Learning Sanskrit by Fresh Approach – Lesson No. 110

Learning Sanskrit by Fresh Approach – Lesson No. 110
संस्कृतभाषायाः नूतनाध्ययनस्य दशाधिकशततमः (११०) पाठः ।

We shall continue with verses सुभाषितानि 12 to 14 having हंसः the swan as the main theme and compiled in a chapter in the textbook for कोविद – examination of the सरल-संस्कृत-शिक्षा-series of भारतीय-विद्या-भवन. The three सुभाषितानि 12 to 14 are as follows –

कस्त्वं लोहितलोचनास्यचरणः हंसः कुतो मानसात् । किं तत्रास्ति सुवर्णपङ्कजवनान्यंभः सुधासन्निभम् ।

रत्नानां निचयाः प्रवालमणयो वैदूर्यरोहाः क्वचित् । शम्बूका अपि सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ।।१२।।

काके कार्ष्ण्यमलौकिकं  धवलिमा हंसे निसर्गस्थिता । गाम्भीर्ये महदन्तरं वचसि यो भेदः स किं कथ्यते ।

एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते । के काकाः खलु के च हंसशिशवो देशाय तस्मै नमः ।।१३।।

क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयम् । ये नोज्झन्ति पुरीषपुष्टवपुषस्ते केचिदन्ये द्विजाः ।

ये तु स्वर्गतरंगिणीबिसलतालेशेन संवर्धिता । गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ।।१४।।

Now, taking them one by one –

Verse (12)
कस्त्वं लोहितलोचनास्यचरणः हंसः कुतो मानसात् । किं तत्रास्ति सुवर्णपङ्कजवनान्यंभः सुधासन्निभम् ।

रत्नानां निचयाः प्रवालमणयो वैदूर्यरोहाः क्वचित् । शम्बूका अपि सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ।।१२।।

संधिविच्छेदान्कृत्वा – कः त्वं लोहितलोचन असि अचरणः हंसः कुतः मानसात् । किं तत्र अस्ति सुवर्णपङ्कजवनानि अंभः सुधासन्निभम् ।
रत्नानां निचयाः प्रवालमणयः वैदूर्यरोहाः क्वचित् । शम्बूकाः अपि सन्ति न इति च बकैः आकर्ण्य हीहीकृतम् ।।१२।।

Dr. Avinash Sathaye very kindly advises an alternative संधिविच्छेद of लोहितलोचनास्यचरणः as लोहित – लोचन +आस्य+चरणः
अन्वयेन –

  1. लोहितलोचन, अचरणः त्वं कः असि ? (अहं) हंसः (अस्मि) । = Eh, you red-eyed one, who are you, that has no legs ? I am a swan.
    • The question is asked by cranes, who want to demean the swan. That is why they address him as red-eyed one, one, who has no legs (so, a lame one)
    • Usually when a swan swims, its legs are not seen. In contrast cranes have long, stick-like legs.
    • By the alternate संधिविच्छेद as लोहित – लोचन +आस्य+चरणः the paraphrasing will be – कः त्वं लोहित – लोचन +आस्य+चरणः ? meaning, “Who are you, someone with red eyes, red face and red feet ? Note, आस्य = face.
  2. कुतः (आगतः असि) ? मानसात् (आगतः अस्मि) । = Where-from have you come ? From the Manasa.
  3. किं तत्र अस्ति ?= What is there  ?
  4. सुधासन्निभम् अंभः (अस्ति) = There is water, which is clean (nourishing) like nectar
    • सुधा means nectar as also milk. सन्निभ means “having shine as of”. So सुधासन्निभ seems to more refer to the looks than quality.
    • सुवर्णपङ्कजवनानि (सन्ति) = There are hordes of golden lotuses.
    • रत्नानां निचयाः प्रवालमणयः क्वचित् वैदूर्यरोहाः (सन्ति) = There are treasures of jewels, coral beads, as also trees that grow in Vidura mountains.
  5. (किं तत्र) शम्बूकाः अपि च सन्ति ? = Are there also conch-shells or snails ?
    • Conch-shells and snails are more to be found near a sea-shore and not at a lake.
  6. न इति आकर्ण्य = On getting ‘No’ as answer
  7. बकैः हीहीकृतम् । = cranes chided at the swan, “hey, hey hey, hey, sssss !

Notes –

  1. The cranes, usually more in number than swans, were bent upon making fun of the swan, out of their jealousy about the grace of a swan. So, they went on asking questions, until they got “No” as the answer. Having got such answer, they chided at the swan.
  2. Alternative संधिविच्छेद of लोहितलोचनास्यचरणः as लोहित – लोचन +आस्य+चरणः brings forth लोहित-आस्य (= red-faced). Being red-faced is an idiom in English meaning one, who has become ashamed. The poet of this verse also wants the cranes to make the swan feel ashamed, red-faced !
  3. हीहीकृतम् is an interesting word, right ? The verbal root is हीहीकृ derived by using हीही as prefix to the root कृ.
  4. The meter of this verse (as also of the next two) is शार्दूलविक्रीडितम् (लक्षणपदम् –  सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्) – 19 syllables per quarter and having गण-s, म, स, ज, स, त, त, ग.
  5. The chiding by the cranes brings to mind another सुभाषितम् – गुणी गुणं वेत्ति न वेत्ति निर्गुणः People devoid of character cannot appreciate character. Only people of character can appreciate character of others.
  6. This verse also brings to mind another सुभाषितम्, a question-answer dialogue between Shiva and Parvati. That सुभाषितम् is in मन्दाक्रान्ता  meter, but starts with कस्त्वं…

Verse 13
काके कार्ष्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थिता । गाम्भीर्ये महदन्तरं वचसि यो भेदः स किं कथ्यते ।

एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते । के काकाः खलु के च हंसशिशवो देशाय तस्मै नमः ।।१३।।

संधिविच्छेदान्कृत्वा – काके कार्ष्ण्यम् अलौकिकं  धवलिमा हंसे निसर्गस्थिता । गाम्भीर्ये महत् अन्तरं वचसि यः भेदः सः किं कथ्यते ।
एतावत्सु विशेषणेषु अपि सखे यत्र इदम् आलोक्यते । के काकाः खलु के च हंसशिशवः देशाय तस्मै नमः ।।१३।।
अन्वयेन –

  1. काके अलौकिकं कार्ष्ण्यम् (अस्ति), हंसे धवलिमा निसर्गस्थिता (अस्ति) = Crows have unique darkness. Whiteness of swans is natural.
  2. (हंसस्य) गाम्भीर्ये (काकस्य) वचसि महत् अन्तरं (अस्ति) । = Serenity (of swans) and prattle (of crows) make a big difference.
  3. यः (एतद्विधः) भेदः सः किं कथ्यते ? = What to say of these differences ?
  4. सखे एतावत्सु विशेषणेषु (सत्सु) अपि यत्र “के काकाः खलु के च हंसशिशवः” इदम् आलोक्यते, तस्मै देशाय नमः । = Friend there being these differences, if there is a place, where people keep wondering, “which are crows and which are ducklings of swans ?”, I would only offer obeisances to such a place.

