Learning Sanskrit by fresh approach – Lesson No. 95

Learning Sanskrit by fresh approach – Lesson No. 95
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चनवतितमः (९५) पाठः ।

It has been a long time since I posted Lesson No. 94. I have been traveling around a bit too much.
When studying श्लोकः ३५  of प्रथमः अध्यायः श्रीमद्भगवद्गीता I realized the importance of पदक्रम, अन्वय, शब्दशः अभ्यासः
It became opportune that Mr. G.S.S. Murthy had posted this message to samskrita@googlegroups.com
“…I learnt the following verse from an elderly scholar of my village during my boyhood:
पथ्ये सति गदार्तस्य किमौषधिनिषेवणैः ।
पथ्येऽसति गदार्तस्य किमौषधिनिषेवणैः ॥
Where is the need for medicines if one is following strict diet? Of what avail is any medicine if one does not adhere to his diet?

I learnt the following from my Sanskrit teacher:
अनधीते महाभाष्ये व्यर्था सा पदमञ्जरी ।
अधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ॥
If one has studied Mahabhashya, there is no need to study Padamanjari. If one has not studied Mahabhashya there is no use of studying Padamanjari. (An acerbic comment indeed!)…”

Both the verses are good for a study.

पथ्ये सति गदार्तस्य किमौषधिनिषेवणैः ।
पथ्येऽसति गदार्तस्य किमौषधिनिषेवणैः ॥१।।
अनधीते महाभाष्ये व्यर्था सा पदमञ्जरी ।
अधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ॥२।।

Exercise 1 Rewrite these by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु ।

पथ्ये सति गद-आर्तस्य किम् औषधि-निषेवणैः ।
पथ्ये असति गद-आर्तस्य किम् औषधि-निषेवणैः ॥१।।
अन्-अधीते महाभाष्ये व्यर्था सा पद-मञ्जरी ।
अधीते तु महाभाष्ये व्यर्था सा पद-मञ्जरी ॥२।।

अत्र सन्धयः –

  1. गदार्तस्य = गद-आर्तस्य (स्वर-संधिः)
  2. किमौषधि = किम् औषधि (व्यञ्जन-संधिः)
  3. पथ्येऽसति = पथ्ये असति (स्वर-संधिः)
  4. अनधीते = अन्-अधीते (व्यञ्जन-संधिः)
Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. पथ्ये सति (यदा पथ्यं अस्ति) “सति-सप्तमी”-युक्तः गौण-वाक्यांशः ।
  2. (तदा) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
  3. पथ्ये असति (यदा पथ्यं न अस्ति) “सति-सप्तमी”-युक्तः गौण-वाक्यांशः ।
  4. गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
  5. अनधीते महाभाष्ये (यदा वा यदि वा महाभाष्यं न अधीतं (भवति) “सति-सप्तमी”-युक्तः गौण-वाक्यांशः ।
  6. (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) इति प्रधान-वाक्यांशः ।
  7. महाभाष्ये अधीते तु (यदा वा यदि वा महाभाष्यं अधीतं भवति) “सति-सप्तमी”-युक्तः गौण-वाक्यांशः ।
  8. (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) इति प्रधान-वाक्यांशः ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः
पथ्ये सति
१ अ यदा पथ्यम् अस्ति
तदा किम् प्रयोजनम् भवति गदार्तस्य औषधि-निषेवणैः
पथ्ये असति
३ अ यदा पथ्यम् न अस्ति
तदा किम् प्रयोजनम् भवति गदार्तस्य औषधि-निषेवणैः
महाभाष्ये अनधीते
५ अ यदा वा यदि वा महाभाष्यम् अधीतम् न भवति
तदा वा तर्हि वा सा पदमञ्जरी व्यर्था भवति
तु महाभाष्ये अधीते
७ अ यदा वा यदि वा महाभाष्यम् अधीतम् भवति
तदा वा तर्हि वा सा पदमञ्जरी व्यर्था भवति

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
पथ्ये सति (यदा पथ्यं अस्ति), (तदा) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
पथ्ये असति (यदा पथ्यं न अस्ति) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
अनधीते महाभाष्ये (यदा वा यदि वा महाभाष्यं न अधीतं (भवति) (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) ।
महाभाष्ये अधीते तु (यदा वा यदि वा महाभाष्यं अधीतं भवति) (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) ।

१ पथ्ये “पथ्” (= to walk a way) इति धातुः ? । तस्मात् विध्यर्थवाचकं विशेषणम् (?) प्रायः नपुम्सकलिङ्गि नाम “पथ्य” (= the way to be walked, a control (especially of diet) to be exercised) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
२ गदार्तस्य “गदार्त” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • २-१ गदेन आर्तः गदार्तः । तृतीया-तत्पुरुषः ।
  • २-२ गदेन “गद” (= illness, disease) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • २-३ आर्तः “आर्त” (= anxious) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ औषधिनिषेवणैः “औषधिनिषेवण” इति सामासिकं नपुम्सकलिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।

