Learning Sanskrit by Fresh Approach – Lesson No. 102

Learning Sanskrit by Fresh Approach – Lesson No. 102
संस्कृतभाषायाः नूतनाध्ययनस्य द्व्यधिक-शततमः (१०२) पाठः ।

To continue with the theme of ‘bad times are not forever’, discussed in the previous lesson No. 101, let us study the श्लोक from मेघदूतम् by कालिदास. In lesson 101 only last two lines of the श्लोक were quoted. The complete श्लोक is as follows –

नन्वात्मानं बहु विगणयन्नात्मनैवावलंबे |
तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् |
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा |
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण || उत्तरमेघे ४६||
१संधि-विच्छेदान् कृत्वा

ननु आत्मानं बहु विगणयन् न आत्मना एव अवलंबे |
तत् कल्याणि त्वम् अपि नितरां मा गमः कातरत्वम् |
कस्य अत्यन्तं सुखम् उपनतं दुःखम् एकान्तत: वा |
नीचै: गच्छति उपरि च दशा चक्रनेमिक्रमेण || उत्तरमेघे ४६||

१-१ अत्र सन्धयः

  1. नन्वात्मानं = ननु आत्मानं (स्वर-संधिः)
  2. विगणयन्नात्मनैवावलंबे = विगणयन् आत्मना एव अवलंबे
    • विगणयन् आत्मना =  विगणयन्नात्मना (व्यञ्जन-संधिः)
    • विगणयन्नात्मना एव = विगणयन्नात्मनैव (स्वर-संधिः)
    • विगणयन्नात्मनैव अवलंबे = विगणयन्नात्मनैवावलंबे (स्वर-संधिः)
  3. तत्कल्याणि = तत् कल्याणि (व्यञ्जन-संधिः)
  4. त्वमपि = त्वम् अपि (व्यञ्जन-संधिः)
  5. कस्यात्यन्तं = कस्य अत्यन्तं (स्वर-संधिः)
  6. सुखमुपनतं = सुखम् उपनतं (व्यञ्जन-संधिः)
  7. दुःखमेकान्ततो वा = दुःखम् एकान्तत: वा
    • दुःखम् एकान्तत: = दुःखमेकान्तत: (व्यञ्जन-संधिः)
    • दुःखमेकान्तत: वा = दुःखमेकान्ततो वा (विसर्ग-संधिः)
  8. नीचैर्गच्छत्युपरि = नीचै: गच्छति उपरि
    • नीचै: गच्छति = नीचैर्गच्छति (विसर्ग-संधिः)
    • नीचैर्गच्छति उपरि = नीचैर्गच्छत्युपरि (स्वर-संधिः)

२ अन्वयाः

  1. ननु आत्मानं बहु विगणयन् आत्मना एव अवलंबे |
    • आत्मना एव बहु विगणयन्
    • (अहम्) आत्मानं अवलंबे ननु
  2. तत् कल्याणि त्वम् अपि नितरां कातरत्वम् मा गमः
  3. कस्य अत्यन्तं सुखम् उपनतं (भवति) ?
  4. वा (कस्य) एकान्तत: दुःखम् (भवति) ?
  5. दशा चक्रनेमिक्रमेण नीचै: उपरि च गच्छति

वाक्यांशानां विश्लेषणानि  Analysis of clauses

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम् वा संबोधनम् संबन्ध-सूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् क्रियाविशेषणानि च इतरे शब्दाः च वाक्यांशस्य प्रकारः

विगणयन् बहु आत्मना एव गौणः
(अहम्) आत्मानं अवलंबे  ननु प्रधान:
कल्याणि तत् त्वम् कातरत्वम् मा गमः अपि नितरां प्रधान:
सुखम् अत्यन्तं उपनतं (भवति) कस्य प्रधान:
वा दुःखम् (भवति) (कस्य)  एकान्तत: प्रधान:
दशा गच्छति चक्रनेमिक्रमेण नीचै: उपरि च प्रधान:

समासानां विग्रहा: शब्दानां व्युत्पत्त्यः विश्लेषणानि च –

आत्मना एव आत्मानं बहु विगणयन्
१ आत्मना – “आत्मन्” (= self) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
२ एव (= only) इति अव्ययम् ।
३ आत्मानम् – “आत्मन्” (= self) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
४ बहु (= very much) इति विशेषणम् । अत्र अव्ययात्मकं क्रियाविशेषणम् ।
५ विगणयन् – “वि + गण्” इति चुरादि सेट् उभयपदी धातुः । गण संख्याने (गण् = to count) । तस्मात् कर्तरि-वर्तमानकालवाचकं विशेषणम् “विगणयन्” (= entertaining) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

(अहम्) न अवलंबे ननु
६ अहम् – “अस्मद्” (= pronoun of the first person, I, we) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
७ अवलंबे – “अव + लम्ब्” इति भ्वादि सेट् आत्मनेपदी धातुः । लवि [शब्दे] अवस्रंसने च (लम्ब् = to rely upon, to depend upon) । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।