Notes –

  1. There is obvious pun in “.. I would only offer obeisances to such a place ..” People at such place certainly do not have even minimal intelligence. There is a सुभाषितम्, which details, places, where one should not linger even for a little while. I think, that सुभाषितम् will also make an interesting study.
  2. This verse is more about a place, where people do not have even minimal intelligence. Swans and crows are excuses to detail such place. There are different figures of speech here, such as उपरोध, अन्योक्ति, etc.
  3. The word कार्ष्ण्यम् (= darkness) is derived from कृष्ण, meaning black or dark.
    • The letter र्ष्ण्य has many consonants combined – र् ष् ण् य् the sound becoming complete with the vowel अ. How many maximum number of consonants can combine together to make one composite syllabic instant (pronunciation) ?
  4. When saying गाम्भीर्ये वचसि the poet has smartly left implicit words to be understood as (हंसस्य) गाम्भीर्ये (काकस्य) वचसि
  5. एतावत्सु विशेषणेषु (सत्सु) (= there being these differences or there being these distinct characteristics) is सति-सप्तमी, which is a specialty of संस्कृत-constructs.
  6. The poet has thought it fit to use passive voice both at सः किं कथ्यते and इदम् आलोक्यते.
    • There again, the verb आलोक्यते is from धातु “लोक्”, which is not found in common use. It has inflections both by भ्वादि (1 गण), चुरादि (10 गण). Meaning is identical – लोकृ दर्शने (लोक् = to see).
    • Meaning of लोक् is identical and sound is so close to that of English verb ‘to look’.
    • With prefix आ, आलोक्  means ‘to look askance’, i.e. ‘to be not sure of what one is looking at’. There is no such prefix for ‘look’ in English.

Verse 14
क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयम् । ये नोज्झन्ति पुरीषपुष्टवपुषस्ते केचिदन्ये द्विजाः ।
ये तु स्वर्गतरंगिणीबिसलतालेशेन संवर्धिता । गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ।।१४।।
संधिविच्छेदान्कृत्वा –
क्रुद्ध-उलूक-नख-प्रपातविगलत्

पक्षाः अपि स्व-आश्रयम् । ये न उज्झन्ति पुरीष-पुष्ट-वपुषः ते केचित् अन्ये द्विजाः ।
ये तु स्वर्ग-तरंगिणी-बिस-लता-लेशेन संवर्धिताः । गाङ्गं नीरम् अपि त्यजन्ति कलुषं ते राजहंसाः वयम् ।।१४।।

अन्वयाः शब्दानां विश्लेषणानि च –

  1. ये पुरीष-पुष्ट-वपुषः क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः अपि स्व-आश्रयम् न उज्झन्ति, ते केचित् अन्ये द्विजाः (सन्ति) ।
    • पुरीष-पुष्ट-वपुषः = पुरीषेण पुष्टा वपुः येषां ते (बहुव्रीहिः)
      • पुरीषेण – पुरीष (= dirt, filthy matter, fece, excretion) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।
      • पुष्टा – “पुष्” इति दिवादि (4) तथा क्र्यादि (9) परस्मैपदी धातुः । पुष पुष्टौ (पुष् = to nourish) । तस्मात् क्त-कृदन्तं विशेषणम् । अत्र स्त्रीलिङ्गि “पुष्टा” (= fattened) ।
      • वपुः – “वपुस्” (= body) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
      • पुरीष-पुष्ट-वपुषः – “पुरीष-पुष्ट-वपुस्” इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
      • पुरीष-पुष्ट-वपुषः = those whose bodies have fattened by eating filthy things.
    • क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः = क्रुद्धस्य उलूकस्य नखानां प्रपातैः विगलन्तौ पक्षौ येषां ते (बहुव्रीहिः)
      • क्रुद्धस्य – “क्रुध्” इति दिवादि (4) परस्मैपदी धातुः । क्रुध क्रोधे (कोपे) (क्रुध् = to get angry) । तस्मात् क्त-कृदन्तं विशेषणम् “क्रुद्ध” (= angered) । अत्र पुंल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनं च ।
      • उलूकस्य – “उलूक” (= owl) इति पुंल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
      • नखानां – “नख” (= nail) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
      • प्रपातैः – “प्र + पत्” इति भ्वादि (1) धातुः । पत्लृ गतौ (पत् = to fall) । तस्य प्रयोजकात् (= to hit) पुंल्लिङ्गि नाम “प्रपात” (= stroke) । तस्य तृतीया विभक्तिः बहुवचनं च ।
      • विगलन्तौ – “वि + गल्” इति चुरादि (10) धातुः । गल स्रवणे (गल् = to bleed) । तस्मात् शतृ-प्रत्ययेन विशेषणम् “विगलत्” (= bleeding) । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः द्विवचनं च ।
      • पक्षौ – “पक्ष” (= wing) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः द्विवचनं च ।
      • क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः – “क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्ष” इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
      • क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः = those, whose wings are bleeding from strokes by nails of angered owls.
  2. Overall meaning of – ये पुरीष-पुष्ट-वपुषः क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः अपि स्व-आश्रयम् न उज्झन्ति, ते केचित् अन्ये द्विजाः (सन्ति) = Those would be some other birds, who, fattened by devouring filthy matter, would not leave their abode, even when bleeding due to strokes of nails of angered owls.
  3. ये तु स्वर्ग-तरंगिणी-बिस-लता-लेशेन संवर्धिताः, कलुषं गाङ्गं नीरम् अपि त्यजन्ति, ते वयम् राजहंसाः (स्मः) ।
    • स्वर्ग-तरंगिणी-बिस-लता-लेशेन = स्वर्गे (स्थितानां) तरंगिणीनाम् बिसानां लतायाः लेशेन
    • स्वर्गे = in the heavens
    • (स्थितानां) = obtained
    • तरंगिणीनाम् – तरंगिणी (= floating, floating causing gentle waves) । तस्य षष्ठी विभक्तिः बहुवचनं च ।
    • बिसानां – बिस (= stalk of a lotus) । तस्य षष्ठी विभक्तिः बहुवचनं च ।
    • लतायाः – लता (= creeper) । तस्य षष्ठी विभक्तिः एकवचनं च ।
    • लेशेन – लेश (= particle, small, tender portion) । तस्य तृतीया विभक्तिः एकवचनं च ।
  4. Overall meaning of – ये तु स्वर्ग-तरंगिणी-बिस-लता-लेशेन संवर्धिताः, कलुषं गाङ्गं नीरम् अपि त्यजन्ति, ते वयम् राजहंसाः (स्मः) । We are such princely swans, who, nurtured by small tender portions of creeping stalks of lotuses, floating in heavenly waters, would forsake even water of (holy) Ganges, if it is dirty.

