Learning Sanskrit by fresh approach – Lesson No. 90

Learning Sanskrit by fresh approach – Lesson No. 90
संस्कृतभाषायाः नूतनाध्ययनस्य नवतितमः (९०) पाठः ।

Recently a question was posted to me, asking about the famous शान्ति-मन्त्रः “ॐ सहनाववतु” When replying that question, it came to mind that we often tend to chant famous Mantra-s, not being inquisitive of their meaning. This Mantra of course makes an interesting study –

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः !
Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् । 

ॐ सह नौ अवतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नौ अधीतं अस्तु । मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ! 

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

२-१ ॐ  OM इति माङ्गलिकं ध्यानम् । OM is an auspicious invocation.
२-२ सह नौ अवतु । क्रियापदम् “अवतु” । अध्याहृतं कर्तृपदम्  “सः” ।  कर्मपदम् “नौ”  ।

May He protect us both.

२-३ सह नौ भुनक्तु । क्रियापदम् “भुनक्तु” । अध्याहृतं कर्तृपदम्  “सः” ।  कर्मपदम् “नौ”  ।

May (He) feed us both.

२-४ सह वीर्यं करवावहै । क्रियापदम् “करवावहै” । अध्याहृतं कर्तृपदम्  “आवाम्” । कर्मपदं “वीर्यम्” ।

May we both display valour together.

२-५ अधीतं नौ तेजस्वि अस्तु । क्रियापदम् “अस्तु” अकर्मकम् । कर्तृपदम्  “अधीतम्” । पूरकम् “तेजस्वि” ।

May learning be brilliant for us.

२-६ मा विद्विषावहै । क्रियापदम् “विद्विषावहै” अकर्मकम् । अध्याहृतं कर्तृपदम्  “आवाम्” ।

May we (never) hate each other.

२-७ शान्तिः (अस्तु) । अध्याहृतं क्रियापदम् “अस्तु” अकर्मकम् । कर्तृपदम्  “शान्तिः” ।

May peace be (with us).

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ ॐ (= the sacred syllable OM)
३-२ सह (= with, together) इति अव्ययम् ।
३-३ नौ “अस्मद्” (= pronoun of first person for “I, we”) इति उत्तमपुरुषि सर्वनाम । तस्य द्वितीया वा चतुर्थी वा षष्ठी विभक्तिः द्विवचनम् च ।
३-४ अवतु “अव्” १ प (= to protect) इति  धातुः । तस्य आज्ञार्थे प्रथमपुरुषे एकवचनम् ।
३-५ भुनक्तु “भुज्” ७ उ (= to eat, to feed, to sustain) इति धातुः । अत्र परस्मैपदी । तस्य आज्ञार्थे प्रथमपुरुषे एकवचनम् ।
३-६ वीर्यम् “वृ” १, ५, ९ उ (= to choose, to prefer) इति धातुः । तस्मात् विध्यर्थि विशेषणम् (= preferable) तथा भाववाचकं नाम अपि “वीर्य” (= preferability, valour) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा / द्वितीया (अत्र द्वितीया) विभक्तिः एकवचनम् च ।
३-७ करवावहै “कृ” ८ उ (= to do, to perform) इति धातुः । अत्र आत्मनेपदी । तस्य आज्ञार्थे उत्तमपुरुषे द्विवचनम् ।
३-८ तेजस्वि “तेजस्विन्” (= what has brilliance, brilliant) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-८-१ तेजस् (= brilliance, shine, splendour) इति नपुंसकलिङ्गि नाम । तस्मात् “विन्”-प्रत्ययेन तेजस्विन् ।

३-९ अधीतम् “अधि + इ” १, २ प (= to firmly go to, to acquire, to study) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “अधीत” (= what is studied, learning) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१० अस्तु “अस्” २ प (= to be, to exist) इति धातुः । तस्य आज्ञार्थे प्रथमपुरुषे एकवचनम् ।
३-११ मा (= not) इति अव्ययात्मकं नकारार्थि क्रिया-सहायकम् ।
३-१२ विद्विषावहै “वि + द्विष्” (= to hate) इति धातुः । तस्य आज्ञार्थे उत्तमपुरुषे द्विवचनम् ।
३-१३ शान्तिः “शम्” ४ प (= to pacify) इति धातुः । तस्मात् भाववाचकं स्त्रीलिङ्गि नाम “शान्ति” (= peace) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

४-१ Literal translation is already detailed at Exercise 2.

४-२ Here is another version from http://gyana.wordpress.com/2008/06/01/

  • OM! May that Brahman protect us both (Teacher & Disciple);
  • May that Brahman nourish us both;
  • May we work in harmony with great vigor;
  • May our study be illuminating and fruitful;
  • May we not hate each other.
  • Om Peace… Peace… Peace…

४-३ The अन्वय of can be

  • अधीतं नौ तेजस्वि अस्तु । = May learning be brilliant (prove enlightening) for us (चतुर्थी विभक्तिः)
  • नौ अधीतं तेजस्वि अस्तु । = May our learning be brilliant (षष्ठी विभक्तिः)

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

  • A Mantra has a छन्दः a rhythm of its own ! It is advisable to chant any Mantra with its own rhythm, so that one can get the full benefit from chanting the Mantra. That applies also to chanting ॐ the single-syllable Mantra.

