । बहुव्रीहिः ।
  • २.५.४ मदेन “मद” (= intoxication) इति पुल्लिङ्गि सामान्यनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • २.५.५ मलिनः “मल” (= dirt) इति पुल्लिङ्गि सामान्यनाम । मलः + “अस्ति इत्यर्थे” इनन् = मलिन (= dirty) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.५.६ कपोलः “कपोल” (= cheek) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.५.७ भित्तिषु “भित्ति” (= wall) इति स्त्रीलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
  • २.५.८ मदमलिनकपोलभित्तिषु “मदमलिनकपोलभित्तिन्” (= one, whose wall-like, i.e. huge cheeks are smeared fue to intoxication) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य सप्तमी विभक्तिः बहुवचनम् च ।

२.६ गजेषु “गज” (= elephant) इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
२.७ प्रकृतिः “प्र + कृ” ८ उ. (= to make habit of, to ingrain into one’s nature) इति धातुः । तस्मात् “इ”-प्रत्ययेन स्त्रीलिङ्गि नाम “प्रकृति” (= nature, character, conduct) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.८ इयम् “इदम्” (= this) इति सर्वनाम । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.९ सत्त्ववताम् “सत्” (= existent, inherent) इति विशेषणम् । तस्मात् “त्व”-प्रत्ययेन भाववाचकम् नपुंसकलिङ्गि नाम “सत्त्व” (= goodness, inherent trait) । तस्मात् “वत्”-प्रत्ययेन “सत्त्वम् अस्य अस्ति इति” विशेषणम् “सत्त्ववत्” (= having inherent trait) । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
२.१० न (= no, not) अव्ययम् ।
२.११ वयस्-तेजसः

  • २.११.१ वयः च तेजः च = वयस्तेजस् । समाहार-द्वन्द्वः ।
  • २.११.२ वयः “वयस्” (= age) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.११.३ तेजः “तिज्” १ आ. (= to bear, to be capable, to shine) इति धातुः । तस्मात् “अस्”-प्रत्ययेन भाववाचकम् नपुंसकलिङ्गि नाम “तेजस्” (= capability, brightness)। तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.११.४ वयस्तेजसः “वयस्तेजस्” इति नपुंसकलिङ्गि भाववाचकम् सामासिकम् नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

२.१२ हेतुः “हेतु” (= purpose, reason, consideration) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

शिशुः अपि सिंहः मद-मलिन-कपोल-भित्तिषु गजेषु निपतति = Even a cub of a lion will jump at elephants, who have their wall-like foreheads dirty due to intoxication
इयम् सत्त्ववताम् प्रकृतिः = Such is the conduct prompted by inherent character
न वयस्-तेजसः हेतुः = Age and capability have no consideration.

४ टिप्पणयः ।

४.१ By breaking them into four lines, it reads –

सिंहः शिशुरपि निपतति
2-2   1-1-1-1-1-1-1-1 = 12
मदमलिनकपोलभित्तिषु गजेषु
1-1-1-1-1-1-2-1-2-1-1-1-2-2 = 18
प्रकृतिरियं सत्त्ववतां
1-1-1-1-2 2-1-1-2 = 12
न वयस्तेजसो हेतुः
1  1-2-2-1-2  2-2 = 13

With first and second lines having 12 syllabic weightges each and second having 18 the meter seems to be आर्या Only weightage of syllables in the last line is 13. But there are 9 varieties of आर्या meter. Which one here ?

४.२ What is quite appealing in this सुभाषितम् is as many as 14 syllables of weightage 1 occuring in a continuous succession ! There is such an inherent musical rhythm ! That is a kind of अनुप्रास

४.३ The word सत्त्ववताम् is interesting. Although etymologicaly “सत्त्ववत्” (= having inherent trait) the trait is commonly understood to be positive aspect of one’s character. But more comprehensive meaning of सत्त्ववताम् considering that the trait can be positive or negative is so seen in the following श्लोकौ in श्रीमद्भगवद्गीता –

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां श्रुणु ॥ १७-२ ॥
सत्त्वानुरूपा हि सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धः स एव सः ॥ १७-३ ॥

Actually this explanation is prompted by Arjuna’s question –

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७-१॥

It has been quite some time that I have been deliberating on these three श्लोकाः । Arjuna asks तेषां निष्ठा का ? श्रीकृष्णभगवान् replies “त्रिविधा भवति श्रद्धा” There is obviously some fine distinction between निष्ठा and श्रद्धा | What is the distinction ? Arjuna also uses the word श्रद्धा when saying श्रद्धयान्विताः But his question basically is तेषां निष्ठा का ? What reply comes out is the complete श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ।

To extend the deliberation, we also have the words सत्त्वम् and प्रकृतिः So, निष्ठा श्रद्धा सत्त्वम् and प्रकृतिः | What are the relationships in all these concepts, especially each one of these separately discussed and detailed across different chapters in श्रीमद्भगवद्गीता

४.४ For the phrase मद-मलिन one explainaton often given is that intoxication makes an elephant go so berserk that he will smear mud or dust on himself, especially on his forehead. Of course by that smearing, he will become मद-मलिन And he would do this maligning by keeping his eyes closed; so, मदान्ध as was mentioned in the सुभाषितम् in the previous lesson.

मद is also said to be a secretion or perspiration which an elephant suffers from when intoxicated. That secretion would trickle down to his eyes and would make him both blind and maligned. Yet another explanation of मद-मलिन and मदान्ध !

By the way the word “malign” came out extempore ! wow – “malign” and मलिन ! It seems that all languages around the world have some common genre !