Notes –

  1. One reason for growing incidence of obesity is said to be junk food. In this verse also, reference is made to “fattening” due to eating filthy matter.
    • This brings to mind the verse in श्रीमद्भगवद्गीता – यातयामं गतरसं पूतिपर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।। 17 -10 ।। It is a good, crisp specification of what should be considered as तामस diet.
  2. In the second line, taking the pretext of the princely swans, the poet seems to have announced a caution, that waters of Ganges should not be blindly respected as being holy and hence good for any purpose. The princely swans would forsake water of (holy) Ganges also, if it is dirty.

शुभमस्तु ।

-o-O-o-

Learning Sanskrit by Fresh Approach – Lesson No. 109

Learning Sanskrit by Fresh Approach – Lesson No. 109
संस्कृतभाषायाः नूतनाध्ययनस्य नवाधिकशततमः (१०९) पाठः ।

We shall continue with verses सुभाषितानि 8 to 11 having हंसः the swan as the main theme and compiled in a chapter in the textbook for कोविद – examination of the सरल-संस्कृत-शिक्षा-series of भारतीय-विद्या-भवन.

अम्भोजिनीवनविहारविलासमेव । हंसस्य हन्ति नितरां कुपितो विधाता । न त्वस्य दुग्धजलभेदविधौ प्रसिद्धाम् । वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ।।८।।
संधिविच्छेदान्कृत्वा – अम्भोजिनीवनविहारविलासम् एव । हंसस्य हन्ति नितरां कुपितः विधाता । न तु अस्य दुग्धजलभेदविधौ प्रसिद्धाम् । वैदग्ध्यकीर्तिम् अपहर्तुम् असौ समर्थः ।।८।।
अन्वयेन – (यद्यपि) कुपितः विधाता हंसस्य अम्भोजिनीवनविहारविलासम् एव नितरां हन्ति (तथापि) अस्य दुग्धजलभेदविधौ प्रसिद्धाम् वैदग्ध्यकीर्तिम् अपहर्तुम् तु असौ समर्थः  न ।
Translation – Providence when upset with a swan may affect the swan’s enjoyment in (swimming in) a crowd of lotuses. But (the providence) cannot take away the famous faculty of the swans to separate milk and water.

Notes –

  1. अम्भोजिनीवनविहारविलासम् is an interesting compound word having 12 letters
    • The word has four components – अम्भोजिनी-वन-विहार-विलासम्
      • अम्भोजिनीनां वनम् = अम्भोजिनीवनम् (षष्ठी-तत्पुरुषः)
        • अम्भोजिनी is feminine of अम्भोज
        • अम्भोज is itself a compound word अम्भसि जायते इति (what grows in water, especially the lotus) अम्भोजम् (ज = जायते इति उपपदम्) । अतः उपपद-तत्पुरुषः अत्र ।
      • अम्भोजिनीवने विहारः = अम्भोजिनीवनविहारः (सप्तमी-तत्पुरुषः)
      • अम्भोजिनीवनविहारः एव विलासः = अम्भोजिनीवनविहारविलासः (कर्मधारयः) –>तम् इति अम्भोजिनीवनविहारविलासम् (द्वितीया विभक्तिः एकवचनम् च ।)
  2. अम्भोजिनीवनविहारविलासमेव (१४ वर्णाः २-२-१-२-१-१-१-२-१-१-२-१-२-(२) = त, भ, ज, ज, ग, ग इति गणाः ) । हंसस्य हन्ति नितरां कुपितो विधाता (१४ वर्णाः २-२-१ २-१ १-१-२ १-१-२ १-२-२ = त, भ, ज, ज, ग, ग इति गणाः) । न त्वस्य दुग्धजलभेदविधौ प्रसिद्धाम् । वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ।
    • अत्र वसन्ततिलका-वृत्तम् । अस्य लक्षणपदम् – उक्ता वसंततिलका तभजा जगौ गः ।
  3. The poet has thought it fit to repeat the meaning of fame in two words कीर्ति and प्रसिद्धा.
  4. Overall moral of the सुभाषितम् seems to be that inborn faculties are forever. One should focus on such faculties. 
    • Even God is incapable of taking away inborn faculties अपहर्तुम् असौ समर्थः  न.
    • In modern management parlance also, to focus on “core strengths” is advocated to be a good corporate strategy for growth.
    • I had read long time back a story. One person set up a saw-mill. That succeeded. Then he went on setting up saw-mill after saw-mill. Once his friend asked him, “if you want to expand your business, there would be many other investment options also. Why do you go on setting up saw-mill after saw-mill ?” The saw-mill owner however replied, “I know this business of saw-mills the best.”
—verse 8—

भृङ्गाङ्गनाजनमनोहरहारिनीत- । राजीवरेणुकणकीर्णपिशङ्गतोयाम् । रम्यां हिमाचलनदीं प्रविहाय हंस । हे हे हताश वद कां दिशमुत्सुकोऽसि ।।९।।
संधिविच्छेदान्कृत्वा – भृङ्ग-अङ्गना-जन-मनो-हर-हारि-नीत-राजीव-रेणु-कण-कीर्ण-पिशङ्ग-तोयाम् । रम्यां हिमाचलनदीं प्रविहाय हंस । हे हे हताश वद कां दिशम् उत्सुकः असि ।।९।।
अन्वयेन – हे हे हताश हंस, वद, भृङ्ग-अङ्गना-जन-मनो-हर-हारि-नीत-राजीव-रेणु-कण-कीर्ण-पिशङ्ग-तोयाम् रम्यां हिमाचलनदीं प्रविहाय कां (अन्यां) दिशम् (गन्तुं) उत्सुकः असि ?
Before proceeding with translation of the verse, one must decipher the meaning of the long word – भृङ्ग-अङ्गना-जन-मनो-हर-हारि-नीत-राजीव-रेणु-कण-कीर्ण-पिशङ्ग-तोयाम् = अयं निम्नमिव त्रयोदशपदी सामासिकः शब्दः (This compound word has 13 components as follows.) The word is spread across two quarters of the verse. Rather, two quarters of the verse are made up by a single word having (14*2 = 28 letters).

  1. भृङ्ग = Honey bee
  2. अङ्गना = female
  3. जन = people
  4. मनो = mind
  5. हर = to extract
  6. हारि = extracting
  7. नीत = (past passive participle) carried
  8. राजीव = blue lotus flower
  9. रेणु = pollen of flowers
  10. कण = particle
  11. कीर्ण = strewn
  12. पिशङ्ग = brackish
  13. तोयाम् = तोया = तोयं अस्याः (एवं पिशङ्गम्) अस्ति –> ताम्
With above meanings of all the component words, there is still some challenge to write विग्रह-s to relate all components with each other. I wonder whether it is easier to work by parts.
  • राजीव-रेणु-कण-कीर्ण-पिशङ्ग-तोया = (River) that has its water become brackish due to the pollen of blue lotus flowers strewn
  • हारि-नीत = (the pollen) extracted and carried by
  • जन-मनो-हर = extracting the minds of people, enchanting the minds of people, pleasing to people
  • भृङ्ग-अङ्गना = female of honey-bee
  • By putting together the meanings by parts, one gets
    • (River) that has its water become brackish due to the pollen extracted, carried and strewn, by female(s) of honey-bee, from blue lotus flowers, which (are) pleasing to people
    • In deriving this meaning of भृङ्ग-अङ्गना-जन-मनो-हर-हारि-नीत-राजीव-रेणु-कण-कीर्ण-पिशङ्ग-तोया, I have indulged in some transposition of words and phrases from their order in the meanings of parts.
      • The part हारि-नीत is more closely connected with भृङ्ग-अङ्गना than with जन-मनो-हर and
      • राजीव is better connected with जन-मनो-हर than with हारि-नीत.
    • I hope, this transposition is okay.