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. The word नौ is a declension of the pronoun अस्मद् in द्वितीया वा चतुर्थी वा षष्ठी विभक्तिः 

  • it is used in द्वितीया विभक्तिः in first and second sentences
  • it can be interpreted as being in चतुर्थी वा षष्ठी विभक्तिः as detailed at (४-३)

२ A Mantra is eternally valid statement, to be chanted and also to be meditated upon

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

This Mantra is a prayer ! 

Exercise 8 Comments, Notes, Observations, if any.

स्वाध्यायः ८ टिप्पणयः ।
८-१ Original text: श्वेताश्वतरोपनिषत् as mentioned at http://knol.google.com/ by

  • (१) Prof. Dr. phil. habil. Jörn Gruber, Wissenschaftler & poyglotter Schriftsteller and
  • (२) Yogānandin योगानन्दिन् Prof. Dr. – Institut für Yogawissenschaft – योगविद्यापीठ

८-२ The Mantra closes with repetition of शान्तिः three times. That also is significant. To understand the significance I said it to myself, only once ॐ शान्तिः I found the whole charm missed out completely. So, I said again ॐ शान्तिः शान्तिः शान्तिः ! And of course the utterance was so soothing. The second and third utterances should be slower and slower. Triple repetition really helps the Mantra to settle into the psyche.

Even in Indian musical recitals, rendering of a song is recommended to be closed with such triple repetition of the closing note. By that you can know when the rendering closing and when to clap !

When doing योगासन also, say when doing पश्चिमोत्तानासन extend the bend and the stretch in three steps. By the third step you would have reached the best bend and stretch. Thus, there is deep thinking, logic, experience and a science in triple repetition !

८-३ This Mantra is one of many शान्ति-मन्त्राः Most Upanishad-s have a शान्ति-मन्त्र both at the beginning and at the end. For example श्रीगणपत्यर्वशीर्षम् also known श्रीगणेशोपनिषत् starts with the शान्ति-मन्त्र – “ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ….” and closes with this शान्ति-मन्त्र – “ॐ सह नाववतु । सह नौ भुनक्तु ।…”

८-३-१Acharya Vinobaji Bhave mentions in his commentary on ईशावास्य that this उपनिषत्  is unique for having opening and closing शान्ति-मन्त्र-s identical That शान्ति-मन्त्र is – ॐ पूर्णमदः पूर्णमिदं …

८-४ The Mantra is eternally valid for any two persons or for any two entities for a positive relationship between them.

It is a prayer for 

  • husband and wife, especially as a part of the wedding ritual, that the new phase in life that they are embarking upon, be blissful in all respects
  • parent and child
  • teacher and disciple as mentioned at (४-२)
  • any two friends
  • lion and the mouse
  • a family or any person entering a new house (There is a custom of conducting a worship पूजा to the वास्तुपुरुष the deity residing at the place. This Mantra is relevant for that worship.)
  • Rather, it can be recited as a part of any worship पूजा ritual
  • even for signing a treaty at the end of battle between two enemies !
    • As such there should be no battles. If at all a battle takes place, it should end with this prayer.
    • Closing a battle with signing a treaty invoking this prayer would ensure that strife will not continue endlessly, as has happened in Afghanistan and in Iraq. Americans and their allies seem to be finding it difficult to withdraw the forces after so many years. Even if American troops have been officially withdrawn from Iraq, bomb-blasts keep happening there !
    • It seems, for the sake of world-peace, people all over the world should start chanting this prayer whole-heartedly !
शुभमस्तु ।

-o-O-o-

Learning Sanskrit by fresh approach – Lesson No. 89

Learning Sanskrit by fresh approach – Lesson No. 89
संस्कृतभाषायाः नूतनाध्ययनस्य नवाशीतितमः (८९) पाठः ।

As mentioned towards the end of the previous lesson, the other श्लोक: about what to learn from a honeybee is –

अणुभ्यश्च महद्-भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्-पदः ।।
– श्रीमद्भागवते ११-८-१०
Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् ।

अणुभ्य: च महद्-भ्य: च शास्त्रेभ्यः कुशल: नरः ।
सर्वतः सारम् आदद्यात् पुष्पेभ्य: इव षट्-पदः ।।

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

२-१ पुष्पेभ्य: षट्-पदः (सारम्) (आददाति) इव

  • अध्याहृतं क्रियापदं “आददाति” । कर्तृपदं “षट्-पदः” । अध्याहृतं कर्मपदम् “सारम्” ।