  • ७-१ अव + लम्ब् = to sustain

८ ननु (= really) इति क्रियाविशेषणम् ।

तत् कल्याणि त्वम् अपि नितरां कातरत्वम् (अ)गमः मा 

९ तत् (= pronoun of third person) इति सर्वनाम । अत्र अव्ययात्मकं क्रियाविशेषणम् । तत् = तेन, तस्मात्, ततः (= therefore) ।
१० कल्याणि – “कल्याण” अथवा “कल्याणिन्” इति विशेषणम् । अत्र स्त्रीलिङ्गि “कल्याणी” (= one, who is chaste; one who holds good intellect and good intuitions) । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।
११ त्वम् – “युष्मद्” (= pronoun of second person) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१२ अपि (= also) इति अव्ययम् ।
१३ नितराम् (= exceedingly) क्रियाविषेशणात्मकं अव्ययम् ।
१४ कातरत्वम् – “कातर” (= afraid) इति विशेषणम् । तस्मात् भाववाचकं नपुंसकलिङ्गि नाम “कातरत्व” (= frightfulness) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१५ गमः – “गम्” इति भ्वादि अनिट् परस्मैपदी धातुः । गम्लृ गतौ (गम् = to go to, to get to) । तस्य आज्ञार्थे (??) मध्यमपुरुषे एकवचनम् ।
१६ मा (= do not) इति अव्ययम् । नकारात्मक-अर्थे मा-अव्ययस्य उपयोगः भवति । The indeclinable मा is used to make negative of the verb.कस्य सुखम् अत्यन्तं उपनतं (भवति)
१७ कस्य – “किम्” इति सर्वनाम । अत्र पुल्लिङ्गि (= who) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१८ सुखम् – “सुख” (= happiness) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१९ अत्यन्तम् – “अत्यन्त” (= extreme, unending) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १९-१ अत्यन्तम् (=अति + अन्तम्) अति एव अन्तः यस्य तथा ।
  • १९-२ अत्यन्तम् इति प्रायः क्रियाविषेशणात्मकं अव्ययमपि ।

२० उपनतम् – “उप + नम्”  इति भ्वादि अनिट् परस्मैपदी धातुः । णम प्रह्नत्वे शब्दे च (नम् = to bend, to bow) । तस्मात् भूतकालवाचकं विशेषणम् “उपनत” (= obtained) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२१ भवति – “भू” इति भ्वादि सेट् परस्मैपदी धातुः । भू सत्तायाम्  (भू = to be) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

वा (कस्य) दुःखम् एकान्तत: (भवति)
२२ वा (= or) इति अव्ययम् ।
२३ दुःखम् – “दुःख” (= sorrow) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२४ एकान्तत: (= such only) इति क्रियाविषेशणात्मकं अव्ययम् ।

  • २४-१ एकान्तत: (= एक + अन्तः = एकः एव अन्तः यस्य = one, that has only one end-result)-तः (= तथा) ।

दशा चक्रनेमिक्रमेण नीचै: उपरि च गच्छति
२५ दशा (= state, condition, situation) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२६ चक्रनेमिक्रमेण – “चक्रनेमिक्रम” इति सामासिकं पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

  • २६-१ चक्रस्य नेमिः चक्रनेमिः (षष्ठी-तत्पुरुषः) ।
  • २६-२ चक्रनेमेः क्रमः चक्रनेमिक्रम: (षष्ठी-तत्पुरुषः) ।
  • २६-३ चक्रस्य – “चक्र” (= wheel) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २६-४ नेमिः – “नेमि” (= spoke) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६-५ क्रमः – “क्रम्” इति भ्वादि सेट् परस्मैपदी धातुः । क्रमु पादविक्षेपे (क्रम् = to move) । तस्मात् पुल्लिङ्गि नाम “क्रम” (= order) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६-६ चक्रनेमिक्रमेण = As is the order of spokes of a wheel

२७ नीचै: (= below, down, under, beneath) इति क्रियाविषेशणात्मकं अव्ययम् ।
२८ उपरि (= above, up) इति क्रियाविषेशणात्मकं अव्ययम् ।
२९ गच्छति – “गम्” इति भ्वादि अनिट् परस्मैपदी धातुः । गम्लृ गतौ (गम् = to go to, to get to) । तस्य वर्तमाने प्रथमपुरुषे एकवचनम् ।

५ अनुवादाः English Translations

वाक्यांशा: English Translation
आत्मना एव बहु विगणयन् Entertaining very much by self
(अहम्) आत्मानं अवलंबे ननु I just (really) sustain myself
तत् कल्याणि त्वम् अपि नितरां कातरत्वम् मा गमः Hence, you, the chaste one, do not become too much distraught
कस्य अत्यन्तं सुखम् उपनतं (भवति) Who is endowed with unending happiness ?
वा (कस्य) दुःखम् एकान्तत: (भवति) Who is laden with only the sorrow ?
दशा चक्रनेमिक्रमेण नीचै: उपरि च गच्छति States (of happiness and sorrow) keep turning around just as the spokes of a wheel keep going up and down

अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ? (In what meter is this verse composed ?)