Actually swans can be found only in lakes, that is in placid waters, not in flowing waters as of rivers. There again, rivers such as Brahmaputra in Himalayan region have large downfalls प्रपात-s. How can swans be there in such waters ? Even when granting that poets can fancy even impracticable ideas, highly twisted and complex composition and highly impracticable ideas make the verse unpalatable in my opinion. There is no great moral either implicit in the verse.

—verse 9—

हंसः प्रयाति शनकैर्यदि यातु तस्य । नैसर्गिकी गतिरियं न हि तत्र चित्रम् । गत्या तया जिगमिषुर्बक एक मूढः । चेतो दुनोति सकलस्य जनस्य नूनम् ।।१०।।
संधिविच्छेदान्कृत्वा – हंसः प्रयाति शनकैः यदि यातु तस्य । नैसर्गिकी गतिः इयं न हि तत्र चित्रम् । गत्या तया जिगमिषुः बकः एकः मूढः । चेतः दुनोति सकलस्य जनस्य नूनम् ।।१०।।
अन्वयेन – यदि हंसः शनकैः प्रयाति, यातु । इयं तस्य नैसर्गिकी गतिः । न हि तत्र चित्रम् । तया गत्या जिगमिषुः एकः मूढः बकः सकलस्य जनस्य चेतः दुनोति नूनम् ।।१०।।
Translation – If a swan goes quietly (slowly), let him do so. That is his natural way. Nothing unusual (or surprising) there. A foolish crane wanting to go in the same manner as the swan disturbs (unnecessarily distracts) people, really.
Notes –

  1. हंसः प्रयाति शनकैर्यदि यातु तस्य (१४ वर्णाः २-२ १-२-१ १-१-२-१-१ २-१ २-(२) = त, भ, ज, ज, ग, ग इति गणाः ) । Here also, as in verse #8, the meter is वसन्ततिलका-वृत्तम् ।
  2. Two words are interesting – जिगमिषुः and दुनोति.
    1. जिगमिषुः – The derivation is गन्तुं इच्छा जिगमिषा । जिगमिषा यस्य सः जिगमिषुः ।
    2. दुनोति – दु इति स्वादि (५) अनिट् परस्मैपदी धातुः । टुदु उपतापे (दु = To cause trouble, to disturb, to distract) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
  3. This brings to mind the श्लोक in श्रीमद्भगवद्गीता – श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ।।३-३५।। It would be dangerous भयावह for the crane to emulate the swan, because some person annoyed by the unwarranted behaviour of the crane wanting to emulate the swan, may want to hurl a stone at the crane, wanting to drive the crane away and in turn, the crane may suffer harm.
—verse 10—

भुक्ता मृणालपटली भवता निपीता- । न्यम्बूनि यत्र नलिनानि निषेवितानि । हे राजहंस वद तस्य सरोवरस्य । कृत्येन केन भवितासि कृतोपकारः ।।११।।
संधिविच्छेदान्कृत्वा – भुक्ता मृणालपटली भवता निपीतानि अम्बूनि यत्र नलिनानि निषेवितानि । हे राजहंस वद तस्य सरोवरस्य । कृत्येन केन भविता असि कृत-उपकारः ।।११।।
अन्वयेन – हे राजहंस वद यत्र भवता मृणालपटली भुक्ता, अम्बूनि निपीतानि, नलिनानि निषेवितानि, तस्य सरोवरस्य केन कृत्येन कृत-उपकारः भविता असि ।।११।।
Translation –

  1. Hey swan, tell (me) by what action have you obliged that lake, (such that) there you enjoyed eating the lotus-roots, drank the waters and enjoyed the company of lotuses ? or
  2. Hey swan, tell (me) by what action would you (return) the obligations of that lake, where you enjoyed eating the lotus-roots, drank the waters and enjoyed the company of lotuses ?

Notes –

  1. The word कृत-उपकारः can be deciphered both as कृतः उपकारः येन सः (तृतीया-बहुव्रीहिः) अथवा कृतः उपकारः यस्मै सः (चतुर्थी-बहुव्रीहिः) These options, I believe, would lend two translation-options as ‘you obliged that lake’ or ‘you would return the obligations of that lake’.
  2. The word भविता also has two grammatical connotations –
    1. भविता = third person singular in luT-future tense (लुट्-भविष्यत् भू-धातोः) of verbal root भू. Hence the meaning ‘You would be one, who did the obligations कृत-उपकारः = कृतः उपकारः येन सः
    2. भविता = “भवितृ” (= one, who is about to become or one, who would become) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् ।
  3. The word मृणालपटली is a compound word having components मृणाल and पटली. मृणाल = root of lotus पटली = a collection. Hence मृणालपटली = a collection of roots of lotuses.
  4. भुक्ता मृणालपटली भवता निपीता (१४ वर्णाः २-२ १-२-१-१-१-२ १-१-२ १-२-२ = त, भ, ज, ज, ग, ग इति गणाः ) । Here also, as in verses 8 and 10, the meter is वसन्ततिलका-वृत्तम् ।
    1. The word निपीतान्यम्बूनि ends at निपीता- in the first quarter and continues as न्यम्बूनि in the second quarter.
    2. When doing संधि-विच्छेद it has to be treated as one word निपीतान्यम्बूनि and then be split as निपीतानि अम्बूनि
  5. The poet seems to be envying the enjoyments of the swan, that the swan enjoys all of the lake, without returning any of the obligations. But lakes and swans seem to be mutually graceful. Swans get all the enjoyments, the lakes are more graceful because of the swans. As has been said in verse #7, not having swans is a loss for the lake. हानिस्तु तेषां हि सरोवराणां । येषां मरालैः सह विप्रयोगः ।।
  6. Such mutual grace mutual dependence between Godhood and devotee is beautifully brought out in the श्लोक in श्रीमद्भगवद्गीता – देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।।३-११।।
  7. From another standpoint, swans being provided with all the enjoyments by the lakes are just a way of Nature’s gracefulness. There was a beautiful poem in the text-book for परिचय-exam of भारतीय-विद्या-भवन. The theme-line of the poem was “ससर्ज क्षेमाय नृणां विधाता”. One verse there reads – लतासु पुष्पाणि वनेषु वृक्षान् । फलानि वृक्षेषु फलेषु सारम् । पुष्पेषु रूपं गन्धं च शोभनम् । ससर्ज क्षेमाय नृणां विधाता ।। The Creator has just been graceful and kind to humanity that He created flowers on creepers and trees in jungles, fruits on trees, juices in fruits, beauty in flowers and also fragrance in flowers. (Shall we add, by taking clue from this verse # 11) The Creator has just been graceful and kind to humanity that He created swans to adorn the lakes !
  8. Let us just be thankful to Him and not do harm to anything that He has created !!