२-२ कुशल: नरः अणुभ्य: च महद्-भ्य: च सर्वतः शास्त्रेभ्यः सारम् आदद्यात् ।

  • क्रियापदं “आदद्यात्” । कर्तृपदं “नरः” । कर्मपदम् “सारम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१अणुभ्य: “अणु” (= atom, minute particle) इति पुल्लिङ्गि नाम अथवा विशेषणम् (= minute, small) अपि । तस्य चतुर्थी / पञ्चमी (अत्र पञ्चमी) विभक्तिः बहुवचनम् च ।
३-२ च (= and) इति अव्ययम् ।
३-३ महद्-भ्य: “महत्” (= big) इति विशेषणम् । अत्र पुल्लिङ्गि वा नपुंसकलिङ्गि । तस्य चतुर्थी / पञ्चमी (अत्र पञ्चमी) विभक्तिः बहुवचनम् च ।
३-४ शास्त्रेभ्यः “शास्त्र” (= science) इति नपुंसकलिङ्गि नाम । तस्य चतुर्थी / पञ्चमी (अत्र पञ्चमी) विभक्तिः बहुवचनम् च ।
३-५ कुशल: “कुशल” (= smart, expert) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-६ नरः “नर” (= male being, man, person) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-७ सर्वतः “सर्व” (= all) इति सर्वनाम । तस्मात् “तः”-प्रत्ययेन पञ्चमी-विभक्त्यर्थेण अव्ययम् (= from all, from everywhere, on all sides,  everywhere) ।
३-८ सारम् “सार” (= essence) इति पुल्लिङ्गि / नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च ।
३-९ आदद्यात् “आ + दा” १ प / ३ उ (= to take) इति धातुः । अत्र ३ प । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-१० पुष्पेभ्य: “पुष्प” (= flower) इति नपुंसकलिङ्गि नाम । तस्य चतुर्थी / पञ्चमी (अत्र पञ्चमी) विभक्तिः बहुवचनम् च ।
३-११ इव (= like, similar to) इति अव्ययम् ।
३-१२ षट्-पदः “षट्-पद” (= six-legged, six-footed, honeybee) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१२-१ षट् पदानि यस्य सः । बहुव्रीहिः ।
  • ३-१२-२ षट् (= six) इति संख्यावाचकं लिङ्गभेदविरहितं बहुवचनात्मकं विशेषणम् । तस्य प्रथमा विभक्तिः ।
  • ३-१२-३ पदानि “पद” (= leg, foot) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

४-१ पुष्पेभ्य: षट्-पदः (सारम्) (आददाति) इव = (यथा) पुष्पेभ्य: षट्-पदः (सारम्) (आददाति) (तथा)
Just as a honeybee takes the essence from (all types of) flowers

४-२ कुशल: नरः अणुभ्य: च महद्-भ्य: च सर्वतः शास्त्रेभ्यः सारम् आदद्यात् ।
a smart person should get the essence from all small and big sciences.

४-३ The word शास्त्रेभ्यः and the adjectival words अणुभ्य:, महद्-भ्य: and सर्वतः seem somewhat challenging, both for paraphrasing (अन्वय) and translation (अनुवाद).

  • If अणुभ्य:, महद्-भ्य: and सर्वतः are all taken as adjectives of शास्त्रेभ्यः it seems to imply that one need not pick up essence from a thing, which is not science.
  • However one can consider the words अणुभ्य: and महद्-भ्य: not being merely adjectives of शास्त्रेभ्यः but as independently referring to all “things” small and big.
  • Similarly the word सर्वतः also can be considered to have a stand-alone meaning “from everywhere” instead of being an adjective of शास्त्रेभ्यः with सर्वतः शास्त्रेभ्यः meaning “from all sciences”
  • To consider अणुभ्य:, महद्-भ्य: and सर्वतः as being independently meaningful, the अन्वय would sound better with one more च being implicit. So the अन्वयcould rather be कुशल: नरः अणुभ्य: च महद्-भ्य: च शास्त्रेभ्यः (च) सर्वतः सारम् आदद्यात् ।
  • Such mention of शास्त्रेभ्यः may imply that even if sciences are usually dry and drab, compared to most other things, small or big, being charming by themselves, one should draw the essence from the sciences also, with equal interest.

४-४ The analysis in (४-३) brings forth the important point that one can derive different, valid meaning by a different syntax. This is another specialty of Sanskrit.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

We have to first put the verse in four quarters –

अणुभ्यश्च महद्-भ्यश्च । वर्णाः ८
१-२-२-१ १-२-२-(२) इति मात्राः ।
शास्त्रेभ्यः कुशलो नरः । वर्णाः ८
२-२-२ १-१-२ १-२ इति मात्राः ।
सर्वतः सारमादद्यात् । वर्णाः ८
२-१-२ २-१-२-२-२ इति मात्राः ।
पुष्पेभ्य इव षट्-पदः । वर्णाः ८
२-२-२ १-१ २-१-२ इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।। 

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. The word इव is typical of comparison उपमा । 

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

७-१ The moral is mentioned very clearly in the first three quarters.
७-२ As mentioned at (४-२) the moral is – “A smart person should get the essence from all small and big sciences (from everywhere).” 

Exercise 8 Comments, Notes, Observations, if any.

टिप्पणयः ।

८-१ The honeybee not only picks up the essence, it converts it into honey. Does it not become more charming if this aspect is also considered as implicit in the meaning of the word इव ? For the action of picking up the essence to be completely similar (इव), the conversion aspect should also be considered implicit.

८-२ The specialty of Sanskrit mentioned at (४-४), viz. ” one can derive different, valid meaning by a different syntax.” brings to mind the opening श्लोकः in स्वप्नवासवदत्तम् by poet and dramatist भास The श्लोकः is –

उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ।।

This श्लोकः can be interpreted in 3 different ways !

