Learning Sanskrit by fresh approach – Lesson 62

Learning Sanskrit by fresh approach – Lesson 62
संस्कृतभाषायाः नूतनाध्ययनस्य द्विषष्टितमः (६२) पाठः ।

In the previous two lessons, we had सुभाषितानि which were dialogues. Some people opined that we should have only such verses, which can be rightly called as सुभाषितानि Of course literal meaning of सुभाषितानि is “good sayings”. For a verse to be eligible to be called as a सुभाषितम्  it should deliver a message. Here is a सुभाषितम् which does that –

यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा ।
यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् ।
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

यावत् स्वस्थम् इदं कलेवर-गृहं यावत् च दूरे जरा ।
यावत् च इंद्रिय-शक्तिः अप्रतिहता यावत् क्षयः न आयुषः ।
आत्म-श्रेयसि तावत् एव विदुषा कार्यः प्रयत्नः महान् ।
सन्दीप्ते भवने तु कूप-खननं प्रति-उद्यमः कीदृशः ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ यावत् (= until, as long as) अव्ययम् ।
२.२ स्वस्थम् ।

  • २.२.१ स्वेन स्थीयते एवम् = स्वस्थम्
  • २.२.२ स्वेन “स्व” (= self) इति सर्वनाम । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • २.२.३ स्थीयते “स्था” १ प. (= to stay) इति धातुः । तस्य कर्मणि प्रयोगे लट्-वर्तमानकाले तृतीयपुरुषे एकवचनम् च ।
  • २.२.४ स्वस्थम् “स्वस्थ” (= self-same, relaxed) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.३ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.४ कलेवर-गृहम् ।

  • २.४.१ कलेवरम् गृहम् इव = कलेवरगृहम् । कर्मधारयः ।
  • २.४.२ कलेवरम् “कलेवर” (= body) इति पुल्लिङ्गि अथवा नपुंसकलिङ्गि सामान्यनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.४.३ गृहम् “गृह” (= house) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.५ दूरे “दूर” (= distant) इति विशेषणम् । तस्य सप्तमी विभक्तिः एकवचनम् च । तेन प्रायः “दूरे” (= at a distance) इति अर्थेण अव्ययम् ।
२.६ जरा “जर्” (= to age) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “जरा” (= old age) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.७ इंद्रिय-शक्तिः ।

  • २.७.१ इंद्रियाणाम् शक्तिः = इंद्रियशक्तिः । षष्ठी-तत्पुरुषः ।
  • २.७.२ इंद्रियाणाम् “इंद्रिय” (= organ) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • २.७.३ शक्तिः “शक्” (= to be able) इति धातुः । तस्मात् भाववाचकम् स्त्रीलिङ्गि नाम “शक्ति” (= capability, strength) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.८ अप्रतिहता “अ + प्रति + हन्” (= not to affect) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “अप्रतिहत” । अत्र स्त्रीलिङ्गि “अप्रतिहता” (= unaffected) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.९ क्षयः “क्षि” १ प. (= to decay, to weaken, to diminish) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “क्षय” (= decay) । प्रथमा विभक्तिः एकवचनम् च ।
२.१० न (= not) अव्ययम् ।
२.११ आयुषः “आयुष्” (= age, life) इति नपुंसकलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
२.१२ आत्म-श्रेयसि ।