—verse 11—

शुभमस्तु ।

-o-O-o-

Learning Sanskrit by Fresh Approach – Lesson No. 108

Learning Sanskrit by Fresh Approach – Lesson No. 108
संस्कृतभाषायाः नूतनाध्ययनस्य अष्टाधिकशततमः (१०८) पाठः ।

Continuing with सुभाषितानि having हंसः the swan as the main theme and compiled in a chapter in the textbook for कोविद – examination of the सरल-संस्कृत-शिक्षा-series of भारतीय-विद्या-भवन, there the सुभाषितानि 5, 6 and 7 are as follows.

नीर-क्षीर-विवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वेऽस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः ।।५।।
संधिविच्छेदान्कृत्वा – नीर-क्षीर-विवेके हंस आलस्यं त्वम् एव तनुषे चेत् । विश्वे अस्मिन् अधुना अन्यः कुलव्रतं पालयिष्यति कः ।।५।।
अन्वयेन – हंस, नीर-क्षीर-विवेके त्वम् एव आलस्यं तनुषे चेत्, अधुना अस्मिन् विश्वे कः अन्यः कुलव्रतं पालयिष्यति ।
Translation – Oh Swan ! If you yourself become lazy at separating water from milk, now in today’s world who else will follow one’s family-traditions ?
Notes –

  1. The meter here is आर्या. अस्य लक्षणपदम् – यस्याः पादे प्रथमे द्वादश मात्रा तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ।।
    • नीर-क्षीर-विवेके (२-२-२-१-१-२-२ = १२) । हंसालस्यं त्वमेव तनुषे चेत् (२-२-२-२ १-२-१ १-१-२ २ = १८) । विश्वेऽस्मिन्नधुनान्यः (२-२-२-१-१-२-२ = १२) । कुलव्रतं पालयिष्यति कः (१-२-१-२ २-१-२-१-१ २ = १५) ।
  2. Taking the pretext of a hypothetical instance of a swan choosing not to go by its capability to distinguish between milk and water, the poet seems to endorse the importance of one abiding by one’s inborn character.
  3. I am a bit intrigued by the verb तनुषे. The form is present tense, second person, singular from धातु ‘तन्’. Here तनुषे is from तनादि (८) आत्मनेपदी । तनु विस्तारे (तन् = to expand, to spread, to stretch). I have translated त्वम् एव आलस्यं तनुषे चेत् as “If you yourself become lazy”.
    • The धातु ‘तन्’ is actually उभयपदी. It seems the poet has wantonly chosen the आत्मनेपदी form because आत्मनेपदी implies reflection unto oneself. Note, आत्मने = unto oneself.
    • Literally the translation would be ‘if you spread laziness unto oneself’. Now, yawning is a reflex action of laziness. And there is a ‘spread’ in yawning. Also one may stretch one’s arms and maybe, also legs when yawning. That stretch of the arms and legs is also a spread, a stretch तनु विस्तारे !
    • Using the choicest of verbs and in आत्मनेपदी is poetic brilliance !
    • My intrigue was also because of the part तनु in तनुषे. तनु means body. That prompted me to think of तनुषे to also mean embodying laziness, when translating त्वम् एव आलस्यं तनुषे चेत् as “If you yourself become lazy” implying ‘if you embody laziness’ or ‘if you adopt laziness’.

गाङ्गमम्बु सितमम्बु यामुनं । कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता । चीयते न च न चापचीयते ।।६।।
संधिविच्छेदान्कृत्वा – गाङ्गम्-अम्बु सितम्-अम्बु यामुनं । कज्जलाभम् उभयत्र मज्जतः । राजहंस तव सा एव शुभ्रता । चीयते न च न च अपचीयते ।।६।।
अन्वयेन – गाङ्गम्-अम्बु सितम्-अम्बु (भवति), यामुनं कज्जलाभम् ((भवति) । राजहंस उभयत्र मज्जतः तव शुभ्रता सा एव (भवति) । (तव शुभ्रता) न चीयते च न अपचीयते च ।
Translation – Hey swan, whether you may swim in the fresh, clear water of the Ganges or in blackish water of Yamuna, your whiteness neither grows nor does it diminish.
Notes –

  1. Meter here is रथोद्धता – अस्य लक्षणपदम् “रात्परैनरलगै रथोद्धता ।”
    • गाङ्गमम्बु सितमम्बु यामुनं (२-१-२-१ १-१-२-१ २-१-२ इति ११ वर्णाः र, न, र, ल, ग इति गणाः) । कज्जलाभमुभयत्र मज्जतः (२-१-२-१-१-१-२-१ २-१-२ इति ११ वर्णाः र, न, र, ल, ग इति गणाः) । राजहंस तव सैव शुभ्रता । चीयते न च न चापचीयते ।।
  2. Most सुभाषितानि with swan as the theme seem to emphasize basic ‘characteristics would not change or should not change.’
  3. The sound ज्ज in the second quarter and the fourth quarter चीयते न च न चापचीयते have some onomatopoeia.

यत्रापि कुत्रापि भवन्ति हंसाः । हंसा महीमण्डलमण्डलानि । हानिस्तु तेषां हि सरोवराणाम् । येषां मरालैः सह विप्रयोगः ।।७।।
संधिविच्छेदान्कृत्वा – यत्र अपि कुत्र अपि भवन्ति हंसाः । हंसाः  महीमण्डलमण्डलानि । हानिः तु तेषां हि सरोवराणाम् । येषां मरालैः सह विप्रयोगः ।।७।।
अन्वयेन – यत्र अपि कुत्र अपि हंसाः भवन्ति, हंसाः  महीमण्डलमण्डलानि (भवन्ति) । येषां सरोवराणाम् मरालैः सह विप्रयोगः (भवति) तेषां तु हानिः हि ।
Translation – Wherever the swans be, they adorn the place. If any lake is not congenial to swans, it is a loss only to the lake.
Notes –

  1. विप्रयोगः seems to be an interesting word coined and used here to connote non-congeniality.
  2. The meter here is इन्द्रवज्रा अस्य लक्षणपदम् – स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
    • यत्रापि कुत्रापि भवन्ति हंसाः (२-२-१ २-२-१ १-२-१ २-२) इति ११ वर्णाः त, त, ज, ग, ग इति गणाः । हंसा महीमण्डलमण्डलानि (२-२ १-२-२-१-१-२-१-२-(२) इति ११ वर्णाः त, त, ज, ग, ग इति गणाः । हानिस्तु तेषां हि सरोवराणाम् (२-२-१ २-२-१ १-२-१-२-२ इति ११ वर्णाः त, त, ज, ग, ग इति गणाः । येषां मरालैः सह विप्रयोग (२-२ १-२-२ १-१२-१-२-२ इति ११ वर्णाः त, त, ज, ग, ग इति गणाः) ।

शुभमस्तु ।

-o-O-o-

Learning Sanskrit by Fresh Approach – Lesson No. 107

Learning Sanskrit by Fresh Approach – Lesson No. 107
संस्कृतभाषायाः नूतनाध्ययनस्य सप्ताधिकशततमः (१०७) पाठः ।

Continuing with सुभाषितानि having हंसः the swan as the main theme and compiled in a chapter in the textbook for कोविद – examination of the सरल-संस्कृत-शिक्षा-series of भारतीय-विद्या-भवन, there the सुभाषितानि 1 to 4 are as follows.