८-३ The श्लोकः of this lesson brings to mind the सुभाषितम् studied in Lesson 18 –

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥

८-४ The श्लोकः of this lesson also brings to mind the ऋचा from ऋग्वेद –

आ नो भद्राः क्रतवो यन्तु विश्वतः ।
  • May noble thoughts come from across the universe or
  • (also =) May noble thoughts spread across the universe

शुभमस्तु ।

-o-O-o-

Learning Sanskrit by fresh approach – Lesson No. 88

Learning Sanskrit by fresh approach – Lesson No. 88
संस्कृतभाषायाः नूतनाध्ययनस्य अष्टाशीतितमः (८८) पाठः ।

By his comment on the previous lesson, Mr. H. N. Bhat pointed out that श्लोकः ११-७-३५ in श्रीमद्भागवतम् speaks of 24 things in nature, from which man can learn many things. In the previous lesson the सुभाषितम् detailed what all should be learnt from an ass or donkey. Here is one about learning from a honeybee.

स्तोकं स्तोकं ग्रसेद्-ग्रासं देहो वर्तेत यावता ।
गृहानहिंसन्नातिष्ठेद्-वृत्तिं माधुकरीं मुनिः ।। श्रीमद्भागवते ११-८-९ ।।
Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् । 

स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता ।
गृहान् अहिंसन् आतिष्ठेत् वृत्तिं माधुकरीं मुनिः ।। 

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

२-१ क्रियापदम् “ग्रसेत्” । “(मनुजः) स्तोकं स्तोकं ग्रासं ग्रसेत्” इति प्रधान-वाक्यम् । अध्याहृतम् कर्तृपदम् “मनुजः” । कर्मपदं “ग्रासम्” ।
२-२ क्रियापदम् “वर्तेत” । एतत्तु अकर्मकम् । “यावता देहः वर्तेत” इति गौण-वाक्यम् । कर्तृपदम्  “देहः” । संबन्धसूचकं “यावता”  । 

२-३ धातुसाधितं “अहिंसन्” । विशेषणात्मकं गौण-वाक्यम् “गृहान् अहिंसन्” । “मुनिः”-शब्दस्य विशेषणम् ।  कर्मपदम् “गृहान्”

२-४ क्रियापदम् “आतिष्ठेत्” । “मुनिः वृत्तिं आतिष्ठेत्” इति प्रधान-वाक्यम् । कर्तृपदम्  “मुनिः” । कर्मपदं “वृत्तिम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ स्तोकम् (= little)  इति अव्ययम् ।
३-२ ग्रसेत् “ग्रस्” १ प (= to eat) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-३ ग्रासम् “ग्रस्” १ प (= to eat) इति धातुः । तस्मात् पुल्लिङ्गि नाम “ग्रास” (= mouthful quantity) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-४ देहः “देह” (= body) इति  पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-५ वर्तेत “वृत्” १ आ (= to be, to exist) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-६ यावता (= as long as) इति अव्ययम् ।
३-७ गृहान्  “गृह” (= home, household) इति पुल्लिङ्गि / नपुंसकलिङ्गि नाम । अत्र पुल्लिङ्गि ।  तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-८ अहिंसन् “हिंस्” ७ प १० उ (= to harm) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “हिंसत्” । तस्य नकारात्मकं विरुद्धार्थि “अहिंसत्” (= not harming) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-९ आतिष्ठेत्  “आ + स्था” १ प (= to conduct oneself) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-१० वृत्तिं  “वृत्” १ आ (= to be, to exist) इति धातुः । तस्मात् भाववाचकं स्त्रीलिङ्गि नाम “वृत्ति” (= conduct) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-११ माधुकरीम् माधुकरी (= of honeybee) इति स्त्रीलिङ्गि विशेषणम् । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-११-१ मधु करोति इति मधुकरः । उपपद-तत्पुरुषः ।
  • ३-११-२ मधुकरस्य वृत्तिः माधुकरी वृत्तिः ।
  • ३-११-३ मधु (= honey) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च ।

३-१२ मुनिः “मुनि” (= Muni, a mendicant) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।
४-१ यावता देहः वर्तेत  = As long as body exists (i.e. as long as one lives)
४-२ (मनुजः) स्तोकं स्तोकं ग्रासं ग्रसेत् । = man should eat little by little
४-३ गृहान् अहिंसन् = Without causing harm to homely people
४-४ मुनिः माधुकरीम् वृत्तिं आतिष्ठेत् । = A Muni (a mendicant) should conduct oneself like a honeybee does.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

स्तोकं स्तोकं ग्रसेद्-ग्रासं  । वर्णाः ८
२-२ २-२ १-२-२-२ इति मात्राः ।
देहो वर्तेत यावता । वर्णाः ८
२-२ २-२-१२-१-२ इति मात्राः ।
गृहानहिंसन्नातिष्ठेद् । वर्णाः ८
१-२-१-२-२-२-२ इति मात्राः ।
वृत्तिं माधुकरीं मुनिः । वर्णाः ८
२-२ २-१-१-२ १-२ इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
परन्तु तृतीये पादे पञ्चमं लघु नास्ति । एषः कश्चिदपवादः ।

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. In the verse the conduct of a honeybee is superimposed on a mendicant. 