४.५ कपोलभित्तिषु is रूपक-अलङ्कार । Here रूप i.e. form of भित्ति is superimposed on कपोल | Here भित्ति is उपमान and कपोल is उपमेय But it is not comparison or simile between उपमान and उपमेय | The उपमान is superimposed on उपमेय |

४.६ वयस्तेजसः हेतुः

  • ४.६.१ In lesson # 49 there was a discussion about वयोवृद्ध ज्ञानवृद्ध तपोवृद्ध । One of course acquires different capabilities तेजः by maturity which comes by growing of age and also by acquiring knowledge ज्ञान and by doing तप penance, passionate study and practices
  • ४.६.२ Yet some capabilities are inherent, inborn. I guess, the word “inherent” is derived from “inherited”. If a dog is born as a dog, it has the inherent character of honesty and devotion to his master. If a lion is born as a lion, it has the inherent character of being ferocious, aggressive. Is that what is also implicit in श्रीकृष्णभगवान् saying “सत्त्वानुरूपा हि सर्वस्य श्रद्धा भवति ” ?
  • ४.६.३ The word सत्त्वम् has different shades of meaning. See –
  • ४.६.३.१ सत्त्वम् =  inborn or inherent character सत्त्वानुरूपा हि सर्वस्य श्रद्धा भवति (१७-३)
  • ४.६.३.२ सत्त्वम् = whatever exists or coes into existence
  • यद्यत् विभूतिमत् सत्त्वं श्रीमत् ऊर्जितमेव वा (१०-४१)
  • यावत्सञ्जायते किञ्चित् सत्त्वम् स्थावरजङ्गमम् (१३-२७)
  • ४.६.३.३ सत्त्वम् = सत्त्वगुणः chaste character traits सत्त्वम् रजस्तमो इति गुणाः प्रकृतिसम्भवाः (१४-५)

४.७ To select the most appropriate meaning of a word, when a word would have various shades of meaning, does often become challenging. Similar to सत्त्वम् the word हेतुः also has various shades of meaning. At २.१२ I detailed it as “हेतु” (= purpose, reason, consideration) The word is used at many places in श्रीमद्भगवद्गीता

  • ४.७.१ हेतुः = objective, purpose, expectation, aspiration मा कर्मफलहेतुर्भूः (२-४७)
  • ४.७.२ हेतुः = reason हेतुनानेन = due to this, because of this, as a result of this, by virtue of this मय्याध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१० ॥
  • ४.७.३ हेतुः = element of (here, element of सर्वकर्मणां सिद्धये fulfilment of task) पञ्चैतानि महाबाहो कारणानि निबोध मे (१८-१३) .. पञ्चैते तस्य हेतवः (१८-१५)
  • ४.७.४ हेतुः = context, consideration न वयस्तेजसो हेतुः

४.८ Good dictionaries do give different shades of meaning of a word. Dictionaries of Sanskrit must do so. A good dictionary also gives reference of the text where the word is used with a particular meaning. I was fortunate to have been initiated by my father into using Apte’s dictionary right in my childhood.

४.९ People do study a new language by using also a dictionary. It is of course quite important to have a good dictionary, not just any dictionary. Further more, when there are different shades of meaning of a word, one needs to deliberate which meaning is appropriate in a given context. And for studying Sanskrit, one must not expect to find every other word in the dictionary. The other day there was a query for the meaning of a phrase नैष्ठिकः ब्रह्मचारी The word नैष्ठिक may not be found in a dictionary. I submitted my response to the query as follows –

पश्यताम् श्रीमद्भगवद्गीतायाम् पञ्चमे अध्याये  अयम् श्लोकः –
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५-१२ ॥
नैष्ठिकीम् “नि + स्था” १ प. इति धातुः । तस्य भूतकालवाचकं विशेषणम् “निष्ठ” तथा स्त्रीलिङ्गि भाववाचकं नाम “निष्ठा” (नितान्तेन स्थीयते अनया = निष्ठा) । तस्मात् “”निष्ठया सह = नैष्ठिक”  इति विशेषणम् । स्त्रीलिङ्गे “नैष्ठिकी” । तस्य द्वितीया विभक्तिः एकवचनम् च ।
तथैव नैष्ठिक-ब्रह्मचारी = तथाविधः ब्रह्मचारी, यस्य ब्रह्मचर्यं (निष्ठया सह, नितान्तं तिष्ठति च =) नैष्ठिकम् ।

Actually the derivation can also be explained as –

नैष्ठिकः “नि + स्था” १ प. (नितान्तं तिष्ठति= stays steadfast) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “निष्ठ” (= devoted, dedicated) । ततः स्त्रीलिङ्गि भाववाचकं नाम निष्ठा (= dedication) । निष्ठां करोति अथवा निष्ठया करोति इति ’क”-प्रत्ययेन विशेषणम् “नैष्ठिक” (doing with dedication) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

It is some coincidence that this query about नैष्ठिकः ब्रह्मचारी has come up, right when I am deliberating on निष्ठा श्रद्धा सत्त्वम् and प्रकृतिः |

४.१० Learning Sanskrit needs to be pursued with a passion to get through and through, across the derivation of the words. That is implicit also in the word अध्याय । It would be appreciated, that English translation अध्याय = Chapter is so very remote from the implied comprehensive meaning.

शुभमस्तु |

-o-O-o-

2 thoughts on “Learning Sanskrit by fresh approach – Lesson 52

  1. I have noting to clarify, nothing to add and even nothing to question about; I am only deeply in peace, in this time of my silence I have a lot to study and this I must thank you: this work is admirable.

  2. I Veryy much impressed to visit this site of learning Sanskrit by fresh approach, because

    you had given all side of sanskrit knowledge through verseses and this site touches

    all kind of grammer. words etc.I don’t know good english but Iam speechless.My subject

    was Gujarati & Sanskrit in M. A. My intrest in sanskrit most. I can comment in Gujarati

    very well

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s