Learning Sanskrit by fresh approach – Index 41 to 80
संस्कृतभाषायाः नूतनाध्ययनस्य 41 to 80 पाठानां अनुक्रमणिका ।
41 | यद्येन क्रियते किंचिद्येन येन यदा यदा । विनाभ्यासेन तन्नेह सिद्धिमेति कदाचन ।।३.२२.२३॥तच्चिन्तनं तत्कथनम् अन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ।। ३.२२.२४॥ |
42 | यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया । कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः । पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैर्नवैः ॥ |
43 | अस्मान् साधु विचिन्त्य संयमधनानुच्चं कुलं चात्मनस् त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ १६ ॥ |
44 | शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ १८ ॥ क्लैब्यं मा स्म गमः पार्थ नैतत्वैय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥ २-३ ॥ |
45 | अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः जातो ममायं विशदः प्रकामम् प्रत्यर्पितन्यास इवान्तरात्मा ॥ २१ ॥ निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१ ॥ अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८-५३ ॥ |
46 | ऐश्वर्यस्य विभूषणम् सुजनता शौर्यस्य वाक्-संयमः ज्ञानस्यॊपशमः श्रुतस्य विनयॊ वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा बलवताम् धर्मस्य निर्व्याजता सर्वेषाम् अपि सर्वकारणमिदम् शीलम् परम् भूषणम् || |
47 | करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयिभुजयोर्वीर्यमतुलम् हृदि स्वच्छा वृत्तिः श्रुतमधिगतैकव्रतफलम् विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् || ६५ ॥ एषः “शिखरिणी”-छन्दः । तस्य लक्षणपदम् – “रसैर्रुद्रैश्छिन्ना यमनसभलागा शिखरिणी” कराग्रे वसते लक्ष्मीः करमध्ये च सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥ द्यौः शान्तिरन्तरिक्ष शान्तिः । पृथ्वी शान्तिः । आपः शान्तिः । ओषधयः शान्तिः । वनस्पतयः शान्तिः । विश्वेदेवाः शान्तिः । ब्रह्म शान्तिः । सर्व शान्तिः॥ शान्तिरेव शान्तिः | विश्वेदेवाः शान्तिः । ब्रह्म शान्तिः॥ सर्व शान्तिः | वनस्पतयः शान्तिः । विश्वेदेवाः शान्तिः । ब्रह्म शान्तिः । सर्व शान्तिः । शान्तिरेव शान्तिः | सा मा शान्तिरेधि । सुशान्तिर्भवतु ॥ |
48 | अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ |
49 | अनाचारेण मालिन्यं अत्याचारेण मूर्खता । विचाराचारयोर्योगः स सदाचार उच्यते ॥ |
50 | अव्याकरणमधीतं भिन्नद्रोण्या तरंगिणीतरणम् । भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम् ॥ |
51 |
यदा किञ्चित्झोऽहं गज इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः
यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥
|
52 | सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु प्रकृतिरियं सत्त्ववतां न वयस्तेजसो हेतुः ॥ |
53 | न तेन स्थविरो भवति येनास्य पलितं शिरः। यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ॥ |
54 | संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु (सा) विवक्षामपेक्षते ॥ |
55 | नृत्तावसाने नटराजराजः निनाद ढक्काम् नवपञ्चवारम् । उद्धर्तुकामस्सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥ |
56 | काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् । विचारवान्पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥ |
57 | अहन्यहनि भूतानि गच्छन्तीह यमालयम् । शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ In reply to – को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका । ममैतांश्चतुरः प्रश्नान् कथयित्वा जलं पिब ॥११४॥ |
58 | तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः । नैको मुनिर्यस्य मतं प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायाम् । महाजनो येन गतः स पन्थाः ॥ |
59 | मा गा इत्यपमङ्गलं व्रज सखे स्नेहेन दीनं वचः। तिष्ठेति प्रभुता यथामति चरेत्यैवम् ह्युदासीनता । नो जीवाम विना त्वया यदुपते सम्भाव्यते वा न वा । स्मर्तव्या वयमादरेण भवता यावत् पुनर्दर्शनम् ॥ |
