Learning Sanskrit by Fresh Approach – Lesson No. 103

Learning Sanskrit by Fresh Approach – Lesson No. 103
संस्कृतभाषायाः नूतनाध्ययनस्य त्र्यधिक-शततमः (१०३) पाठः ।

On the theme of ‘bad times are not forever’, discussed in the lesson No. 101, four different references were quoted. Out of the four, study of the श्लोक from मेघदूतम् by कालिदास was done in previous lesson No. 102. Now we shall study the श्लोक by Poet and dramatist भास in स्वप्नवासवदत्तम् The lines of this श्लोक quoted in Lesson No. 101 were only last two of the four lines. The complete श्लोक is

पूर्वं त्वयाप्यभिमतं गतमेवमासी-
च्छ्लाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः ।
कालक्रमेण जगतः परिवर्तमाना |
चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः || प्रथमाङ्के ४||
१ संधि-विच्छेदान् कृत्वा

पूर्वं त्वया अपि अभिमतं गतम् एवम् आसीत् ।
श्लाघ्यं गमिष्यसि पुन: विजयेन भर्तुः ।
काल-क्रमेण जगतः परिवर्तमाना |
चक्र-अर-पङ्क्ति: इव गच्छति भाग्य-पङ्क्तिः || प्रथमाङ्के ४||

१-१ अत्र सन्धयः

  1. त्वयाप्यभिमतम् = त्वया अपि अभिमतम्
    • त्वया अपि = त्वयापि (स्वर-संधिः)
    • त्वयापि अभिमतम् = त्वयाप्यभिमतम् (स्वर-संधिः)
  2. गतमेवमासीच्छ्लाघ्यम् = गतम् एवम् आसीत् श्लाघ्यम्
    • गतम् एवम् = गतमेवम् (व्यञ्जन-संधिः)
    • गतमेवम् आसीत् = गतमेवमासीत् (व्यञ्जन-संधिः)
    • गतमेवमासीत् श्लाघ्यम् = गतमेवमासीच्छ्लाघ्यम् (व्यञ्जन-संधिः)
  3. पुनर्विजयेन = पुनः विजयेन (विसर्ग-संधिः)
  4. चक्रारपङ्क्तिरिव = चक्र-अर-पङ्क्ति: इव
    • चक्र + अर-पङ्क्ति: = चक्रारपङ्क्ति: (स्वर-संधिः)
    • चक्रारपङ्क्ति: + इव = चक्रारपङ्क्तिरिव (विसर्ग-संधिः)

२ अन्वयाः

  1. पूर्वं त्वया अपि एवम् गतम् अभिमतं आसीत् ।
  2. भर्तुः विजयेन (त्वम्) पुन: श्लाघ्यं गमिष्यसि ।
  3. चक्रारपङ्क्ति: काल-क्रमेण गच्छति इव
  4. जगतः भाग्य-पङ्क्तिः परिवर्तमाना (गच्छति/अस्ति/भवति) |

वाक्यांशानां विश्लेषणानि  Analysis of clauses

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम् वा संबोधनम् संबन्ध-सूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् क्रियाविशेषणानि इतरे शब्दाः वाक्यांशस्य प्रकारः
(तत्) गतम् अभिमतं आसीत् पूर्वं त्वया अपि एवम् प्रधान:
(त्वम्) श्लाघ्यं गमिष्यसि भर्तुः विजयेन पुन: प्रधान:
इव चक्रारपङ्क्ति: गच्छति काल-क्रमेण गौणः
भाग्य-पङ्क्तिः परिवर्तमाना (गच्छति/अस्ति/भवति) जगतः प्रधान:

समासानां विग्रहा: शब्दानां व्युत्पत्त्यः विश्लेषणानि च –

पूर्वं त्वया अपि एवम् गतम् अभिमतं आसीत्
१ पूर्वम् (= ) विशेषणम् । अत्र क्रियाविशेषणात्मकं अव्ययम् ।
२ त्वया – “युष्मद्” (= pronoun of second person, you) इति सर्वनाम । सर्वेषु लिङ्गेषु समानम् । तस्य तृतीया विभक्तिः एकवचनम् ।
३ अपि (= also) इति अव्ययम् ।
४ एवम् (= thus, such) इति अव्ययम् ।
५ गतम् – “गम्” इति भ्वादि (१) अनिट् परस्मैपदी धातुः । गम्लृ गतौ (गम् = to go to, to get to) । तस्मात् भूतकालवाचकं विशेषणम् “गत” (= gone, experienced) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
६ अभिमतम् – “अभि + मन्” इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “अभिमत” (= approved) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ६-१ “मन्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । मन ज्ञाने (मन् = to know, to mind, to think, to consider) ।
  • ६-२ “मन्” इति तनादि (८) सेट् आत्मनेपदी धातुः । मनु अवबोधने (मन् = to understand) ।
  • ६-३ “मन्” इति चुरादि (१०) सेट् आत्मनेपदी धातुः । मान स्तम्भे (मन् = to respect) ।

