Learning Sanskrit by Fresh Approach – Lesson No. 107

Learning Sanskrit by Fresh Approach – Lesson No. 107
संस्कृतभाषायाः नूतनाध्ययनस्य सप्ताधिकशततमः (१०७) पाठः ।

Continuing with सुभाषितानि having हंसः the swan as the main theme and compiled in a chapter in the textbook for कोविद – examination of the सरल-संस्कृत-शिक्षा-series of भारतीय-विद्या-भवन, there the सुभाषितानि 1 to 4 are as follows.

अस्ति यद्यपि सर्वत्र । नीरं नीरज-मण्डितम् । रमते न मरालस्य । मानसं मानसं विना ।।१।।
संधिविच्छेदान्कृत्वा – अस्ति यदि अपि सर्वत्र । नीरं नीरज-मण्डितम् । रमते न मरालस्य । मानसं मानसं विना ।।१।।
अन्वयेन – नीरज-मण्डितम् नीरं यदि अपि सर्वत्र अस्ति, मरालस्य मानसं मानसं विना न रमते ।
Translation – Even if water full of lotuses be there everywhere, mind of a swan is not joyous except in the मानस-lake.
Notes –

  1. मरालः = हंसः Is this quoted also in अमरकोश ?
  2. The meter here is the commonplace अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
  3. Here the words नीर नीरज coming in close succession make some sort of onomatopoeia. In the phrase मानसं मानसं विना there is some onomatopoeia and also some pun on the word मानस.

एकेन राजहंसेन । या शोभा सरसो भवेत् । न सा बकसहस्रेण । परितस्तीरवासिना ।।२।।
संधिविच्छेदान्कृत्वा – एकेन राजहंसेन । या शोभा सरसः भवेत् । न सा बकसहस्रेण । परितः-तीरवासिना ।।२।।
अन्वयेन – एकेन राजहंसेन या शोभा सरसः भवेत्, सा परितः-तीरवासिना बकसहस्रेण न (भवति) ।
Translation – What beauty a lake will have due to (but) one swan, that beauty the lake will not have even if it is surrounded all-around the perimeter by thousands of cranes.
Notes –

  1. The meter here is the commonplace अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
  2. This सुभाषितम् brings to mind a Hindi proverb सौ सुनारकी एक लुहारकी This proverb is in a way the moral of this सुभाषितम्.

अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य । कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ।।३।।
संधिविच्छेदान्कृत्वा – अपसरणम् एव शरणं मौनं वा तत्र राजहंसस्य । कटु रटति निकटवर्ती वाचाटः टिट्टिभः यत्र ।।३।।
अन्वयेन – यत्र वाचाटः निकटवर्ती टिट्टिभः कटु रटति, तत्र राजहंसस्य अपसरणम् एव शरणं वा मौनं (एव शरणं) ।
Translation – Where a prattling टिट्टिभ is making bad noise at close quarters, a swan should either draw away from such place or should keep quiet.
Moral – One should always keep a discretion about the audience whether to speak or not to speak and also keep a discretion whether the environment is congenial to linger or not.
Notes –

  1. This brings to mind another सुभाषितम् “कोलाहले काककुलस्य जाते विराजते कोकिलकूजितं किम्”, meaning, “If there are crows crowing all over, will the cooing of a cuckoo be ever heard ?
  2. In Apte’s dictionary टिट्टिभः is detailed only as a kind of a bird. It seems, it is that bird which chirps टिट् टिट्, hence got the name as टिट्टिभ. In Marathi we know of a bird known as टिटवी. Maybe टिट्टिभः and टिटवी are Sanskrit and Marathi names for the same bird.
  3. The meter here is आर्या. अस्य लक्षणपदम् – यस्याः पादे प्रथमे द्वादश मात्रा तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ।।
    • अपसरणमेव शरणं (१-१-१-१-१-२-१ १-१-२ = १२) । मौनं वा तत्र राजहंसस्य ( २-२ २ २-१ २-१-२-२-(२) = १८) । कटु रटति निकटवर्ती (१-१ १-१-१ १-१-१-२-२ = १२)  वाचाटष्टिट्टिभो यत्र (२-२-२-२-२-२ २-१ = १५) ।।
  4. One can notice some onomatopoeia with the sound ट in the third and fourth lines.
  5. The word शरणं is used here with some idiomatic meaning as “refuge” or “step to be resorted to”.