अस्ति यद्यपि सर्वत्र । नीरं नीरज-मण्डितम् । रमते न मरालस्य । मानसं मानसं विना ।।१।।
संधिविच्छेदान्कृत्वा – अस्ति यदि अपि सर्वत्र । नीरं नीरज-मण्डितम् । रमते न मरालस्य । मानसं मानसं विना ।।१।।
अन्वयेन – नीरज-मण्डितम् नीरं यदि अपि सर्वत्र अस्ति, मरालस्य मानसं मानसं विना न रमते ।
Translation – Even if water full of lotuses be there everywhere, mind of a swan is not joyous except in the मानस-lake.
Notes –

  1. मरालः = हंसः Is this quoted also in अमरकोश ?
  2. The meter here is the commonplace अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
  3. Here the words नीर नीरज coming in close succession make some sort of onomatopoeia. In the phrase मानसं मानसं विना there is some onomatopoeia and also some pun on the word मानस.

एकेन राजहंसेन । या शोभा सरसो भवेत् । न सा बकसहस्रेण । परितस्तीरवासिना ।।२।।
संधिविच्छेदान्कृत्वा – एकेन राजहंसेन । या शोभा सरसः भवेत् । न सा बकसहस्रेण । परितः-तीरवासिना ।।२।।
अन्वयेन – एकेन राजहंसेन या शोभा सरसः भवेत्, सा परितः-तीरवासिना बकसहस्रेण न (भवति) ।
Translation – What beauty a lake will have due to (but) one swan, that beauty the lake will not have even if it is surrounded all-around the perimeter by thousands of cranes.
Notes –

  1. The meter here is the commonplace अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
  2. This सुभाषितम् brings to mind a Hindi proverb सौ सुनारकी एक लुहारकी This proverb is in a way the moral of this सुभाषितम्.

अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य । कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ।।३।।
संधिविच्छेदान्कृत्वा – अपसरणम् एव शरणं मौनं वा तत्र राजहंसस्य । कटु रटति निकटवर्ती वाचाटः टिट्टिभः यत्र ।।३।।
अन्वयेन – यत्र वाचाटः निकटवर्ती टिट्टिभः कटु रटति, तत्र राजहंसस्य अपसरणम् एव शरणं वा मौनं (एव शरणं) ।
Translation – Where a prattling टिट्टिभ is making bad noise at close quarters, a swan should either draw away from such place or should keep quiet.
Moral – One should always keep a discretion about the audience whether to speak or not to speak and also keep a discretion whether the environment is congenial to linger or not.
Notes –

  1. This brings to mind another सुभाषितम् “कोलाहले काककुलस्य जाते विराजते कोकिलकूजितं किम्”, meaning, “If there are crows crowing all over, will the cooing of a cuckoo be ever heard ?
  2. In Apte’s dictionary टिट्टिभः is detailed only as a kind of a bird. It seems, it is that bird which chirps टिट् टिट्, hence got the name as टिट्टिभ. In Marathi we know of a bird known as टिटवी. Maybe टिट्टिभः and टिटवी are Sanskrit and Marathi names for the same bird.
  3. The meter here is आर्या. अस्य लक्षणपदम् – यस्याः पादे प्रथमे द्वादश मात्रा तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ।।
    • अपसरणमेव शरणं (१-१-१-१-१-२-१ १-१-२ = १२) । मौनं वा तत्र राजहंसस्य ( २-२ २ २-१ २-१-२-२-(२) = १८) । कटु रटति निकटवर्ती (१-१ १-१-१ १-१-१-२-२ = १२)  वाचाटष्टिट्टिभो यत्र (२-२-२-२-२-२ २-१ = १५) ।।
  4. One can notice some onomatopoeia with the sound ट in the third and fourth lines.
  5. The word शरणं is used here with some idiomatic meaning as “refuge” or “step to be resorted to”.

यदि नाम दैवगत्या जगदसरोजं कदाचिदपि जातम् । अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसाः ।।४।।
संधिविच्छेदान्कृत्वा – यदि नाम दैवगत्या जगत् असरोजं कदाचित् अपि जातम् । अवकरनिकरं विकिरति तत् किं कृकवाकुः इव हंसाः ।।४।।
अन्वयेन – यदि नाम दैवगत्या जगत् कदाचित् अपि असरोजं जातम् (भवति), तत् किं हंसाः कृकवाकुः इव अवकरनिकरं विकिरति ।
Translation – If by providence the world becomes devoid of any lotuses, will the swans lament in the tone of a cock ?
Notes –

  1. The meter here also is आर्या अस्य लक्षणपदम् – यस्याः पादे प्रथमे द्वादश मात्रा तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ।।
    • यदि नाम दैवगत्या (१-१-२-१-२-१-२-२= १२) । जगदसरोजं कदाचिदपि जातम् (१-१-१-१-२-२ १-२-१-१-१ २-२ = १८) । अवकरनिकरं विकिरति (१-१-१-१-१-१-२ १-१-१-१ = १२) । तत्किं कृकवाकुरिव हंसाः (२-२ १-१-२-१-१-१ २-२ = १५) ।
  2. The third and fourth lines have some onomatopoeia of the sound क, the sound occurring as many as 7 times among 21 letters in these lines.
  3. अवकरनिकरं is a compound word having components अवकर and निकर. Both components are nouns derived from the धातु कृ, अव + कृ and नि + कृ. Interpreting these component words becomes really an exercise in interpreting influence of prefixes on the meaning of the resultant word.
    • Influence of prefixes on the meaning is well-stated in the verse उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहार-संहार-विहार-परिहार वत् ।।
    • Here अवकर would mean unwarranted happening and निकर would mean speaking about it. I have summarized that as ‘to lament’.
  4. Basically fancy of a world without lotuses can occur only to a poetic mind. In Hindi there is a proverb जो न देखे रवि सो देखे कवि A poet sees, what the sun would not.
  5. The word सरोज is a compound word, having components सरस् and ज. There is a synonym सरसिज. Components here also are the same, सरस् and ज.
    • In सरोज the components सरस् and ज are joined by a संधि. सरस् + ज = सरः + ज = सरोज
    • In सरसिज, the component सरसि is seventh case singular of सरस्. Since the declined form is retained the type of this समास is अलुक्.

