Learning Sanskrit by Fresh Approach – Lesson No. 112

Learning Sanskrit by Fresh Approach – Lesson No. 112

संस्कृतभाषायाः नूतनाध्ययनस्य द्वादशाधिकशततमः (११२) पाठः ।

There are many verses eulogizing गीता. They are often found in books of गीता as a compilation, popularly known as गीतामाहात्म्यम्. One verse, which has great poetic beauty is –

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम् |

नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् |

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा |

भूयाद्भारतपंकजं कलिमलप्रध्वंसि नः श्रेयसे ||

पदच्छेदान् कृत्वा –

पाराशर्य-वचः सरोजम् अमलं गीता-अर्थ-गन्ध-उत्कटम् |

नाना-आख्यानक-केसरं हरि-कथा-संबोधन-आबोधितम् |

लोके सज्जन-षट्-पदैः अहः-अहः पेपीयमानं मुदा |

भूयात् भारत-पंकजं कलि-मल-प्रध्वंसि नः श्रेयसे ||

The split-up of संधि-s, both explicit and also those implicit in compound words are shown above. We can now study all the words, deciphering also the compound words.

  1. पाराशर्यवचः = पाराशर्यम् वचः (कर्मधारयः)

    1. पाराशर्यम् = पाराशरस्य इदम् इति पाराशर्यम् | नपुंसकलिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनं च |

      1. पराशरस्य अयं इति पाराशरः = son of पराशर, hence पाराशर i.e. व्यासमुनिः

      2. पराशरस्य अयं इति पाराशरः (तद्धितं नाम) |

      3. पाराशरस्य इदम् इति पाराशर्यम् (तद्धितनाम्नः अन्यत्तद्धितम्) |

    2. वचः = वचस् इति नपुंसकलिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनं च |

    3. पाराशर्यवचः = (this) वचः speech of पाराशर i.e. of व्यासमुनिः

  2. सरोजम् = lotus

  3. अमलम् =

    1. न मलः यस्य (अथवा यस्मिन्) तत् – (नञ्-बहुव्रीहिः)

    2. मलः dirt, dust, blemish

    3. अमलम् = having no blemish

  4. गीतार्थगन्धोत्कटम् =

    1. गीतार्थः

      1. गीतायाः अर्थः → (षष्ठी-तत्पुरुषः) अथवा

      2. गीतायां अर्थः अथवा

      3. गीता एव अर्थः → गीतार्थः (कर्मधारयः)

      4. गीतार्थः = meaningfulness contained in गीता or meaningfulness derived from गीता or meaningfulness by virtue of having been contained in गीता

    2. गीतार्थस्य गन्धः → गीतार्थगन्धः (षष्ठी-तत्पुरुषः)

      1. गीतार्थगन्धः = fragrance of गीतार्थ

    3. गीतार्थगन्धेन उत्कटम् → गीतार्थगन्धोत्कटम् (तृतीया-तत्पुरुषः)

      1. उत्कटम् = overwhelming

    4. गीतार्थगन्धोत्कटम् = overwhelming due to the fragrance of गीतार्थ.

  5. नानाख्यानककेसरम् =

    1. आख्यानकं एव केसरं → आख्यानककेसरम् (कर्मधारयः)

    2. नाना आख्यानककेसराणि यस्य तत् (बहुव्रीहिः) → नानाख्यानककेसरम्

    3. आख्यानकम् = आ + ख्या इति धातुः | तस्मात् नपुंसकलिङ्गि नाम “आख्यान” |

      1. तस्य प्रियं च लघुत्वम् च “आख्यानकम्” |

      2. आख्यानम् → आख्यानकम् (तद्धितम्)

      3. आख्यानकम् = short story, episode, story within a story

    4. केसरम् (पुष्पस्य) = filament of a flower

    5. नाना – विशेषणात्मकं बहुवचनात्मकं तथापि अव्ययम् | नाना = many, innumerable

    6. नानाख्यानककेसरम् = having many innumerable episodes, which are like the innumerable filaments in a (lotus) flower

  6. हरिकथासंबोधनाबोधितम् =

    1. हरेः कथा इति हरिकथा | अथवा हरिणा कथा इति हरिकथा |

    2. हरिकथा च (तेन) संबोधनं च → हरिकथासंबोधनम् (समाहारद्वन्द्वः)

      1. हरिकथासंबोधनम् = story (biography) of हरि and also his advice

    3. हरिकथासंबोधनेन आबोधितम् = हरिकथासंबोधनाबोधितम्

      1. आबोधितम् = made vibrant, excited, exciting

    4. हरिकथासंबोधनाबोधितम् = what has become vibrant, excited, exciting due to the story (biography) of हरि and also by his advice

