Learning Sanskrit by Fresh Approach – Lesson No. 110

Learning Sanskrit by Fresh Approach – Lesson No. 110
संस्कृतभाषायाः नूतनाध्ययनस्य दशाधिकशततमः (११०) पाठः ।

We shall continue with verses सुभाषितानि 12 to 14 having हंसः the swan as the main theme and compiled in a chapter in the textbook for कोविद – examination of the सरल-संस्कृत-शिक्षा-series of भारतीय-विद्या-भवन. The three सुभाषितानि 12 to 14 are as follows –

कस्त्वं लोहितलोचनास्यचरणः हंसः कुतो मानसात् । किं तत्रास्ति सुवर्णपङ्कजवनान्यंभः सुधासन्निभम् ।

रत्नानां निचयाः प्रवालमणयो वैदूर्यरोहाः क्वचित् । शम्बूका अपि सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ।।१२।।

काके कार्ष्ण्यमलौकिकं  धवलिमा हंसे निसर्गस्थिता । गाम्भीर्ये महदन्तरं वचसि यो भेदः स किं कथ्यते ।

एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते । के काकाः खलु के च हंसशिशवो देशाय तस्मै नमः ।।१३।।

क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयम् । ये नोज्झन्ति पुरीषपुष्टवपुषस्ते केचिदन्ये द्विजाः ।

ये तु स्वर्गतरंगिणीबिसलतालेशेन संवर्धिता । गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ।।१४।।

Now, taking them one by one –

Verse (12)
कस्त्वं लोहितलोचनास्यचरणः हंसः कुतो मानसात् । किं तत्रास्ति सुवर्णपङ्कजवनान्यंभः सुधासन्निभम् ।

रत्नानां निचयाः प्रवालमणयो वैदूर्यरोहाः क्वचित् । शम्बूका अपि सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ।।१२।।

संधिविच्छेदान्कृत्वा – कः त्वं लोहितलोचन असि अचरणः हंसः कुतः मानसात् । किं तत्र अस्ति सुवर्णपङ्कजवनानि अंभः सुधासन्निभम् ।
रत्नानां निचयाः प्रवालमणयः वैदूर्यरोहाः क्वचित् । शम्बूकाः अपि सन्ति न इति च बकैः आकर्ण्य हीहीकृतम् ।।१२।।

Dr. Avinash Sathaye very kindly advises an alternative संधिविच्छेद of लोहितलोचनास्यचरणः as लोहित – लोचन +आस्य+चरणः
अन्वयेन –

  1. लोहितलोचन, अचरणः त्वं कः असि ? (अहं) हंसः (अस्मि) । = Eh, you red-eyed one, who are you, that has no legs ? I am a swan.
    • The question is asked by cranes, who want to demean the swan. That is why they address him as red-eyed one, one, who has no legs (so, a lame one)
    • Usually when a swan swims, its legs are not seen. In contrast cranes have long, stick-like legs.
    • By the alternate संधिविच्छेद as लोहित – लोचन +आस्य+चरणः the paraphrasing will be – कः त्वं लोहित – लोचन +आस्य+चरणः ? meaning, “Who are you, someone with red eyes, red face and red feet ? Note, आस्य = face.
  2. कुतः (आगतः असि) ? मानसात् (आगतः अस्मि) । = Where-from have you come ? From the Manasa.
  3. किं तत्र अस्ति ?= What is there  ?
  4. सुधासन्निभम् अंभः (अस्ति) = There is water, which is clean (nourishing) like nectar
    • सुधा means nectar as also milk. सन्निभ means “having shine as of”. So सुधासन्निभ seems to more refer to the looks than quality.
    • सुवर्णपङ्कजवनानि (सन्ति) = There are hordes of golden lotuses.
    • रत्नानां निचयाः प्रवालमणयः क्वचित् वैदूर्यरोहाः (सन्ति) = There are treasures of jewels, coral beads, as also trees that grow in Vidura mountains.
  5. (किं तत्र) शम्बूकाः अपि च सन्ति ? = Are there also conch-shells or snails ?
    • Conch-shells and snails are more to be found near a sea-shore and not at a lake.
  6. न इति आकर्ण्य = On getting ‘No’ as answer
  7. बकैः हीहीकृतम् । = cranes chided at the swan, “hey, hey hey, hey, sssss !