७ आसीत् – “अस्” इति धातुः । अत्र परस्मैपदी । तस्य लङ्-भूते प्रथमपुरुषे एकवचनम् ।

  • ७-१ “अस्” इति भ्वादि (१) सेट् उभयपदी धातुः । अस गतिदीप्त्यादानेषु (अस् = to go, to enlighten, to receive) ।
  • ७-२ “अस्” इति अदादि (२) सेट् परस्मैपदी धातुः । अस भुवि (अस् = to be) ।
  • ७-३ “अस्” इति दिवादि (४) सेट् परस्मैपदी धातुः ।असु क्षेपने (अस् = to throw, to hurl) ।

भर्तुः विजयेन (त्वम्) पुन: श्लाघ्यं गमिष्यसि
८ भर्तुः – “भृ” इति धातुः । तस्मात् तृ-प्रत्ययेन विशेषणम् “भर्तृ” (= one who takes care) । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • ८-१ “भृ” इति भ्वादि (१) अनिट् उभयपदी धातुः । भृञ् भरणे (भृ = to feed) ।
  • ८-२ “भृ” इति जुहोत्यादि (३) धातुः । डुभृञ् धारणपोषणयोः (भृ = to support, to groom) ।

९ विजयेन – “वि + जि” इति धातुः । तस्मात् पुल्लिङ्गि नाम “विजय” (= victory) । तस्य तृतीया विभक्तिः एकवचनम् ।

  • ९-१ जि – भ्वादि (१) अनिट् परस्मैपदी धातुः । जि जये (= ) ।
    • जि अभिभवे (= ) ।
  • ९-२ जि – चुरादि (१०) सेट् उभयपदी धातुः । जि [भाषार्थः] च ।

१० त्वम् – “युष्मद्” (= pronoun of second person, you) इति सर्वनाम । सर्वेषु लिङ्गेषु समानम् । तस्य प्रथमा विभक्तिः एकवचनम् च ।
११ पुन: (= again) इति क्रियाविशेषणात्मकं अव्ययम् ।
१२ श्लाघ्यम् – “श्लाघ्” इति भ्वादि (१) सेट् आत्मनेपदी धातुः । श्लाघृ कत्थने (श्लाघ् = to praise, to respect) । तस्मात् विध्यर्थवाचकं विशेषणम् “श्लाघ्य” (= praiseworthy, respectable) । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१३ गमिष्यसि – “गम्” इति भ्वादि (१) अनिट् परस्मैपदी धातुः । गम्लृ गतौ (गम् = to go to, to get to) । तस्य भविष्यति मध्यमपुरुषे एकवचनम् ।

चक्रारपङ्क्ति: काल-क्रमेण गच्छति इव

१४ चक्रारपङ्क्ति: –  “चक्रारपङ्क्ति” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १४-१ चक्रस्य चक्रारः (षष्ठी-तत्पुरुषः) ।
  • १४-२ चक्राराणां पङ्क्ति: चक्रारपङ्क्ति: (षष्ठी-तत्पुरुषः) ।
  • १४-३ चक्रस्य – “चक्र” (= wheel) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १४-४ अरः – “अर” (= spoke of a wheel) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४-५ पङ्क्ति: – “पङ्क्ति” (= row) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४-६ चक्रारपङ्क्ति: = row  (array) of spokes of a wheel

१५ काल-क्रमेण – “कालक्रम” इति सामासिकं पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

  • १५-१ कालस्य कालक्रमः (षष्ठी-तत्पुरुषः) ।
  • १५-२ कालस्य – “काल” (= time) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १५-३ क्रमः – “क्रम्” इति भ्वादि (१) सेट् परस्मैपदी धातुः । क्रमु पादविक्षेपे (क्रम् = to move) । तस्मात् पुल्लिङ्गि नाम “क्रम” (= order) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १५-४ कालक्रमः = order of time, time-sequence

१६ गच्छति – “गम्” इति भ्वादि (१) अनिट् परस्मैपदी धातुः । गम्लृ गतौ (गम् = to go to, to get to) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
१७ इव (= similar to) इति अव्ययम् ।

जगतः भाग्य-पङ्क्तिः परिवर्तमाना (गच्छति/अस्ति/भवति)

१८ जगतः – “जगत्” (= world, worldly thing) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • १८-१ It comes to mind that the word जगत् has a metaphysical or philosophical derivation.
    • It is well-known that ज stands for जायते e.g. अण्डे जायते इति अण्डजम्
    • and ग connotes गच्छति. e.g. खे गच्छति इति खगः
    • So, जगत्  connotes what जायते गच्छति च । In turn जगत्  connotes what comes and goes, what is not permanent, not constant. It is अनित्यं
    • This word जगत् seems to become a perfect specimen of why they say संस्कृतम् नाम दैवी वाक् । Sanskrit is a language of celestial genesis.