  7. लोके = जगति = in the world

  8. सज्जन-षट्-पदैः =

    1. षट् पदानि यस्य सः षट्पदः (बहुव्रीहिः) = भृङ्गः = honeybee

    2. सज्जनः एव षट्पदः सज्जनषट्पदः (कर्मधारयः)

    3. सज्जन-षट्-पदैः = by gentlemen, who (are) like the honeybees

  9. अहरहः अहनि अहनि इति अहरहः (अव्ययीभावः) | अहरहः = day after day

  10. पेपीयमानम् –

    1. “पा” इति धातुः – पा (पिबति to drink)|

    2. तस्मात् कर्मणिप्रयोगे “पीयते” (= is drunk) |

    3. तस्मात् यङि (frequentative) “पेपीयते” |

    4. तस्य शानच्-कृदन्तं “पेपीयमान” |

    5. पेपीयमानम् = being drunk repetitively

  11. मुदा =

    1. मुद् इति धातुः | धातुपाठसूच्याम् – मुद् | भ्वा० सेट् आ० | मुद हर्षे १. १६

    2. मुद् इति स्त्रीलिङ्गि नाम अपि | मुदा = तस्य तृतीया विभक्तिः एकवचनं च |

    3. मुदा = हर्षेण, सहर्षम् = with joy, joyously

  12. भूयात् –

    1. भू इति धातुः |

    2. धातुपाठसूच्याम् – भू | भ्वा० सेट् प० | भू सत्तायाम् १. १

    3. तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् |

    4. भूयात् = may it be

  13. भारत-पंकजं

    1. भारतं एव पंकजम् → भारतपंकजम् (कर्मधारयः)

    2. पङ्के जायते इति पङ्कजम् (उपपद-तत्पुरुषः) = born in mud, lotus

    3. भारतम् इति महाभारतम् |

    4. भारतपङ्कजम् = this महाभारतम्, which is a lotus itself

  14. कलि-मल-प्रध्वंसि

    1. कलेः मलः इति कलिमलः (षष्ठी-तत्पुरुषः) = dirt of कलि

    2. कलिमलस्य प्रध्वंसि इति कलिमलप्रध्वंसि (षष्ठी-तत्पुरुषः)

    3. प्रध्वंसि – “प्र + ध्वंस्” इति धातुः |

      1. धातुपाठसूच्याम् – ध्वंस् | भ्वा० सेट् आ० | ध्वंसु- [अवस्रंसने]| ध्वंसु गतौ च १. ८५८

      2. तस्मात् विशेषणम् “प्रध्वंसिन्” | अत्र नपुंसकलिङ्गि | तस्य प्रथमा विभक्तिः एकवचनं च |

      3. प्रध्वंसि = remover

    4. कलिमलप्रध्वंसि = remover of dirt of कलि

  1. नः – “अस्मद्” सर्वनाम | तस्य षष्ठी विभक्तिः बहुवचनं च | नः = our

  2. श्रेयसे –

    1. “श्रि” इति धातुः | धातुपाठसूच्याम् – श्रि | भ्वा० सेट् उ० | श्रिञ् सेवायाम् १. १०४४

    2. तस्मात् विशेषणम् “श्रेयस्” | प्रायः नपुंसकलिङ्गि नाम अपि श्रेयस् = serviceable, useful, for good, beneficial|

    3. श्रेयसे – श्रेयस् → चतुर्थी विभक्तिः एकवचनं च = for our benefit

Having deciphered meaning of all words, my father always advised that deciphering the meaning of the sentence or of clauses and sub-clauses should start by first analyzing the sentence(s), also the clauses and sub-clauses. The clauses and sub-clauses have either a verb क्रियापदम् or a verbal derivative धातुसाधितम् .

Here there is one clear क्रियापदम् verb – भूयात्

The subject-word कर्तृपदम् can be deciphered by asking question to the verb

कः/का/किम् भूयात् ? भारत-पंकजं भूयात् |

भूयात् is an intransitive verb. So, we do not have to decipher the कर्मपदम् object-word.

Then we can ask questions – How कथम्, when कदा, why किमर्थम्, where कुत्र.

भारत-पंकजं कथं भूयात् ? – भारत-पंकजं कलि-मल-प्रध्वंसि भूयात् |

किमर्थं भारत-पंकजं कलि-मल-प्रध्वंसि भूयात् ? – नः श्रेयसे भारत-पंकजं कलि-मल-प्रध्वंसि भूयात् |

This covers and puts into syntax all the words in the last line.