  • २.१२.१ आत्मनः श्रेयः = आत्मश्रेयः । षष्ठी-तत्पुरुषः । तस्मिन् – इति आत्मश्रेयसि ।
  • २.१२.२ आत्मनः “आत्मन्” (= self) इति विशेषणम् । प्रायः पुलिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.१२.३ श्रेयः “श्रि” १ उ. (= to shine) इति धातुः । तस्मात् विध्यर्थि विशेषणम् “श्रेयस्” (= glory) । पुल्लिङ्गि नाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.१२.४ आत्मश्रेयसि “आत्मश्रेयस्” (= glory to oneself) इति सामासिकम् पुल्ल्ङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.१३ तावत् (= until then, before such time) अव्ययम् ।
२.१४ एव (= only) अव्ययम् ।
२.१५ विदुषा “विद्” २ प. (= to know) इति धातुः । तस्मात् विशेषणम् “विदुष्” (= wise) । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः एकवचनम् च ।
२.१६ कार्यः “कृ” ८ उ. (= to do) इति धातुः । तस्य प्रयोजकात् विध्यर्थि विशेषणम् “कार्य” (= what is to be done) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१७ प्रयत्नः “प्र + यत्” १ आ. (= to do effort) इति धातुः । तस्मात् पुल्लिङ्गि सामान्यनाम  “प्रयत्न” (= effort) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१८ महान् “महत्” (= great, huge, large) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१९ सन्दीप्ते “सम् + दीप्” ४ आ. (= to ignite) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “सन्दीप्त” (= aflame, afire) । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
२.२० भवने “भू” १ प. (= to be) इति धातुः । तस्मात् “अत्र भूयते इति भवनम्” एतदर्थेन (= where one would have a “be”-ing)नपुंसकलिङ्गि सामान्यनाम “भवन” (= house) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
२.२१ तु (= however) अव्ययम् ।
२.२२ कूप-खननम् ।

  • २.२२.१ कूपस्य खननम् = कूपखननम् । षष्ठी-तत्पुरुषः ।
  • २.२२.२ कूपस्य “कूप” (= well) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.२२.३ खननम् “खन्” १ उ. (= to dig) इति धातुः । तस्मात् क्रियावाचकम् नपुंसकलिङ्गि नाम “खनन” (= digging) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.२३ प्रति-उद्यमः “प्रति + उत् + यम्” १ प. (= to undertake) इति धातुः । तस्मात् क्रियावाचकम् पुल्लिङ्गि नाम “प्रत्युद्यम” (= undertaking) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.२४ कीदृशः “कीदृश” (= of what type) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

यावत् इदं कलेवर-गृहं  स्वस्थम् = As long as this body is self-same
यावत् च जरा दूरे = as long as old age is distant
यावत् च इंद्रिय-शक्तिः अप्रतिहता = as long as capabilities of organs are unaffected
यावत् आयुषः क्षयः न = as long as life is not decayed or diminished
तावत् एव विदुषा आत्म-श्रेयसि महान् प्रयत्नः कार्यः = until such time only wise should exert great effort for self-glory
सन्दीप्ते भवने कूप-खननं तु कीदृशः प्रति-उद्यमः = What type of undertaking it would be, (if) one were to be digging the well, when the house is (already) on fire ?

४ टिप्पणयः ।

४.१ Analysis of the verse to find its meter would be as follows –

यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । वर्णाः १९
(२-२ २)-(११-२) (१-२-१) (१-१-२) (२-२ १)-(२-२-१) १ मात्राः ।
(मातारा)-(सलगं) (जभान) (सलगं) (ताराज)-(ताराज) ग = गणाः म स ज स त त ग

यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् ।
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥

गणाः म स ज स त त ग = शार्दूलविक्रीडितम् वृत्तम् ।

४.२  This सुभाषितम् is from भर्तृहरेः वैराग्यशतके (८६)-तमम् सुभाषितम्

४.३ In a book downloaded from the internet, I found the first line to be reading somewhat differently. It reads –

यावत्स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा ।

सन्धि-विच्छेदान् कृत्वा समासानाम् पदानि च दर्शयित्वा

यावत् स्वस्थम् इदम् शरीरम् अ-रुजम् यावत् च दूरे जरा ।

समासानाम् विग्रहाः शब्दानाम् विश्लेषणानि च

शरीरम् “श्री” ९ उ. (= to dress, to shine with glory) इति धातुः । श्रीयते इदम् = शरीरम् (= that which dresses (a skeleton ?))। तथा च श्रीयते अनेन = शरीरम् (= that which becomes the agent to attain shine and glory ?) । “श्री”-धातुतः करणवाचकम् नपुंसकलिङ्गि नाम “शरीर” (= body) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