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

This सुभाषितम् brings forth what one should learn from a honeybee. 

The moral is suggested primarily keeping in mind mendicants. Mendicants subsist by getting offerings from devout homely people. They should get the offering of their daily food from more than one home, so that burden of philanthropy would not greatly affect people of a single household.

Exercise 8 Comments, Notes, Observations, if any.
टिप्पणयः ।

८-१ The conjugated word गृहानहिंसन्नातिष्ठेद् has become quite some complex because it can be broken differently also. At http://wikisource.org/wiki/उद्धवगीता_२ the सुभाषितम् reads as follows –

स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता ।
गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः॥

By breaking the conjugation as गृहान् अहिंसत् न आतिष्ठेत् there are two negatives – one in अहिंसत् and न itself. This will lend a meaning opposite of what is detailed at (४-३) and (४-४).

One needs to be careful while breaking conjugated words. They need to be broken in a manner that the intended meaning will be properly reflected. I hope, the breaking of this conjugation, as done by me is appropriate.

८-२ The सुभाषितम् is based on an observation of how a honeybee collects the honey. After the honeybee has extracted honey from any flower, by looking at the flower one cannot make out whether any honeybee had come there and extracted any honey. The flower remains substantially unaffected even after the honeybee has extracted some honey from it.

Likewise mendicants should collect food for their daily need little by little from different (usual recommendation is said to be five) households and not from a single household.

All these codes of mendicants collecting food from households is a subject by itself provoking wide-ranging thoughts in my mind. Maybe I may compile a supplement to present those thoughts, unless I may locate some relevant सुभाषितम् as well.

८-३ The next shloka also details what should be learnt from a honeybee. The shloka is

अणुभ्यश्च महद्-भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्-पदः ।। श्रीमद्भागवते ११-८-१० ।।
It would be good to study this shloka in the next lesson.
शुभमस्तु । 

-o-O-o-

Supplement to Lesson No. 87

It is so overwhelming to see scholars scanning the lessons with a good magnifying lens and offering their enlightening comments !

(1) Shri. H. N. Bhat –

Another version with some different readings found on some other site:

अविश्रान्तम् वहेद् भारम् शीतोष्णं च न विन्दति
ससन्तोषस्तथा नित्यम् त्रीणि शिक्षेत गर्दभात्

The above subhAshit teaches us three things to be learnt from a Donkey.
and those are:
1. He carries load (meaning he slogs, takes pains..that’s what we also have to do to achieve our
objectives)without taking any rest
2. He doesn’t care about cold,hot weather,monsoon…anything…just does it whatever has been assigned to him…and (that too with honesty)

3.(and after all this) he is always happy, doesn’t complain about anything. 

These are the three things one should  learn from a donkey –

The above is the simple interpretation of the सुभाषित.

There are 24 teachers in the nature listed in भागवतपुराण which lists many animals as teachers for learning good conduct, including honey bee, turtle, our donkey etc. I don’t have ready list right now. But would be possible to get later.

(2) Shri. Aravind Kolhatkar –

This verse reminds me of a witty observation in PL Deshpande’s play ‘तुझे आहे तुजपाशी’

PL Deshpande calls the donkey an exemplar of the स्थितप्रज्ञ because the donkey eats a discarded paper and a discarded banana peel with the same relish!

(3) Dr. Avinash Sathaye –

You noted
८-२ The poet has taken liberty to use the verb चरते in आत्मनेपदम् Such liberties taken by poets are often explained away by saying निरङ्कुशाः कवयः ! Poets are not to be reined in by rules of grammar ! Just appreciate the thoughts and ideas being presented !

but you did not note that शिक्षेत् is also faulty – or आर्ष as the euphemism goes(:-))

Notice that the alternate version fixes this issue since it has शिक्षेत.

I think वहेत् can be justified as proper, since he does not always carry loads when tired. It is only trying to say that even though tired, he “may carry the loads”. The other two actions are unconditionally present.

Notes –

(1) It is fascinating to see that Dr. Sathaye noted that not only the word चरते but also the word शिक्षेत् is erroneous, because this is a declension if the verb were to be परस्मैपदी. But the धातुः “शिक्ष्” is आत्मनेपदी and hence its correct declension becomes शिक्षेत as is used in the other version provided by Shri. H. N. Bhat.

(2) Shri. H. N. Bhat also provides interesting information –

“…24 teachers in the nature listed in भागवतपुराण..”

In a chat with him, we found the reference being –

एते मे गुरवो राजन्श्चतुर्विंशतिराश्रिताः ।
शिक्षावृत्तिभिरेतेषामन्वशिक्षमिहात्मनः ।।११-७-३५।।

(3) All the teachers in the nature are teachers only to one who can see qualities to be learnt from them.  As the proverb says, “Beauty is in the eyes of the beholder”. To recognize a teacher, one needs the “eye” and humility of a student.

शुभमस्तु !

Supplement to Lesson No. 85

Very interesting comments have been posted by Mr. Aravind Kolhatkar and Mr. H. N. Bhat. For the fear that they may not get noticed, I am reproducing them in this supplement.