शुभमस्तु ।

-o-O-o-

Learning Sanskrit by Fresh Approach – Lesson No. 106

Learning Sanskrit by Fresh Approach – Lesson No. 106
संस्कृतभाषायाः नूतनाध्ययनस्य षडधिकशततमः (१०६) पाठः ।

In the textbook for कोविद – examination of the सरल-संस्कृत-शिक्षा-series of भारतीय-विद्या-भवन there is a chapter on हंसः The Swan. In the chapter there are 14 verses, which are sort of सुभाषितानि. I know one more, which will make as many as 15 सुभाषितानि with the swan as the main theme. As many as 15 सुभाषितानि on हंसः The Swan, as the theme !
I shall start with the one, I know. It is possibly the simplest one in the lot.

हंसः श्वेतः बकः श्वेतः । को भेदो बकहंसयोः । नीर-क्षीर-विवेके तु । हंसो हंसः बको बकः ।।
संधिविच्छेदान्कृत्वा – हंसः श्वेतः बकः श्वेतः । कः भेदः बकहंसयोः । नीर-क्षीर-विवेके तु । हंसः हंसः बकः बकः ।।
अन्वयेन – हंसः श्वेतः (अस्ति) । बकः श्वेतः (अस्ति) । कः भेदः (अस्ति) बकहंसयोः ? नीर-क्षीर-विवेके तु हंसः हंसः (अस्ति), बकः बकः (अस्ति) ।
Translation – A swan is white, a crane is white. What (then) is the difference between a swan and a crane ? In distinguishing between (or, in separating) water and milk a swan is a swan, a crane is a crane.
Moral – Every creature is endowed with some special characteristics. For example, swans are supposed to be endowed with the characteristics of distinguishing between (or, in separating) water and milk.
Notes – The implied moral that every creature is endowed with some special characteristics, brings to mind the common misconception about castes practised in Hindu society.

  1. It seems that one aspect of Arjun’s confusion at the beginning of the war was also related to such misconception which is evident in his argument दोषैरेतैर्कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ।।१-४३।। Study of this shloka is detailed at http://study1geetaa2sanskrit.wordpress.com/2011/03/23/learning-together-sanskrit-and-geeta-chapter-1-verses-40-to-44-post-23/ It seems that Arjuna had some misconceptions arising from not distinguishing between the concepts of वर्ण and जाति. That is why he alludes in one breath both वर्णसङ्कर and जातिधर्म.
  2. The concept of वर्ण is clearly explained in चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः (४-१३). The system of चातुर्वर्ण्य has for its basis the considerations of only the special skills गुण inherent in every individual and the kind of jobs or tasks कर्म-s he should be doing.
  3. This is further detailed in ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।।१८-४१।। Yes, there is clear mention here of all the four वर्ण-s, ब्राह्मण-s, क्षत्रिय-s, विश-s and शूद्र-s. It is to be noted however, that the basic purpose of the system of चातुर्वर्ण्य is to systematize division of labour, distribution of work – कर्माणि प्रविभक्तानि. The purpose was never one of division of society. The considerations behind division of labour also were only the special skills inherent in every individual स्वभावप्रभवैर्गुणैः.
  4. Possibly the most important message of गीता is श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्. I consider this as the most important message because it is this single line which occurs without any change at two places, first in 3-35 and again in 18-47. The message is that one needs to understand oneself and undertake such tasks, which are appropriate to one’s inherent skill-sets. This implies that everyone is endowed with some special skill-sets. Most of us do not understand ourselves, the skills, we are endowed with. Philosophy of गीता is the philosophy of self-realization, which philosophers also call as philosophy of God-realization, realizing the Godhood residing in us. Godhood in each of us is different, because Godhood means special skills and each one of us is endowed with unique special skills. One aspect of realizing Godhood is realizing those special skills inherent within us.

शुभमस्तु ।

-o-O-o-

Learning Sanskrit by Fresh Approach – Lesson No. 105

Learning Sanskrit by Fresh Approach – Lesson No. 105
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चाधिकशततमः (१०५) पाठः ।

My friend श्रीमान् राजगोपालन् शेषाद्रि wants to know the location of the following श्लोक in वाल्मीकि-रामायणम्. Finding the location is one aspect. But as a student, the श्लोक makes an interesting study by itself. Here it is –
देहबुद्ध्या तु दासोऽस्मि, जीवबुद्ध्या त्वदंशकः ।

आत्मबुद्ध्या त्वमेवाहं इति मे निश्चिता मतिः ।।

१ संधि-विच्छेदान् कृत्वा –

देहबुद्ध्या तु दासः अस्मि, जीवबुद्ध्या त्वत्-अंशकः ।

आत्मबुद्ध्या त्वम् एव अहम् इति मे निश्चिता मतिः ।।

१-१ अत्र सन्धयः
१-१-१ दासोऽस्मि = दासः अस्मि (विसर्ग-संधिः)

१-१-२ त्वदंशकः = त्वत्-अंशकः (व्यञ्जन-संधिः)

१-१-३ त्वमेवाहं = त्वम् एव अहम्

१-१-३-१ त्वम् एव = त्वमेव (व्यञ्जन-संधिः)
१-१-३-२ त्वमेव + अहम् = त्वमेवाहम् (स्वर-संधिः)

२ अन्वयाः –
२-१ देहबुद्ध्या तु (अहम्) दासः अस्मि ।
२-२ जीवबुद्ध्या (अहम्) त्वदंशकः (अस्मि) ।
२-३ आत्मबुद्ध्या अहम् त्वम् एव (अस्मि) ।

२-४ इति मे निश्चिता मतिः (अस्ति) ।

३ वाक्यांशानां विश्लेषणानि Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,
इतरे शब्दाः
क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
(अहम्) दासः देहबुद्ध्या तु अस्मि प्रधान: / गौणः
(अहम्) त्वदंशकः जीवबुद्ध्या (अस्मि) प्रधान: / गौणः
अहम् त्वम् एव आत्मबुद्ध्या (अस्मि) प्रधान: / गौणः
इति मे मतिः निश्चिता (अस्ति) प्रधान:

When reading independently, clauses 1, 2, 3 stand out to be प्रधान-वाक्यांश-s. But the conjunction इति in clause 4 make these clauses 1, 2, 3 to be गौण-s.