अरुजम्
“रुज्” ६ प. (= to become ill, to suffer from disease, to have affliction) इति धातुः । तस्मात् “अ”-उपसर्गेण नकारात्मकम् विशेषणम् “अरुज” (= healthy) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

अन्वयाः अनुवादाः च

यावत् स्वस्थम् = as long as self-same
इदम् शरीरम् अरुजम् = this body (is) free from maladies

In the text as at the beginning यावत् इदं कलेवर-गृहं  स्वस्थम् is one clause.

In the alternative text यावत्स्वस्थमिदं शरीरमरुजं it becomes two clauses with independent and as much more comprehensive a meaning ! Since यावत् स्वस्थम् = शरीर-स्वास्थ्यम् मनःस्वास्थ्यमपि । तेनैव सम्पूर्णा स्वस्थता । i.e. both mental and physical well-being.

Physical well-being is affected by natural process of aging or by internal or external causes. In Ayurveda the illnesses are classified into 3 categories – कफ-वात-पित्त-दोषाः

४.४ I have been wondering what the significance is in mentioning  यावत् आयुषः क्षयः न as a distinct condition, distinct from the mentions earlier of यावत्स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा and यावच्चेंद्रियशक्तिरप्रतिहता Does not यावत् आयुषः क्षयः न sound as a mere repetition of the other conditions ?

Then came to mind fate of people who are in the jail awaiting their death sentence to be executed. All the other conditions यावत्स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा and यावच्चेंद्रियशक्तिरप्रतिहता could be very much valid, but the death sentence would have decided क्षयः of their life आयुषः

Once it came to mind that maladies could as well be classified into 3 categories – imbalance, infection, injury (all having initial letter “i”).

Then सम्पूर्णा स्वस्थता = perfect balance of all faculties, no Imbalances

यावच्चेंद्रियशक्तिरप्रतिहता = No Infections

यावत् आयुषः क्षयः न = No Injuries

४.५ शरीरमाद्यम् खलु धर्मसाधनम् is a famous quotation from कालिदसस्य कुमारसम्भवम् सर्ग ५-३३ Howsoever good an urge one would have to be of help to others, to be involved in धर्मसाधनम् one needs to be in good health to be able to execute one’s urge. Same thought is put in different words in the here, saying, तावत् एव महान् प्रयत्नः कार्यः It says आत्म-श्रेयसि But whatever is done as धर्मसाधनम् all that will become आत्म-श्रेयसि only.

४.६ Although I have committed to memory all the 700 verses of श्रीमद्भगवद्गीता I have to be alert when reciting. Reason is because there are many places where the wording is fairly identical. This causes recitation to go astray due to संचरणम् An example which is relevant to aging जरा mentioned in the two verses – जन्ममृत्युजराव्याधिर्दुःखदोषानुदर्शनम् (१३-८) जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते (१४-२०)

In these two verses जन्म, मृत्यु, जरा and व्याधि all these are cited to be दुःखदोषाः It is understandable that जरा and व्याधि are दुःखदोषाः It would also be understandable that मृत्यु also be cited as दुःखदोषः But why should जन्म also be cited as दुःखदोषः ?

I get to mind what the 17th century Saint Tukaram says in one of his verses
जन्माचे तें मूळ । पाहिले शोधून । दुःखासी कारण । जन्म घ्यावा ॥
“A research into the reason for being born leads to the conclusion that one is born to experience the pains and sorrows” (because the soul was not eligible for emancipation at the end of previous life.)

So, आत्म-श्रेयसि can be interpreted to finally mean whatever can help the soul to be emancipated from the vicious cycle of 8400,000 births and deaths.

शुभमस्तु |

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s