(1) From Mr. Aravind Kolhatkar –

अनुद्यमेन तैलानि तिलेभ्यो नाप्तुमर्हति

This reminded me of something that I had forgotten over the last several decades.

विश्वनाथ in साहित्यदर्पण has cited  तिल and तैल as an instance of लक्षणलक्षणा, whereby  a derived word becomes generic to all similar words of that type.  तैल is the extract of तिल, a word going back to times when that was the main oilseed in use.  Later, more such oilseeds came into use but their extracts were also called तैल.  Even mineral oil is called मिट्टीका तेल.  Somewhat like all hydrogenated oils (वनस्पति तेल) being called as डालडा, that being the first one of its type.

(2) From Mr. Aravind Kolhatkar –

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन कर्मण्येवाधिकारस्ते मा फलेषु कदाचन

In a lighter vein, this can also be translated as

“It is your duty to keep doing what you are meant to do.  In the end you may not always get fruit as your reward, sometimes you may also have to settle with plain ‘channas’!

(3) From Mr. H. N. Bhat –

Aravindaji has rightly observed the specialization of meaning from the word तैल by expanding its scope. Strictly speaking, तैल means the oil derived from the word तिल = तिलानामिदम् (संबन्धि) – तैलम्। and extensively used in the generic sense of oil.

But what struck me was the plurality of तैल as it has no specific purpose to serve in the verse than filling in the metrical requirement. Here by the लक्षणलक्षणा – I would translate as the plurality of तिल by connotation  by the plurality covers all other oil seeds like तिल and in this sense तैलानि would mean different kinds of oil. as in the usage “काकेभ्यो दधि रक्ष्यताम्” which implies all the birds or animals from which the curd is protected and not only crows.

I hope this would solve to certain extent the problem in the above reading. I got the same quoted in सुभाषित-रत्न-भण्डागार ascribed to शार्ङ्गधरपद्धति (४५४) without plurality with a different reading for the second half –

अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति?

as a rhetoric question.

And for the figure of speech, अलंकारः, it is a case of अर्थान्तरन्यास which is defined as followed:

8 A general proposition; उक्तिरर्थान्तरन्यासः स्यात् सामान्य-विशेषयोः Chandr.5.12. -9 (In Rhet.) A figure of speech thus defined by Mammaṭa:- प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात्तत् सामान्यमिति स्मृतम् ॥ K. P.1. -1 A general statement or expression;

(4) From Mr. H. N. Bhat –

A very interesting and funny सुभाषित grasping the clue from the quoted verse कर्मण्येवाधिकारस्ते is found:

उद्योगः खलु कर्तव्यः फलं मार्जारवद् भवेत्।
जन्मप्रभृति गौर्नास्ति, पयः पिबति नित्यशः॥

The second half how the result will entail your effort like a cat. which (even though) is not a cow by birth, but drinks  milk daily!

(5) From Mr. H. N. Bhat –

The translation would be precise for the quoted सुभाषित-

“The cat is not a cow (rather calf), but since birth it drinks milk daily.”

Learning Sanskrit by fresh approach – Lesson No. 87

Learning Sanskrit by fresh approach – Lesson No. 87
संस्कृतभाषायाः नूतनाध्ययनस्य सप्ताशीतितमः (८७) पाठः ।

In the notes टिप्पणयः of the previous lesson, it was noted that “a tiny creature like an ant is an eminent example of industriousness” There are interesting सुभाषितानि summarizing what to learn from which creature. Here is one about learning from an ass or donkey. The सुभाषितम् is –

सुश्रान्तो ऽ पि वहेद्भारं शीतोष्णं न च पश्यति ।
संतुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ।। 

Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् । 

सुश्रान्तः अपि वहेत् भारं शीतोष्णं न च पश्यति ।
संतुष्ट: चरते नित्यं त्रीणि शिक्षेत् च गर्दभात् ।। 

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

२-१ क्रियापदम् “वहेत्” । “(गर्दभः) सुश्रान्तः अपि भारं वहेत्” इति प्रधान-वाक्यम् । अध्याहृतम् कर्तृपदम् “गर्दभः” । कर्मपदं “भारम्” ।२-२ क्रियापदम् “पश्यति” । “(गर्दभः) शीतोष्णं न च पश्यति” इति नकारात्मकं प्रधान-वाक्यम् । अध्याहृतम्  कर्तृपदम्  “गर्दभः” । कर्मपदं “शीतोष्णम्” ।

२-३ क्रियापदम् “चरते” । “(गर्दभः) नित्यं संतुष्ट: चरते च” इति प्रधान-वाक्यम् । अध्याहृतम्  कर्तृपदम्  “गर्दभः” । पूरकपदम् वा क्रियाविशेषणम् “संतुष्टः”