१९ भाग्य-पङ्क्तिः – “भाग्य-पङ्क्ति” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १९-१ भाग्यस्य पङ्क्तिः भाग्यपङ्क्तिः (षष्ठी-तत्पुरुषः) ।
  • १९-२ भाग्यस्य – “भाज (भाज्)” इति चुरादि (१०) सेट् उभयपदी धातुः । भाज पृथक्कर्मणि (भाज (भाज्) = to do various activities) । तस्मात् नपुंसकलिङ्गि नाम “भाग्य” (= providence) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १९-३ भाग्यपङ्क्तिः = array of providential happenings

२० परिवर्तमाना – “परि + वृत्” इति भ्वादि सेट् आत्मनेपदी धातुः । वृतु वर्तने (वृत् = to be, to happen) । तस्मात् विशेषणम् “परिवर्तमान” । अत्र स्त्रीलिङ्गि “परिवर्तमाना” (= to change, to happen in cyclic order) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • The prefix परि in the word परिवर्तमाना makes an interesting study. The prefix has two shades of meaning – परि meaning circumferential and परि also meaning repetitively. In the context of the simile of the spokes of a wheel going up and down, both meanings of परि seem appropriate and significant !

५ अनुवादाः English Translations

वाक्यांशा: English Translation
पूर्वं त्वया अपि एवम् गतम् अभिमतं आसीत् Earlier you too had approved such manner of going (pushing commoners away)
भर्तुः विजयेन (त्वम्) पुन: श्लाघ्यं गमिष्यसि When your Lordship (King Udayana) will (re)gain victory you will enjoy this (such decorum of dignified going) again.
चक्रारपङ्क्ति: काल-क्रमेण परिवर्तमाना गच्छति इव Same as the spokes of a wheel follow a cyclic order
जगतः भाग्य-पङ्क्तिः (काल-क्रमेण परिवर्तमाना) (गच्छति/अस्ति/भवति) fate in this world follows a cyclic order.
अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ? (In what meter is this verse composed ?)

पूर्वं त्वयाप्यभिमतं गतमेवमासी- वर्णाः १४
(२-२ १)-(२-१-१)-(१-२ १-) (१-२-१)-२-२ इति मात्राः
त-भ-ज-ज-ग-ग इति गणाः
च्छ्लाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः । वर्णाः १४
कालक्रमेण जगतः परिवर्तमाना | वर्णाः १४
चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः || वर्णाः १४

अत्र वसन्ततिलका-वृत्तम् | अस्य लक्षणपदम् – उक्ता वसंततिलका तभजा जगौ गः ।

७ Notes टिप्पणयः७-१ The background of this श्लोक is when वासवदत्ता is feeling distraught due to her being pushed aside by servants of the king AruNee, who had defeated King उदयन. It is customary that when a dignitary like a King is visiting a place, his servants will push the commoners aside to make way for the dignitary. वासवदत्ता was in the disguise of a commoner and was pushed aside. Minister यौगन्धरायण is consoling her saying this श्लोक, and reminding her that “bad times are not forever”.

७-२ For the second sentence I have added the verb-options (गच्छति/अस्ति/भवति). However, it seems the word परिवर्तमाना is complete in itself so that verb-options are really not required. The famous श्लोक – त्वमेव माता च पिता त्वमेव … is without any verb and yet its meaning is easily understood. In Sanskrit every word is empowered with a strength to stand by itself.

शुभं भवतु ।
-o-O-o-

3 thoughts on “Learning Sanskrit by Fresh Approach – Lesson No. 103

  1. गच्छतीति जगत् – गच्छति – क्रमेण नष्टा भवति इति, परिवर्तते इति वा इति अर्थः।

    “द्युति-गमि-जुहोतीनां द्वे च” इति क्विप्-प्रत्यये, द्वित्वे, जगत् –

    स्त्रीलिङ्गे, जगती इति च, शत्रन्तात् – जगती – जगत्यौ – जगत्यः इति।

  2. वाक्यांशा: English Translation
    पूर्वं त्वया अपि एवम् गतम् अभिमतं आसीत् Earlier you too had approved such manner of going (pushing commoners away)
    भर्तुः विजयेन (त्वम्) पुन: श्लाघ्यं गमिष्यसि When your Lordship (King Udayana) will (re)gain victory you will enjoy this (such decorum of dignified going) again.
    ==============

    There is not any necessity of अभिमतम् in the first sentence and in the second, a noun is needed to be qualified by the adjective – श्लाघ्यम् – laudable, प्रशस्तम् without which the sentence will be incomplete.

    You cannot do with supplementing anything you wanted in Sanskrit sentences, but should follow the syntactical requirements.

    Hence, In the first sentence it would be perfect even without the word अभिमतम्=

    पूर्वं त्वयाप्येवं गतमासीत् – In the past, you yourself had gone in this manner (pompously) will be enough.;

    पुनः, भर्तुर्विजयेन श्ल्याघ्यमभिमतं गमिष्यसि – Again, (in the future) by the victory of your husband, you will attain the same laudable position of your wish.(in other words your praiseworthy wish will be fulfilled by the victory of your husband) would be proper translation.

    The noun अभिमतम् itself means desire (Monier-Williams, Sir M. (1988))
    wish (Monier-Williams, Sir M. (1988) and otherwise it is unwarranted in the context.

  3. १५-४ कालक्रमः = order of time, time-sequence

    but with the passing of time, elapse of time would be correct meaning. कालक्रमेण as time passes, the row of fotune rolls over just like the spokes of a wheel.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s