समासानां विग्रहा: शब्दानां व्युत्पत्त्यः विश्लेषणानि च –

देहबुद्ध्या तु (अहम्) दासः अस्मि

१ देहबुद्ध्या – “देहबुद्धि” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

  • १-१ देहस्य बुद्धिः इति देहबुद्धिः (षष्ठी-तत्पुरुषः)
  • १-२ देहस्य – “देह” (= body) इति पुंल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १-३ बुद्धिः – “बुध्” इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “बुद्धि” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • १-३-१ “बुध्” इति भ्वादि (१) सेट् उभयपदी धातुः । बुधिर् बोधने (बुध् = to be advised)
    • १-३-२ “बुध्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । बुध अवगमने (बुध् = to understand, to know, to realize)
    • १-३-३ बुद्धिः = advice, understanding, knowledge, intellect, realization, consciousness
  • १-४ देहबुद्धिः = knowledge of body, existential consciousness

२ तु (= just, however, but) अव्ययम् ।

३ अहम् – “अस्मद्” (= pronoun of first person, I, we) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

४ दासः – “दास” (= servant) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

५ अस्मि – “अस्” इति धातुः । अत्र अदादि (२) सेट् परस्मैपदी । अस भुवि (अस् = to be, to exist) । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।

जीवबुद्ध्या (अहम्) त्वदंशकः (अस्मि) ।

६ जीवबुद्ध्या – “जीवबुद्धि” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

  • ६-१ जीवस्य बुद्धिः इति जीवबुद्धिः (षष्ठी-तत्पुरुषः) ।
  • ६-२ जीवस्य – “जीव्” इति भ्वादि (१) सेट् परस्मैपदी धातुः । जीव प्राणधारणे (जीव् = to live, to be alive) । तस्मात् पुंल्लिङ्गि नाम “जीव” (= what gives liveliness to a living being) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६-३ जीवबुद्धिः = metaphysical consciousness

७ त्वदंशकः – “त्वदंशक” इति तद्धितं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ७-१ त्वत् + अंशकः = तव अंशकः
  • ७-२ त्वत् (तव) – “युष्मद्” इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ७-३ अंशकः – “अंशक” इति तद्धितं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ७-३-१ अंशक = अंश + क
    • ७-३-२ अंश = part,
    • ७-३-३ क – लघुवाचकं विकरणम् यथा बालः बालकः ।
    • ७-३-४ अंशकः = particle
  • ७-४ त्वदंशकः = a particle of yours

आत्मबुद्ध्या अहम् त्वम् एव (अस्मि) ।

८ आत्मबुद्ध्या – “आत्मबुद्धि” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

  • ८-१ आत्मनः बुद्धिः आत्मबुद्धिः (षष्ठी-तत्पुरुषः) ।
  • ८-२ आत्मनः – “आत्मन्” (= the soul) इति पुंल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ८-३ आत्मबुद्धिः = the spiritual consciousness

९ त्वम् – “युष्मद्” (= pronoun of second person, you) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१० एव (= only) इति अव्ययम् ।

इति मे निश्चिता मतिः (अस्ति) ।

११ इति (= such) अव्ययम् ।

१२ मे – “अस्मद्” (= pronoun of first person, I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

१३ निश्चिता – “निः + चित्” इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् । अत्र स्त्रीलिङ्गि “निश्चिता” । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १३-१ चित् इति भ्वादि सेट् परस्मैपदी धातुः । चिती सञ्ज्ञाने (चित् = to know comprehensively, to understand comprehensively, to realize comprehensively) ।
  • १३-२ चित् इति चुरादि सेट् आत्मनेपदी धातुः । चित सचेतने (चित् = to bring to consciousness) ।
  • १३-३ निश्चिता = borne unto (by) conviction

१४ मतिः – “मन्” इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “मति” । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १४-१ मन् इति दिवादि (४) अनिट् आत्मनेपदी धातुः । मन ज्ञाने (मन् = to know) ।
  • १४-२ मन् इति तनादि (८) सेट् आत्मनेपदी धातुः । मनु अवबोधने (मन् = to realize, to consider, to understand) ।
  • १४-३ मन् इति चुरादि (१०) सेट् आत्मनेपदी धातुः ।मान स्तम्भे (मन् = to muse) ।
  • १४-४ मतिः = knowledge, realization, opinion, conclusion from thinking

१५ अस्ति – “अस्” इति धातुः । अत्र अदादि (२) सेट् परस्मैपदी । अस भुवि (अस् = to be, to exist) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

५ अनुवादाः English Translations

२-१ देहबुद्ध्या तु (अहम्) दासः अस्मि । = In terms of existential consciousness, I am your servant.
२-२ जीवबुद्ध्या (अहम्) त्वदंशकः (अस्मि) । = By metaphysical consciousness, I am but a particle of you.
२-३ आत्मबुद्ध्या अहम् त्वम् एव (अस्मि) । = By spiritual consciousness, I am you only.
२-४ इति मे निश्चिता मतिः (अस्ति) । = Such is my conviction.

अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ? (In what meter is this verse composed ?)

देहबुद्ध्या तु दासोऽस्मि । (वर्णाः ८)

जीवबुद्ध्या त्वदंशकः । (वर्णाः ८)
आत्मबुद्ध्या त्वमेवाहं । (वर्णाः ८)

इति मे निश्चिता मतिः ।। (वर्णाः ८)

अत्र अनुष्टुभ्-छन्दः एव । तस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

टिप्पण्य: Comments, Notes, Observations, if any.

७-१ When searching on the internet, I got the hint that this श्लोक has the context of first meeting between Shrirama and Hanuman. So it should be in किष्किन्धाकाण्ड. But I could not locate it. May be, I ran over it without noticing it. But the श्लोक is interesting for the depth of philosophical thought.

७-२ The three words देहबुद्ध्या, जीवबुद्ध्या and आत्मबुद्ध्या connote three levels of consciousness – existential, metaphysical and spiritual.

  • I suspect whether etymologically the word देह is derived from the धातु दिह् (दिह् उपचये = to aggregate, to accumulate, to form an entity). In turn देहबुद्धि would mean existential consciousness.
  • In philosophy जीव is mentioned as one part of the pair of जीव-शिव. Possibly the pairs आत्मा-परमात्मा, प्रकृति-पुरुष ईश-भक्त connote the same metaphysical concept. Hence जीवबुद्धि would mean metaphysical consciousness.
  • आत्मबुद्धि is then the most exalted level of consciousness, the spiritual consciousness.
  • My friend Shri, Rajagopalan Sheshadri has advanced another beautiful perception.
    • He suggests that देहबुद्धि connotes the philosophy of dualism द्वैतवाद. In this instance, श्रीराम and हनूमान are talking to each other as two distinct entities.
    • जीवबुद्धि would then connote philosophy of monoism अद्वैतवाद. An element of Godhood being present within the devotee.
    • And आत्मबुद्धि would connote विशिष्टाद्वैतवाद. “I am you only”, (not just a particle of you) त्वमेवाहम् as हनूमान says here !
      • This brings to mind the महावाक्यानि such as “अहं ब्रह्मास्मि”, “सोऽहमस्मि”. One can also appreciate why these are महावाक्यानि !
      • “…Be still and know that ‘I am God’..” says a Psalm.
      • Only an exalted spiritual attainment would give one the capability to say so, right ?
    • Considering the appeal in this logic, the three philosophical arguments or schools of thought would seem to be just three levels of consciousness. They then need not be considered as conflicting each other. Has महर्षि वाल्मीकि in a way resolved the three arguments in one go ?

७-३ Should we not be indebted to महर्षि वाल्मीकि for putting forth such a profound philosophical thought ?

७-४ That is the joy of gain of enlightenment by learning संस्कृत.

शुभमस्तु ।

-o-O-o-