Learning Sanskrit by Fresh Approach – Lesson No. 104

Learning Sanskrit by Fresh Approach – Lesson No. 104
संस्कृतभाषायाः नूतनाध्ययनस्य चतुरधिकशततमः (१०४) पाठः ।

I came across one more सुभाषितम् in the same vein as the previous two, and using the same simile of a turning wheel. It reads –

सुखमापतितं सेव्यं दुःखमापतितं तथा |
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ||

१ संधि-विच्छेदान् कृत्वा –

सुखं आपतितं सेव्यं दुःखं आपतितं तथा |
चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ||

१-१ अत्र सन्धयः –
१-१-१ सुखमापतितम् = सुखम् आपतितम् (व्यञ्जन-संधिः)
१-१-२ दुःखमापतितम् = दुःखम् आपतितम् (व्यञ्जन-संधिः)
२ अन्वयाः –
२-१ (यथा) आपतितम् सुखम् सेव्यं (भवति)
२-२ तथा आपतितम् दुःखम् (अपि सेव्यं भवति)
२-३ दुःखानि च सुखानि च चक्रवत् परिवर्तन्ते
३ वाक्यांशानां विश्लेषणानि Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,
इतरे शब्दाः
क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
(यथा) आपतितम् सुखम् सेव्यं (भवति) गौणः
तथा आपतितम् दुःखम् (सेव्यं)  (अपि) (भवति) प्रधान:
दुःखानि च सुखानि च चक्रवत् परिवर्तन्ते प्रधान:

समासानां विग्रहा: शब्दानां व्युत्पत्त्यः विश्लेषणानि च –

(यथा) आपतितम् सुखम् सेव्यं (भवति)

१ यथा (= as) अव्ययम् ।

२ आपतितम् – “आ + पत्” इति भ्वादि (१) सेट् परस्मैपदी धातुः । पत्लृ गतौ (पत् = to fall) । तस्मात् भूतकालवाचकं विशेषणम् “आपतित” (= descended, occurred) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ सुखम् – “सुख” (= happiness, pleasure, joy) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

४ सेव्यम् – “सेव्” इति भ्वादि (१) सेट् आत्मनेपदी धातुः । षेवृ [सेवने] (सेव् = to bear, to accept, to consume) । तस्मात् विध्यर्थवाचकं विशेषणम् “सेव्य” (= to be borne) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

५ भवति – “भू” इति भ्वादि (१) सेट् परस्मैपदी धातुः । भू सत्तायाम् (भू = to be) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

तथा आपतितम् दुःखम् (अपि सेव्यं भवति)

६ तथा (= like that) इति अव्ययम् ।

७ दुःखम् – “दुःख” (= sorrow, grief) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

८ अपि (= also) इति अव्ययम् ।

दुःखानि च सुखानि च चक्रवत् परिवर्तन्ते

९ दुःखानि – “दुःख” (= sorrow, grief) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

१० च (= and) इति अव्ययम् ।

११ सुखानि – “सुख” (= happiness, pleasure, joy) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

१२ चक्रवत् = “चक्र + वत्”

  • १२-१ चक्र (= wheel) इति नपुंसकलिङ्गि नाम ।
  • १२-२ वत् (= like, similar to) इति प्रत्ययः ।
  • १२-३ चक्रवत् = like wheel.
  • अत्र चक्रवत्-शब्दः क्रियाविशेषणात्मकः । Here, the word is used as an adverb

१३ परिवर्तन्ते – “परि + वृत्” इति भ्वादि (१) सेट् आत्मनेपदी धातुः । वृतु वर्तने (वृत् = ) । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।

  • १३-१ परिवर्तन्ते = rotate, turn around, come by rotation

५ अनुवादाः English Translations

  1. (यथा) आपतितम् सुखम् सेव्यं (भवति) = As happiness is to be enjoyed, as it comes
  2. तथा आपतितम् दुःखम् (अपि सेव्यं भवति) = sorrows should also be accepted and experienced, as they come
  3. दुःखानि च सुखानि च चक्रवत् परिवर्तन्ते = pleasures and sorrows keep coming by rotation.

अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ? (In what meter is this verse composed ?)

सुखमापतितं सेव्यम् । (वर्णाः ८)

दुःखमापतितं तथा । (वर्णाः ८)
चक्रवत्परिवर्तन्ते । (वर्णाः ८)

दुःखानि च सुखानि च ।। (वर्णाः ८)

अत्र अनुष्टुभ्-छन्दः एव । तस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

टिप्पण्य: Comments, Notes, Observations, if any.

७-१ This सुभाषितम् is very much straightforward than previous two. Since pleasures and sorrows keep turning around, they are not constant. It is not that if one is experiencing a sorry state, it will never have happiness coming his way. Happiness also will come by its own turn. One must accept happiness and sorrow as they come.

शुभमस्तु ।

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s