यदि नाम दैवगत्या जगदसरोजं कदाचिदपि जातम् । अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसाः ।।४।।
संधिविच्छेदान्कृत्वा – यदि नाम दैवगत्या जगत् असरोजं कदाचित् अपि जातम् । अवकरनिकरं विकिरति तत् किं कृकवाकुः इव हंसाः ।।४।।
अन्वयेन – यदि नाम दैवगत्या जगत् कदाचित् अपि असरोजं जातम् (भवति), तत् किं हंसाः कृकवाकुः इव अवकरनिकरं विकिरति ।
Translation – If by providence the world becomes devoid of any lotuses, will the swans lament in the tone of a cock ?
Notes –

  1. The meter here also is आर्या अस्य लक्षणपदम् – यस्याः पादे प्रथमे द्वादश मात्रा तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ।।
    • यदि नाम दैवगत्या (१-१-२-१-२-१-२-२= १२) । जगदसरोजं कदाचिदपि जातम् (१-१-१-१-२-२ १-२-१-१-१ २-२ = १८) । अवकरनिकरं विकिरति (१-१-१-१-१-१-२ १-१-१-१ = १२) । तत्किं कृकवाकुरिव हंसाः (२-२ १-१-२-१-१-१ २-२ = १५) ।
  2. The third and fourth lines have some onomatopoeia of the sound क, the sound occurring as many as 7 times among 21 letters in these lines.
  3. अवकरनिकरं is a compound word having components अवकर and निकर. Both components are nouns derived from the धातु कृ, अव + कृ and नि + कृ. Interpreting these component words becomes really an exercise in interpreting influence of prefixes on the meaning of the resultant word.
    • Influence of prefixes on the meaning is well-stated in the verse उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहार-संहार-विहार-परिहार वत् ।।
    • Here अवकर would mean unwarranted happening and निकर would mean speaking about it. I have summarized that as ‘to lament’.
  4. Basically fancy of a world without lotuses can occur only to a poetic mind. In Hindi there is a proverb जो न देखे रवि सो देखे कवि A poet sees, what the sun would not.
  5. The word सरोज is a compound word, having components सरस् and ज. There is a synonym सरसिज. Components here also are the same, सरस् and ज.
    • In सरोज the components सरस् and ज are joined by a संधि. सरस् + ज = सरः + ज = सरोज
    • In सरसिज, the component सरसि is seventh case singular of सरस्. Since the declined form is retained the type of this समास is अलुक्.

शुभमस्तु ।

-o-O-o-

3 thoughts on “Learning Sanskrit by Fresh Approach – Lesson No. 107

  1. अहम् राष्ट्रीयसंस्कृतसंस्थाने नवदेहल्याम् शास्त्रीसेतौ पाठ्यक्रमे प्रविष्टवान् अस्मि । तत्र आरम्भिका संपर्ककक्षा संस्कृतसंभाषणस्य योग्यताम् वर्धियतुम् अभवत् । पञ्चदश दिनानि पर्यन्तम् प्रचलिता कक्षा अस्मान् एकम् प्रमुखम् पाठम् पाठितवती यत् अनुवादमाध्यमेन पाठनेन संस्कृतभाषायाः महती हानिः वर्तमाना अस्ति । कापि भाषा अनुवादमाध्यमेन न पाठ्यते । राष्ट्रीयसंस्कृतसंस्थानस्य संस्कृतभारत्याः अयम् बोधः सम्यक् एव अस्माभिः च चिन्तनीयः ।

    • नमस्ते कुशवाह-महोदय ! भाषाध्ययनविषये शिक्षणविदां भाषाविदां च मतानि विविधानि सन्ति | “नैको मुनिर्यस्य मतं प्रमाणम्” इति महाभारते अपि युधिष्ठिरेणापि उक्तमेव | यदि भाषा केवलं संवादमाध्यमेन पठनीया तर्हि श्लोकानां संधिविच्छेदाः तु न भवन्ति | न जानामि संधि-विच्छेदैर्विना श्लोकानां अध्ययनं कथं शक्यम् | यदि कथ्यते अनुवादाध्ययनेन संस्कृतभाषायाः महती हानिः संजाता अस्ति, कथंविधा हानिः एषा, इत्यपि कुतूहलं मम |
      संभाषण-माध्यमविषये मम तु अस्ति अवलोकनं, यत्, यदि संभाषणे केऽपि दोषाः संजायन्ते, तर्हि तेषां सपदि निराकरणं कदाचिदेव भवति, यतः तद्विधः आचारः अशोभनीयः भवति | यदि दोषाणां निराकरणं न भवति, तर्हि तद्विधा पद्धतिः भयावहा एव |
      मम विचारेण तु एषः निरर्थकः विवादविषयः | वादे वादे जायते कण्ठशोषः इत्येव | यया कयापि पद्धत्या यदि संस्कृताध्ययनं सुष्ठु भवति तत्साधु | पद्धतिं गृहीत्वा विवादः किं कारणेन ? अस्तु |

  2. मम अभिप्रायः अत्र भवतः पाठनविधौ दोषारोपणः नास्ति । किन्तु यदि शिक्षकाः बालकेभ्यः संस्कृतभाषाध्यापनम् संस्कृतसंभाषणमाध्यमेन अकरिष्यन् तर्हि संस्कृतभाषायाः प्रसारः अधिकः अभविष्यत् । यतः कस्याश्चित् भाषायाः जीवनार्थाय तस्याः वक्तारः श्रोतारः च अपि जीविताः भवेयुः । अद्यत्वे संस्कृतभाषायाः दयनीया स्थितिः वस्तुतः अलभ्यमानैः वक्तृभिः श्रोतृभिः चैव ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s