60 | “भो भोः पान्थ कुतो?” “नगरतो” “वार्ता तु काचित् श्रुता?” । “बाढं” “ब्रूहि” “युवा पयोदसमये भार्यां विना जीवति ।” “सत्यं जीवति” “जीवतीति कथिता वार्ता मयापि श्रुता “। “संकीर्णा पृथिवी जनाश्च बहवः किं तन्न सम्पद्यते” ॥ |
61 | भोजनान्ते च किं पेयम् जयन्तः कस्य वै सुतः । कथं विष्णुपदं प्रोक्तम् तक्रं शक्रस्य दुर्लभम् ॥ |
62 | यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् । सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ |
63 | अपि क्रियार्थम् सुलभं समित्कुशम् ।
जलानि अपि स्नानविधिक्षमं ते।
अपि स्वशक्त्या तपसि प्रवर्तसे । शरीरमाद्यम् खलु धर्मसाधनम्॥ |
64 |
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥
|
65 | व्यसनान्यत्र बहूनि व्यसनद्वयमेव केवलं व्यसनम् । विद्याभ्यसनं व्यसनं अथवा हरिपादसेवनं व्यसनम् ।। |
66 | अन्धं तमः प्रविशन्ति येऽविद्यामुपासते |ततो भूय इव ते तमः य उ विद्यायां रताः || ९ || |
67 | दशमः मन्त्रः of ईशावास्योपनिषत् –अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया |
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे || १० || |
68 | एकादशः मन्त्रः of ईशावास्योपनिषत् –विद्याम् चाविद्यां च यस्तद्वेदोभयं सह |अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते || ११ || |
69 |
असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मामृतं गमय । (अनृतान्मा ऋतं गमय) ॥ |
70 | चतुरः सखि मे भर्ता यल्लिखति को न वाचयति । तस्मादप्यधिको मे यल्लिखति स्वयं न वाचयति || |
alternatively
चतुरः सखि मे भर्ता यल्लिखितं तत्परो न वाचयति।
न वाचयति परलिखितं स्वयमपि लिखितं स्वयं न वाचयति ॥ or
चतुरः सखि मे भर्ता यल्लिखति तत्परो न वाचयति।
तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥ |
|
71 | पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः |जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे || |
72 | अग्निः शेषः ऋणं शेषं शत्रुः शेषस्तथैव च ।पुनः पुनः प्रवर्धेत तस्माच्छेषं न कारयेत् ।। |
72 (S) | नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोऽप्यवज्ञया |वह्निरल्पोऽपि संवृद्धः कुरुते भस्मसाद्वनम् || |
73 | जातं वंशे भुवनविदिते पुष्करावर्तकानाम् |जानामि त्वाम् प्रकृतिपुरुषं कामरूपं मघोनः |
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहम् | याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा || |
74 | उपायाः सामं दामं च भेदो दण्डस्तथैव च । सम्यक्-प्रयुक्ता सिद्ध्येयुर्दण्डस्त्वगतिका गतिः || |
75 | सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत् । वर्णः संयोगपूर्वश्च तथा पादान्तगोऽपि वा ॥आदिमध्यावसानेषु यरता यान्ति लाघवम् । भजसा गौरवं यान्ति मनौ तु गुरुलाघवम् ॥ मस्त्रिगुरुस्त्रिलघुश्च नकारो । |
76 | आरभ्यते न खलु विघ्नभयेन नीचैः |प्रारभ्य विघ्नविहता विरमन्ति मध्याः |
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः | प्रारभ्य तूत्तमजना न परित्यजन्ति || |
77 | रत्नैर्महार्हैस्तुतुषुर्न देवाः ।न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामम् । न निश्चितार्थाद्विरमन्ति धीराः ।। |
78 | क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनम् |क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः |
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो | मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् || |
79 | रथस्यैकम् चक्रम् भुजगयमिताः सप्त तुरगाः । निरालम्बो मार्गश्चरणरहितः सारथिरपि । रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः । क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ |
80 | पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१८-१३॥ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टाः दैवम् चैवात्र पञ्चमम् ॥१८-१४॥ |