Since we located a verb-word भूयात् in the fourth line, we did the syntax of the fourth line.

Now going upwards to the third line पेपीयमानम् (= being drunk repetitively) is

  • a verbal derivative and has passive voice inbuilt.

  • So the subject of this verbal derivative ought to be with “with” or “by”.

  • पेपीयमानम् = being drunk repetitively → by whom ? सज्जन-षट्-पदैः = by gentlemen, who (are) like the honeybees

  • Being drunk repetitively by gentlemen, who (are) like the honeybees, when ? पेपीयमानम् सज्जन-षट्-पदैः कदा ? अहरहः = day after day

  • Being drunk repetitively by gentlemen, who (are) like the honeybees, how ? पेपीयमानम् सज्जन-षट्-पदैः कथम् ? मुदा = joyously

  • Being drunk repetitively by gentlemen, who (are) like the honeybees, where ? पेपीयमानम् सज्जन-षट्-पदैः कुत्र ? लोके = in the world.

This brings the third line into syntax –

Being drunk day after day, repetitively and joyously by gentlemen in the world, who (are) like the honeybees लोके सज्जन-षट्-पदैः अहरहः मुदा पेपीयमानम्

This is an adjectival phrase. Which noun does it qualify ? सरोजम् lotus.

Which lotus ? पाराशर्यवचः the speech of पाराशर

The other words and phrases in the first two lines are also adjectival of the सरोजम् lotus.

  • अमलम् = blemishless

  • गीतार्थगन्धोत्कटम् = overwhelming due to the fragrance of गीतार्थ

  • नानाख्यानककेसरम् = having innumerable episodes or short stories, which are like the filaments of a (lotus-) flower

  • हरिकथासंबोधनाबोधितम् = what has become vibrant, excited, exciting due to the story (biography) of हरि and also by his advice

First three lines having so many adjectival words and phrases do not have an explicit verb. The most common implicit verb is “is अस्ति / भवति”

The syntax can then be –

पाराशर्यवचः

लोके सज्जन-षट्-पदैः अहरहः मुदा पेपीयमानम्

गीतार्थगन्धोत्कटम्, नानाख्यानककेसरम्, हरिकथासंबोधनाबोधितम्, अमलम् सरोजम् अस्ति / भवति |

The speech of पाराशर is a blemish-less lotus, (nectar of) which,

– is being drunk day after day, repetitively and joyously by gentlemen in the world, who (are) like the honeybees,

– is overwhelming due to the fragrance of गीतार्थ,

– is having innumerable episodes or short stories, which are like the filaments of a (lotus-) flower,

– is, what has become vibrant, excited, exciting due to the story (biography) of हरि and also by his advice !

To analyze the meter

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम् | (१९ अक्षराणि)

(२-२-२)-(१-१-२) (१-२-१)-(१-१-२) (२-२-१)-(२-२-१)-२ इति मात्राः ।

म, स, ज, स, त, त, ग इति गणाः

नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् |

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा |

भूयाद्भारतपंकजं कलिमलप्रध्वंसि नः श्रेयसे ||

अत्र शार्दूलविक्रीडितम् वृत्तम् |

अस्य लक्षणपदम् – सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् |

Notes टिप्पण्यः

  1. The poetic beauty of the verse is obvious, right ?

    1. The poetic beauty is not just from the metrical discipline शब्दालङ्कार of शार्दूलविक्रीडितम् वृत्तम्  but

      1. The choice of the meter is also intelligent. शार्दूलविक्रीडितम् वृत्तम् has as many 19 letters in each line. It becomes an expansive meter.

      2. Eulogy should be expansive, right ?

    2. Possibly, poetic beauty is more charming due to the रूपक-अर्थालङ्कार use of ‘metaphor’ figure of speech.

      1. There is metaphor in महाभारतम् as the lotus

      2. also in calling the episodes as filaments of a lotus and

      3. in calling the readers, the gentlemen as honey-bees

      4. and in calling the reading of महाभारतम् as drinking the nectar, as by the honey-bees !

  2. In अहरहः पेपीयमानम् there is both repetitiveness, day after day, and also frequentative action. So the action “to drink” is not just day after day (once in a day), but frequentative, even in a day !

  3. Mention is of ‘speech of  पाराशर’. पाराशर i.e. व्यासमुनिः composed it, narrated it, but got it written by श्रीगणेशः. As far as पाराशर i.e. व्यासमुनिः is concerned, his was वचः only.