Notes –

  1. The cranes, usually more in number than swans, were bent upon making fun of the swan, out of their jealousy about the grace of a swan. So, they went on asking questions, until they got “No” as the answer. Having got such answer, they chided at the swan.
  2. Alternative संधिविच्छेद of लोहितलोचनास्यचरणः as लोहित – लोचन +आस्य+चरणः brings forth लोहित-आस्य (= red-faced). Being red-faced is an idiom in English meaning one, who has become ashamed. The poet of this verse also wants the cranes to make the swan feel ashamed, red-faced !
  3. हीहीकृतम् is an interesting word, right ? The verbal root is हीहीकृ derived by using हीही as prefix to the root कृ.
  4. The meter of this verse (as also of the next two) is शार्दूलविक्रीडितम् (लक्षणपदम् –  सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्) – 19 syllables per quarter and having गण-s, म, स, ज, स, त, त, ग.
  5. The chiding by the cranes brings to mind another सुभाषितम् – गुणी गुणं वेत्ति न वेत्ति निर्गुणः People devoid of character cannot appreciate character. Only people of character can appreciate character of others.
  6. This verse also brings to mind another सुभाषितम्, a question-answer dialogue between Shiva and Parvati. That सुभाषितम् is in मन्दाक्रान्ता  meter, but starts with कस्त्वं…

Verse 13
काके कार्ष्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थिता । गाम्भीर्ये महदन्तरं वचसि यो भेदः स किं कथ्यते ।

एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते । के काकाः खलु के च हंसशिशवो देशाय तस्मै नमः ।।१३।।

संधिविच्छेदान्कृत्वा – काके कार्ष्ण्यम् अलौकिकं  धवलिमा हंसे निसर्गस्थिता । गाम्भीर्ये महत् अन्तरं वचसि यः भेदः सः किं कथ्यते ।
एतावत्सु विशेषणेषु अपि सखे यत्र इदम् आलोक्यते । के काकाः खलु के च हंसशिशवः देशाय तस्मै नमः ।।१३।।
अन्वयेन –

  1. काके अलौकिकं कार्ष्ण्यम् (अस्ति), हंसे धवलिमा निसर्गस्थिता (अस्ति) = Crows have unique darkness. Whiteness of swans is natural.
  2. (हंसस्य) गाम्भीर्ये (काकस्य) वचसि महत् अन्तरं (अस्ति) । = Serenity (of swans) and prattle (of crows) make a big difference.
  3. यः (एतद्विधः) भेदः सः किं कथ्यते ? = What to say of these differences ?
  4. सखे एतावत्सु विशेषणेषु (सत्सु) अपि यत्र “के काकाः खलु के च हंसशिशवः” इदम् आलोक्यते, तस्मै देशाय नमः । = Friend there being these differences, if there is a place, where people keep wondering, “which are crows and which are ducklings of swans ?”, I would only offer obeisances to such a place.

Notes –

  1. There is obvious pun in “.. I would only offer obeisances to such a place ..” People at such place certainly do not have even minimal intelligence. There is a सुभाषितम्, which details, places, where one should not linger even for a little while. I think, that सुभाषितम् will also make an interesting study.
  2. This verse is more about a place, where people do not have even minimal intelligence. Swans and crows are excuses to detail such place. There are different figures of speech here, such as उपरोध, अन्योक्ति, etc.
  3. The word कार्ष्ण्यम् (= darkness) is derived from कृष्ण, meaning black or dark.
    • The letter र्ष्ण्य has many consonants combined – र् ष् ण् य् the sound becoming complete with the vowel अ. How many maximum number of consonants can combine together to make one composite syllabic instant (pronunciation) ?
  4. When saying गाम्भीर्ये वचसि the poet has smartly left implicit words to be understood as (हंसस्य) गाम्भीर्ये (काकस्य) वचसि
  5. एतावत्सु विशेषणेषु (सत्सु) (= there being these differences or there being these distinct characteristics) is सति-सप्तमी, which is a specialty of संस्कृत-constructs.
  6. The poet has thought it fit to use passive voice both at सः किं कथ्यते and इदम् आलोक्यते.
    • There again, the verb आलोक्यते is from धातु “लोक्”, which is not found in common use. It has inflections both by भ्वादि (1 गण), चुरादि (10 गण). Meaning is identical – लोकृ दर्शने (लोक् = to see).
    • Meaning of लोक् is identical and sound is so close to that of English verb ‘to look’.
    • With prefix आ, आलोक्  means ‘to look askance’, i.e. ‘to be not sure of what one is looking at’. There is no such prefix for ‘look’ in English.