  • ३-१ औषधेः निषेवणम् = औषधिनिषेवणम् । षष्ठी-तत्पुरुषः ।
  • ३-२ औषधेः “औषधि” (= medicine) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-३ निषेवणम् “नि + सेव्” १ आ (= to consume) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “निषेवण” (= consumption) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-४ औषधिनिषेवणम् = consuming medicine

४ प्रयोजनम् “प्र + युज्” ७ उ (= to have purpose) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “प्रयोजन” (= purpose) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
५ असति “असत्” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ५-१ न सत् = असत् । नञ्-तत्पुरुषः ।
  • ५-२ सत् “अस्” २ प (= to be, to exist) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “सत्” (= existing) । अत्र नपुंसकलिङ्गि ।
  • ५-३ असति = when not existing

६ अनधीते “अन् + अधि + इ” १ उ, २ प, ४ आ (= not to study) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “अनधीत” (= not studied) । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
७ महाभाष्ये “महाभाष्य” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ७-१ महत् भाष्यम् = महाभाष्यम् । कर्मधारयः ।
  • ७-२ महत् (= great) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ७-३ भाष्यम् “भाष्” १ आ (= to speak, to comment) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि “भाष्य” (= commentary) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ७-४ महाभाष्यम् = The great commentary. The term usually refers to the great commentary by पातञ्जलि-मुनिः on the अष्टाध्यायी by पाणिनी. The commentary by पातञ्जलि-मुनिः has the title व्याकरण-महाभाष्यम्

८ पदमञ्जरी इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ८-१ पदानां मञ्जरी = पदमञ्जरी । षष्ठी-तत्पुरुषः ।
  • ८-२ पदानाम् “पद” (= a step, a crisp statement) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ८-३ मञ्जरी (= sprouting, a charming spread) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ८-४ पदमञ्जरी = a charming spread of crisp statements. This usually refers to अष्टाध्यायी by पाणिनी. The statements are so crisp that only great commentaries such as व्याकरण-महाभाष्यम् by पातञ्जलि-मुनिः help to understand full import of each statement,

९ व्यर्था “व्यर्थ” (= fruitless, meaningless) इति विशेषणम् । अत्र स्त्रीलिङ्गि “व्यर्था” । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ९-१ विगतः अर्थः यस्मात् तत् = व्यर्थम् ।
  • ९-२ विगतः “वि + गम्” १ प (= to go away) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “विगत” (= gone away, lost) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९-३ अर्थः “अर्थ” (= meaning, significance) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९-४  व्यर्थम् = विगतः अर्थः यस्मात् तत् =that from which meaning, significance is lost.

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

Mr. GSS Murthy did give translation of the verses. However I have added some words in brackets, which, I think, explain the meaning better.

पथ्ये सति (यदा पथ्यं अस्ति), (तदा) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
Where is the need for medicines if one is following strict diet?
पथ्ये असति (यदा पथ्यं न अस्ति) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
Of what avail is any medicine if one does not adhere to his diet?

अनधीते महाभाष्ये (यदा वा यदि वा महाभाष्यं न अधीतं (भवति) (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) ।
If one has studied Mahabhashya, there is no need to study Padamanjari (separately).

महाभाष्ये अधीते तु (यदा वा यदि वा महाभाष्यं अधीतं भवति) (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) ।
If one has not studied Mahabhashya there is no use of studying Padamanjari.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

पथ्ये सति गदार्तस्य । वर्णाः ८
किमौषधिनिषेवणैः । वर्णाः ८
पथ्येऽसति गदार्तस्य । वर्णाः ८
किमौषधिनिषेवणैः ॥ वर्णाः ८
अनधीते महाभाष्ये । वर्णाः ८
व्यर्था सा पदमञ्जरी । वर्णाः ८
अधीते तु महाभाष्ये । वर्णाः ८
व्यर्था सा पदमञ्जरी ॥ वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.
Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।
६-१
The verses exemplify charming use of सति-सप्तमी
६-२
The first line of the first verse seems to suggest that diet control can eliminate need for medicine, even for an afflicted person, गदार्तस्य. This seems to be somewhat far-fetched. But such overtures are normally excused to poets. निरङ्कुशाः कवयः !
६-३
References implied behind the words महाभाष्यम् and पदमञ्जरी are already detailed at ७-४ and ८-४. However this logic of learning any great text, rather an encoded text पदमञ्जरी by learning its महाभाष्यम् is a great suggestion.

  • ६-३-१ Every सुभाषितम् being studied is a पदमञ्जरी of sorts. And study here is at least a भाष्यम् if not a महाभाष्यम्

६-४ The lines किमौषधिनिषेवणैः in verse 1 and व्यर्था सा पदमञ्जरी in verse 2 are repeated in each verse. But does one sense some difference in their meanings in respective contexts ?
६-५ We use the word व्यर्थम् so naturally that its derivation is hardly ever dwelt upon. The derivation of the word व्यर्थम् however appealed to me to be somewhat interesting, especially a special shade of meaning of the prefix वि. Usually one finds this prefix to mean वि = विशेषेण or वि = विरोधेन However, here its meaning वि = विगतः यस्मात् fits in more appropriately. Is not that some charming joy of learning each word very much by its derivation ?

शुभमस्तु !
-o-O-o-