  4. Although it was mentioned in the beginning that the verse is found in verses eulogizing गीता, it is not just about गीता. It speaks about the entire महाभारतम्, especially by virtue of mention of नानाख्यानककेसरम्.

  5. The lotus, being itself blemish-less, can remove dirt from us also !

शुभं भवतु |

-o-O-o-

7 thoughts on “Learning Sanskrit by Fresh Approach – Lesson No. 112

  1. पराशरशब्दाद्गर्गादित्वाद्गोत्रे यञि-“पाराशर्यः = व्यासः।, तस्य वचः – पाराशर्यवचः इति साधुः पाणिनीयः प्रयोगः{

    एवं,

    अतिशयेन प्रशस्तं श्रेयः – इति प्रशस्तशब्दात् अतिशायनार्थे ईयसुन् प्रत्यये, “प्रशस्यस्य श्रः ५।३।६०” इति श्रादेशे, श्रेयः इति रूपं पाणिनीयं तद्धितान्तम्।

    हरिः सूर्योऽपि। हरेः कथया, संबोधनेन च बोधितम् = उत्फुल्लितम् इति भारतपङ्कजविशेषण संबोधनम् = ज्ञानम्, स एव सूर्यः, तेन पङ्कजस्य विकसनं काव्यसौन्दर्यं पोषयति।

    • पराशरः –> पाराशरः –> पाराशर्यम् / पाराशर्यः एतद्विधे विचारे मनस्यासीत्

      गीतायाः प्रथमे अध्याये “द्रुपदश्च … द्रौपदेयाश्च”
      अत्र तद्धिताः द्रुपदः –> द्रौपदी –> द्रौपदेयाः | धृष्टद्युम्नः तु द्रौपदः, न द्रौपदेयः |
      एनमनुसृत्य पाराशर्याः धृतराष्ट्रः, पण्डुः विदुरः च | पराशरः –> पाराशरः –> पाराशर्यः / पाराशर्यम्
      तेन पाराशर्यवचः = पाराशर्यं वचः |

      • न भवतां मनस्यासीत् यः को*पि विचारः, तदनुसारेण पाणिनीया व्युत्पत्तिः, किं तु पाणिनीयसूत्रानुसारेण भवति। पाराशर्यः – इति व्यास एव पाणिनिना सूत्रे निर्दिष्टः, “पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयो:” इति सूत्रे, पाराशर्यशब्दस्ययमर्थो यथा, तथा व्याकरणरीत्या दर्शितः।

    • श्रीमता “अविनाश साठये”-महोदयेनापि अस्ति सूचितम् –
      I would suggest a simpler/better interpretation of हरिकथासंबोधनाबोधितम् .
      हरि+कथा+संबोधना+बोधितम् .
      The meaning would be “sensed by the awareness of stories of Hari”. The idea would be that it is the stories which are sensed by these “सज्जन” bees, and they gather around.

      I don’t think आ+बुध् is commonly used.
      मनस्यागच्छति –
      हरिकथासंबोधनाबोधितम् .=

      हरि+कथा+संबोधना+बोधितम् .वा
      हरि+कथा+संबोधन+आबोधितम् वा |
      संबोधना प्रायः स्वीयं ज्ञानम् | संबोधनम् प्रायः परं प्रति |
      समासस्य द्वाभ्यां विग्रहाभ्यां “अधिकेन अधिकं ज्ञानम्” भवति खलु !!

  2. अतिशयेन प्रशस्यम्, श्रेयः। “श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते तु वाच्यवत्॥” इत्यमरटीकायां भानूजीदीक्षितः।

    अतिप्रशस्ते तु विशेषणमिति विशेषः, अन्यत्र नपुंसके प्रयोगः।

    इति पाणिनीयाः। स्त्रीलिङ्गे, पुंलिङ्गे चार्थभेदः कोशेषु द्रष्टव्यः। अत्र शुभाय इत्यर्थः स्वरसः।

  3. पेपीयमानम् –

    सज्जनषट्पदाः भारतपग्कजं पेपीयन्ते। इति कर्तरि यङ्गन्तः प्रयोगः, अस्यैव कर्मणि लकारः,
    सज्जनषट्पदैः भारतपग्कजं पेपीयते। इति।

    न तु विपरीतमिति स्थितिः पाणिनीये।

  4. अस्यैव शानजन्तं सज्जनषट्पदैः भारतपग्कजं पेपीयमानमिति विशेषणतया प्रयोगः।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s