२-४ क्रियापदम् “शिक्षेत्” । (मनुजः) गर्दभात् त्रीणि शिक्षेत्” । इति प्रधान-वाक्यम् । अध्याहृतम् कर्तृपदम्  “मनुजः” । कर्मपदं “त्रीणि” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
३-१ सुश्रान्तः “सु + श्रम्” (= to do exhausting work)  इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “सुश्रान्त” (= exhausted by work) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२ अपि (= also, even if) इति अव्ययम् ।
३-३ वहेत् “वह्” १ उ (= to carry) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-४ भारम् “भार” (= load) इति  पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-५ शीतोष्णम् “शीतोष्ण” (= cold or hot) इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-५-१ शीतं वा ऊष्णं वा = शीतोष्णम् । समाहार-द्वन्द्वः ।
३-५-२ शीतम् “शीत” (= cold) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-५-३ ऊष्णम् “ऊष्ण” (= hot) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-६ न (= not) इति अव्ययम् ।
३-७ च (= and) इति अव्ययम् ।
३-८ पश्यति “दृश्” १ प (= to see) इति धातुः ।  तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
३-९ संतुष्ट: “सम् + तुष्” ४ प (= to be pleased) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “संतुष्ट” (= pleased, happy) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१० चरते “चर्” १ प (अत्र अपवादेन आत्मनेपदी) (= to move about) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
३-११ नित्यम् (= always) इति अव्ययम् ।
३-१२ त्रीणि “त्रि” (= three) इति संख्यावाचकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-१३ शिक्षेत् “शिक्ष्” १ आ (= to learn) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-१४ गर्दभात् “गर्दभ” (= an ass, donkey) इति पुल्लिङ्गि नाम । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।
४-१ (गर्दभः) सुश्रान्तः अपि भारं वहेत् । = A donkey keeps carrying loads even when exhausted
४-२ (गर्दभः) शीतोष्णं न च पश्यति । = It does not bother for heat or cold
४-३ (गर्दभः) नित्यं संतुष्ट: चरते च । = It seems to be always moving about happily
४-४ (मनुजः) गर्दभात् त्रीणि शिक्षेत् । = Man should learn three things from a donkey.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

सुश्रान्तो ऽ पि वहेद्भारम् । वर्णाः ८
२-२-२ १ १-२-२-२ इति मात्राः ।
शीतोष्णं न च पश्यति । वर्णाः ८
२-२-२ ११ २-१-(२) इति मात्राः ।
संतुष्टश्चरते नित्यं । वर्णाः ८
२-२-२-१-१-२ २-२ इति मात्राः ।
त्रीणि शिक्षेच्च गर्दभात् । वर्णाः ८
२-१ २-२-१ २-१-२ इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. There are very plain sentences and statements in the verse. 

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

This सुभाषितम् brings forth how one can learn even from an unrespected animal as a donkey. 

The moral also is stated very explicitly, except that the three things to be learnt need to be paraphrased.

– to persevere with hard work untiringly
– to have equanimity regardless of whether one has adversities or favourable situations
– to be happy and contented all the time


Exercise 8 Comments, Notes, Observations, if any.

टिप्पणयः ।
८-१ The verb वहेत् in the first sentence is in advisory mood, whereas पश्यति and चरते in the second and third sentences are in simple present. All three sentences refer to observations of behaviour of a donkey. Being observations, they all should have been in simple present.

८-२ The poet has taken liberty to use the verb चरते in आत्मनेपदम् Such liberties taken by poets are often explained away by saying निरङ्कुशाः कवयः ! Poets are not to be reined in by rules of grammar ! Just appreciate the thoughts and ideas being presented !

८-३ In श्रीमद्भगवद्गीता equanimity is advocated all across, right from “समदुःख-सुखम् धीरम् (२-१५) “सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ (२-३८) to “ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति (१८-५४)” The significance of the word “प्रसन्नात्मा” is exactly replicated in this सुभाषितम् in the line “संतुष्टश्चरते नित्यम्” !

८-४ Since a donkey qualifies the major advices in श्रीमद्भगवद्गीता is not a donkey’s conduct so much like that of a योगी ?!

शुभमस्तु ।

-o-O-o-

Learning Sanskrit by fresh approach – Lesson No. 86

Learning Sanskrit by fresh approach – Lesson No. 86
संस्कृतभाषायाः नूतनाध्ययनस्य षडशीतितमः (८६) पाठः ।

When concluding the previous lesson following सुभाषितम् was quoted –

योजनानां सहस्रं तु शनैर्गच्छेत्पिपीलिका ।
अगच्छन् वैनतेयो ऽ पि पदमेकं न गच्छति ।। 

Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् । 

योजनानां सहस्रं तु शनै: गच्छेत् पिपीलिका ।
अगच्छन् वैनतेय: अपि पदम् एकं न गच्छति ।। 

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

२-१ क्रियापदम् “गच्छेत् ” । पिपीलिका तु शनै: योजनानां सहस्रं गच्छेत् । कर्तृपदम् “पिपीलिका” । कर्मपदं (योजनानां) “सहस्रम्” ।

२-२ धातुसाधितम् “अगच्छन्” । “(यदि) अगच्छन्” इति गौण-वाक्यांशः । अध्याहृतम्  कर्तृपदम्  “वैनतेयः” ।