Verse 14
क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयम् । ये नोज्झन्ति पुरीषपुष्टवपुषस्ते केचिदन्ये द्विजाः ।
ये तु स्वर्गतरंगिणीबिसलतालेशेन संवर्धिता । गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ।।१४।।
संधिविच्छेदान्कृत्वा –
क्रुद्ध-उलूक-नख-प्रपातविगलत्

पक्षाः अपि स्व-आश्रयम् । ये न उज्झन्ति पुरीष-पुष्ट-वपुषः ते केचित् अन्ये द्विजाः ।
ये तु स्वर्ग-तरंगिणी-बिस-लता-लेशेन संवर्धिताः । गाङ्गं नीरम् अपि त्यजन्ति कलुषं ते राजहंसाः वयम् ।।१४।।

अन्वयाः शब्दानां विश्लेषणानि च –

  1. ये पुरीष-पुष्ट-वपुषः क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः अपि स्व-आश्रयम् न उज्झन्ति, ते केचित् अन्ये द्विजाः (सन्ति) ।
    • पुरीष-पुष्ट-वपुषः = पुरीषेण पुष्टा वपुः येषां ते (बहुव्रीहिः)
      • पुरीषेण – पुरीष (= dirt, filthy matter, fece, excretion) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।
      • पुष्टा – “पुष्” इति दिवादि (4) तथा क्र्यादि (9) परस्मैपदी धातुः । पुष पुष्टौ (पुष् = to nourish) । तस्मात् क्त-कृदन्तं विशेषणम् । अत्र स्त्रीलिङ्गि “पुष्टा” (= fattened) ।
      • वपुः – “वपुस्” (= body) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
      • पुरीष-पुष्ट-वपुषः – “पुरीष-पुष्ट-वपुस्” इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
      • पुरीष-पुष्ट-वपुषः = those whose bodies have fattened by eating filthy things.
    • क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः = क्रुद्धस्य उलूकस्य नखानां प्रपातैः विगलन्तौ पक्षौ येषां ते (बहुव्रीहिः)
      • क्रुद्धस्य – “क्रुध्” इति दिवादि (4) परस्मैपदी धातुः । क्रुध क्रोधे (कोपे) (क्रुध् = to get angry) । तस्मात् क्त-कृदन्तं विशेषणम् “क्रुद्ध” (= angered) । अत्र पुंल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनं च ।
      • उलूकस्य – “उलूक” (= owl) इति पुंल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
      • नखानां – “नख” (= nail) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
      • प्रपातैः – “प्र + पत्” इति भ्वादि (1) धातुः । पत्लृ गतौ (पत् = to fall) । तस्य प्रयोजकात् (= to hit) पुंल्लिङ्गि नाम “प्रपात” (= stroke) । तस्य तृतीया विभक्तिः बहुवचनं च ।
      • विगलन्तौ – “वि + गल्” इति चुरादि (10) धातुः । गल स्रवणे (गल् = to bleed) । तस्मात् शतृ-प्रत्ययेन विशेषणम् “विगलत्” (= bleeding) । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः द्विवचनं च ।
      • पक्षौ – “पक्ष” (= wing) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः द्विवचनं च ।
      • क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः – “क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्ष” इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
      • क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः = those, whose wings are bleeding from strokes by nails of angered owls.
  2. Overall meaning of – ये पुरीष-पुष्ट-वपुषः क्रुद्ध-उलूक-नख-प्रपातविगलत्पक्षाः अपि स्व-आश्रयम् न उज्झन्ति, ते केचित् अन्ये द्विजाः (सन्ति) = Those would be some other birds, who, fattened by devouring filthy matter, would not leave their abode, even when bleeding due to strokes of nails of angered owls.
  3. ये तु स्वर्ग-तरंगिणी-बिस-लता-लेशेन संवर्धिताः, कलुषं गाङ्गं नीरम् अपि त्यजन्ति, ते वयम् राजहंसाः (स्मः) ।
    • स्वर्ग-तरंगिणी-बिस-लता-लेशेन = स्वर्गे (स्थितानां) तरंगिणीनाम् बिसानां लतायाः लेशेन
    • स्वर्गे = in the heavens
    • (स्थितानां) = obtained
    • तरंगिणीनाम् – तरंगिणी (= floating, floating causing gentle waves) । तस्य षष्ठी विभक्तिः बहुवचनं च ।
    • बिसानां – बिस (= stalk of a lotus) । तस्य षष्ठी विभक्तिः बहुवचनं च ।
    • लतायाः – लता (= creeper) । तस्य षष्ठी विभक्तिः एकवचनं च ।
    • लेशेन – लेश (= particle, small, tender portion) । तस्य तृतीया विभक्तिः एकवचनं च ।
  4. Overall meaning of – ये तु स्वर्ग-तरंगिणी-बिस-लता-लेशेन संवर्धिताः, कलुषं गाङ्गं नीरम् अपि त्यजन्ति, ते वयम् राजहंसाः (स्मः) । We are such princely swans, who, nurtured by small tender portions of creeping stalks of lotuses, floating in heavenly waters, would forsake even water of (holy) Ganges, if it is dirty.

