This सुभाषितम् (YouTube video #24) at <https://youtu.be/DfGwvt_a474> outlines a scheme for study of Sanskrit texts
पदच्छेदः पदार्थोक्तिर्-
विग्रहो वाक्ययोजना ।
आक्षेपस्य समाधानम्
व्याख्यानं पञ्चलक्षणम् ॥
पदच्छेदैः – पद-छेदः पदार्थ-उक्तिः विग्रहः वाक्य-योजना आक्षेपस्य समाधानम् व्याख्यानम् पञ्च-लक्षणम्
अव्ययानि – नैकमप्यव्ययमत्र
तिङन्ताः – नैकमपि तिङन्तमत्र
कृदन्ताः – नैकमपि कृदन्तमत्र
सुबन्ताः –
(१) विग्रहः विग्रह deciphering पुँ.१’१
(२) आक्षेपस्य आक्षेप Objection पुँ. ६’१
(३) समाधानम् satisfaction नपुं. १’१
(४) व्याख्यानम् delineation, study नपुं. १’१
तद्धिताः – नैकमपि तद्धितमत्र
समासाः – (१) पदच्छेदः पदानां छेदः (षष्ठी-तत्पुरुषः) |
पदानाम् पद <A complete or inflected word> नपुं. ६’३ |
छेदः छेद A cut, segregation पुँ. १’१ | पदच्छेदः segregation of words
(२) पदार्थोक्तिः (पद-अर्थ-उक्तिः) पदस्य अर्थः पदार्थः (षष्ठी-तत्पुरुषः) | पदार्थस्य उक्तिः पदार्थोक्तिः (षष्ठी-तत्पुरुषः) | अर्थः meaning पदार्थः meaning of the word | उक्तिः saying, putting forth पदार्थोक्तिः putting forth meaning of word(s)
(३) वाक्ययोजना वाक्यस्य योजना (षष्ठी-तत्पुरुषः) | वाक्यस्य वाक्य नपुं. Sentence ६’१ | योजना composing वाक्ययोजना composing sentence(s)
(४) पञ्चलक्षणम् पञ्च लक्षणानि यस्य तत् (द्विग्वन्वितः बहुव्रीहिः) | पञ्च वि. Five लक्षणानि लक्षण aspect नपुं. १’३ पञ्चलक्षणम् having five aspects
अन्वयार्थाः – Because नैकमपि तिङन्तमत्र नैकमपि कृदन्तमत्र we have to compose the sentence(s) ourselves by appropriate supplements.
(१) (यतः) पदच्छेदः (अस्ति) पदार्थोक्तिः (अस्ति) विग्रहः (अस्ति) वाक्य-योजना (अस्ति) आक्षेपस्य समाधानम् (अस्ति) Since there is segregation of words, meanings of words, deciphering (of compound words), composition of sentence(s) and arguments and explanations
(२) (अतः) व्याख्यानम् पञ्च-लक्षणम् (भवति) Hence
Delineation, textual study has five aspects or characteristics.
छन्दोविश्लेषणम् –
श्लोकेऽस्मिन् अष्टाक्षरपादाः quarters of 8 letters each.
पञ्चम-षष्ठ-सप्तमाक्षराणि पदार्थो १२२ क्ययोज १२१ समाधा १२२ ञ्चलक्ष १२१ । अनुष्टुभ्-वृत्तमिदम् !
Notes टिप्पण्यः –
(१) This सुभाषितम् is virtually a diktat for study of any Sanskrit text. Our studies also conform to this diktat. Rather, at the second step of पदार्थोक्तिः we are also studying grammar of every पद. Hence we identify अव्ययानि, तिङन्ताः, कृदन्ताः, सुबन्ताः. We do all this because we want to study not only the सुभाषितम्, but also the Sanskrit, its grammatical and linguistic aspects.
(२) Our विग्रहाः of समासाः includes study of grammar of every पद of समासाः also.
(३) Our अन्वयार्थाः step is वाक्ययोजना.
(४) Note आक्षेपस्य समाधानम् need not mean answering objections raised by somebody else. Our own doubts, our own curiosities are also आक्षेपाः and merit their समाधानम्
We have curiosity about छन्दोविश्लेषणम्. Our study extends still further in our Notes टिप्पण्यः.
(५) What is getting composed is a पञ्च-लक्षणम् व्याख्यानम् of every सुभाषितम् !
इति शुभम् ।
-o-O-o-