२-३ क्रियापदम् “गच्छति” । “वैनतेय: अपि (यदि) अगच्छन् एकं पदम् न गच्छति ” । नकारात्मकं प्रधान-वाक्यम् । कर्तृपदम्  “वैनतेयः” । कर्मपदं “पदम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
३-१ योजनानाम् “योजन” (= a measure of distance equal to four krosha’s क्रोश or eight or nine miles)  इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
३-२ सहस्रम् “सहस्र” (= one thousand) इति संख्यावाचकं विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-३ तु (= but, however) इति अव्ययम् ।
३-४ शनै: (= slowly) इति अव्ययम् ।
३-५ गच्छेत् “गम्” १ प. (= to go) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-६ पिपीलिका (= ant) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-७ अगच्छन् “अगच्छन्” (= not going) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-७-१ न गच्छन् = अगच्छन् । नञ्-तत्पुरुषः ।
३-७-२ गच्छन् “गम्” १ प. (= to go) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “गच्छन्” (= going, one who is on the go) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-८ वैनतेय: “वैनतेय” (= eagle, more specifically the king of birds, who also stands in attendance at the gates of palace of विष्णु) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-८-१ विनतायाः पुत्रः (son of VinatA) = वैनतेयः ।
३-८-२ विनतायाः “वि + नम्” १ प. (= to be respectful) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “विनत” । अत्र स्त्रीलिङ्गि “विनता” (= one, who is respectfully disposed) । (प्रायः  “विनता” इति स्त्रीलिङ्गि विशेषनाम कश्यपमुनेः भार्यायाः । तस्याः द्वौ पुत्रौ अरुणः च गरुडः च । Vinata is also the name of wife of Kashyapa-muni. AruNa and GaruDa are her sons.) । “विनता”-शब्दस्य  षष्ठी विभक्तिः एकवचनम् च ।

३-९ अपि (= also) इति अव्ययम् ।
३-१० पदम् “पद” (= step) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-११ एकम् “एक” (= one) इति संख्यावाचकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१२ न (= not) इति अव्ययम् ।
३-१३ गच्छति “गम्” १ प (= to go) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।
४-१ पिपीलिका तु शनै: योजनानां सहस्रं गच्छेत् । = (Even) an ant may traverse thousands of miles.
४-२ वैनतेय: अपि (यदि) अगच्छन् एकं पदम् न गच्छति । = (But) even an eagle would not move (even) one step, if it is not on the go, (if it does not move at all).

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

योजनानां सहस्रं तु । वर्णाः ८
२-१-२-२ १-२-२ (२) इति मात्राः ।
शनैर्गच्छेत्पिपीलिका । वर्णाः ८
१-२-२-२-१-२-१-२ इति मात्राः ।
अगच्छन्वैनतेयो ऽ पि । वर्णाः ८
१-२-२-२-१-२-२ (२) इति मात्राः ।
पदमेकं न गच्छति । वर्णाः ८
१-१-२-२ १ २-१-(२) इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. The verse is replete with three contrasts व्यत्यासाः – 

– ant and eagle
– distance of one step and thousands of miles
– (always) on the move and just not wanting to move

२, The moral is not stated explicitly. It is totally implicit and is yet very effectively conveyed. By that this सुभाषितम् is a good example of “suggestion” सूचनालङ्कारः ।

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

This सुभाषितम् also underscores the importance of industriousness and perseverance. 

Exercise 8 Comments, Notes, Observations, if any.
टिप्पणयः ।
८-१ The poet has very aptly used the example of an ant. In fact a tiny creature like an ant is an eminent example of industriousness ! Does one ever see an ant, just standing still ?

८-२ I often wonder whether genes of ants are always floating in the air ! If there is a grain of sugar inadvertently spilled where-ever, an ant appears to land there from nowhere !

८-३ Here we have three declensions of the verbal root “गम्” १ प (= to go) इति धातुः viz. गच्छेत् , (अ)गच्छन्, and गच्छति

  • ८-३-१ Another specialty of this verb is also to be noted.  “गम्” १ प (= to go) is an intransitive verb अकर्मकः धातुः । But in Sanskrit, the destination or place to be gone to, becomes an object कर्मपदम् of the verb and is hence in द्वितीया विभक्तिः

८-४ Industriousness means being active, being busy, always doing something or other. How aptly it is said in श्रीमद्भगवद्गीता –

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् (३-५)
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः (१८-११) 

But it is also said – 

कर्मणो ह्यपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः ।
अकर्मणश्च बोद्धव्यम् गहना कर्मणो गतिः ।।४-१७।। 

That prompts the ever-intriguing question “what is कर्म ?” For his commentary on श्रीमद्भगवद्गीता which he wrote when he was jailed by the British in Mandalay for six years, Lokamanya Tilak gave the title गीतारहस्य तथा कर्मयोगशास्त्र. By his thinking, it seems, entire श्रीमद्भगवद्गीता is an exposition of the theory of Action ! 

So, I was once trying to find out whether there is any ‘definition’ as such of कर्म in श्रीमद्भगवद्गीता. I notice that in the first श्लोक of eighth chapter Arjuna asks the question किम् तत् कर्म ? And the reply given by श्रीकृष्णभगवान् is –

भूतभावोद्भवकरो विसर्गः कर्म-संज्ञितः ।।८-३।। 

If this is the ‘definition’ of कर्म how does one paraphrase it without losing any of the full import of the statement ? 

शुभमस्तु ।

-o-O-o-