Notes –

  1. One reason for growing incidence of obesity is said to be junk food. In this verse also, reference is made to “fattening” due to eating filthy matter.
    • This brings to mind the verse in श्रीमद्भगवद्गीता – यातयामं गतरसं पूतिपर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।। 17 -10 ।। It is a good, crisp specification of what should be considered as तामस diet.
  2. In the second line, taking the pretext of the princely swans, the poet seems to have announced a caution, that waters of Ganges should not be blindly respected as being holy and hence good for any purpose. The princely swans would forsake water of (holy) Ganges also, if it is dirty.

शुभमस्तु ।

-o-O-o-

6 thoughts on “Learning Sanskrit by Fresh Approach – Lesson No. 110

  1. लोहितलोचन, अचरणः त्वं कः असि ? (अहं) हंसः (अस्मि) । = Eh, you red-eyed one, who are you, that has no legs ? I am a swan.
    The question is asked by cranes, who want to demean the swan. That is why they address him as red-eyed one, one, who has no legs (so, a lame one)
    Usually when a swan swims, his legs are are not seen.

    Good comment.

    But it is a राजहंस and the description in the address by the cranes, to the stranger among them makes sense.
    These swans are usually reside in मानस, and राजहंस-s have red beak and legs a.

    मानसौकसः ( २. ४. ४८९)
    राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ( २. ४. ४९०)

    Hence I don’t think the splitting लोहित-लोचन+असि+अचरणः is needed and the single compound itself describes the stranger Who are with red eye, beak and legs. (whom we know it is राजहंस, but for the cranes it is a stranger among them).

    • धन्यवादाः भट-महोदय !

      1. (२. ४. ४८९) तथा (२. ४. ४९०) एतौ संदर्भौ कुत्रतः इति कुतूहलम् | 2. “लोहितलोचनास्यचरणः”-इति शब्दस्य संधि-विच्छेदने “लोहितलोचन” तथा “अचरणः” एतौ शब्दौ “असि”-शब्देन विभक्तौ स्तः | तत्रापि “लोहितलोचन”-शब्दः संबोधनात्मकः परन्तु “अचरणः”-शब्दस्य प्रथमा विभक्तिः | अतः एकस्यैव शब्दस्य विश्लेषणं समीचीनं न भवति इति मे मतिः |

      सस्नेहम्, अभ्यंकरकुलोत्पन्नः श्रीपादः |

  2. अमरकोशे एव द्वितीयकाण्डे एतौ श्लोकौ पठितौ चतुर्थे सिंहादिवर्गे|

    अमरकोशे एव द्वितीयकाण्डे एतौ श्लोकौ पठितौ चतुर्थे सिंहादिवर्गे

    एकस्यैव समस्तपदस्य द्विधाकरणं अर्थसंगत्यनुसारेण विच्Cहेत्त्तुं शक्यत एव।

    न तत्र काप्यनुपपत्तिः

  3. लोहितं लोचनास्यचरणं यस्य सः – लोहितलोचनास्यचरणः इति विग्रहे – साक्षात् राजहंसस्यैव वर्णनमिति न तत्र संबोधनमपेक्ष्यते। त्वमित्यनेन सामानाधिकरण्यात्, कस्त्वं लोहितलोचनास्यचरणः? इति वाक्यस्य निराकाङ्क्षत्वात्। संबोधनस्यानाकाङ्क्षत्वात्।

    इति तात्पर्यम्। अचरण इति छेदस्तु भवता कल्पितः, तस्य राजहंसत्वमेव विनाशयति, कोकिलस्यापि रक्तलोचनत्वात्।

  4. लोचने च, आस्यं च, चरणौ च – इति द्वन्द्वसमासे, , लोचनास्यचरणमिति रूपम्। ततश्च बहुव्रीहिः।

  5. Strang contruing:

    यः (एतद्विधः) भेदः सः किं कथ्यते ? = What to say of these differences ?

    The explicit relation is there:

    वचसि यो भेदः स किं कथ्यते । – What to say of the difference in speech! The rhetoric question implies the meaning that there is no need to say anything about the difference in speech. Too clear that it needs any mention, the crow’s harsh voice and the “Hamsadhvani” is so popular in the music world.

    This is the intention of the question.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s