नन्वात्मानं बहु विगणयन्नात्मनैवावलंबे | वर्णाः १७
(२-२-२)-(२ १-१) (१-१-१)-(२-२-१)-(२-२-१)-२-२ इति मात्राः
म-भ-न-त-त-ग-ग इति गणाः
तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् | वर्णाः १७
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा | वर्णाः १७
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण || वर्णाः १७

अत्र मन्दाक्रान्ता इति वृत्तम् | अस्य लक्षणपदम् – मंदाक्रान्तांबुधिरसनगैर्मो भनौ तौ गयुग्मम्७ Notes टिप्पणयः

७-१ I have a book of मेघदूतम् in Marathi, which also gives मल्लिनाथी टीका

  • मल्लिनाथी टीका is a commentary giving both analysis and interpretation by मल्लिनाथ. मल्लिनाथ has become well-known in Sanskrit literature for his commentaries on many books. And his style of commentary has become well-known as मल्लिनाथी टीका.
    • Only on reading the मल्लिनाथी टीका I corrected the संधि-विच्छेद of विगणयन्नात्मनैवावलंबे as विगणयन् + आत्मना =  विगणयन्नात्मना.
    • Before that I had done the संधि-विच्छेद as विगणयन् + न + आत्मना =  विगणयन्नात्मना. As संधि-विच्छेद this is not wrong. But it gives opposite meaning !
    • One has to be careful when doing संधि-विच्छेद. It has to give proper meaning !

७-२ I would rather quote मल्लिनाथी टीका of this श्लोक right here. It makes interesting reading and study.

  • नन्विति | नन्वित्यामन्त्रणे “प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु” (३-३-२४७) इत्यमरः | ननु प्रिये, बहु विगणयन् शापान्ते सत्येवमेवं करिष्यामीत्यावर्तयन् आत्मानमात्मनैव स्वेनैव | “प्रकृत्यादिभ्य उपसंख्यानम्” इति तृतीया | अवलम्बे धारयामि | यथाकथंचिज्जीवामीत्यर्थः | तत् तस्मात् कारणात् | हे कल्याणि सुभगे, त्वत्सौभाग्येनैव जीवामीति भावः | “बह्वादिभ्यश्च” (पा. सू. ४-१-४५) इति ङ्-ई-ष् | त्वमपि नितराम् अत्यन्तं कातरत्वम् भीरुत्वं मा गमः मा गच्छ | “न माङ्योगे” (पा. सू. ६-४-७४) इत्यडागमभावः | तादृक्सुखिनोरावयोरीदृशि दुःखे कथं न बिभेमीत्याशङ्क्याह – कस्येति | कस्य जनस्य अत्यन्तं नियतं सुखमुपनतं प्राप्तम् एकान्ततः नियमेन दुःखं वा उपनतम् | किं तु दशा अवस्था [चक्रनेमिक्रमेण] चक्रस्य रथाङ्गस्य नेमिस्तदन्तः | “चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्” (२-८-५६) इत्यमरः | तस्याः क्रमेण परिपाठ्या | “क्रमः शक्तौ परीपाठ्याम्” इति विश्वः | नीचैः अध उपरि च गच्छति प्रवर्तते | एवं जन्तोः सुखदुःखे पर्यावर्तेते इत्यर्थः |
  • As can be seen, in मल्लिनाथी टीका we get
    • Sanskrit-to-Sanskrit translation e.g. अवलम्बे = धारयामि, तत् = तस्मात् कारणात्, नितराम् = अत्यन्तं कातरत्वम् = भीरुत्वं, मा गमः = मा गच्छ, नीचैः = अध:, दशा = अवस्था etc., along with
    • supporting references from the Sanskrit Thesaurus अमरकोश, by phrases as इत्यमरः (or इति विश्वः another Thesaurus ?) and
    • grammatical detail from पा. सू.= पाणिनी-सूत्र for example, “न माङ्योगे” (पा. सू. ६-४-७४)
    • conventions of usage of विभक्ति e.g. “…”प्रकृत्यादिभ्य उपसंख्यानम्” इति तृतीया..”
    • मल्लिनाथी टीका presents all this in a single flowing paragraph. There are some words with intertwined long-winding conjunctions e.g.प्रश्नावधारणानुज्ञानुनयामन्त्रणे (= प्रश्न-अवधारण-अनुज्ञा-अनुनय-आमन्त्रणे) or यथाकथंचिज्जीवामीत्यर्थः (= यथाकथंचित् जीवामि इति अर्थः) or तादृक्सुखिनोरावयोरीदृशि (= तादृक् सुखिनो: आवयो: ईदृशि) which are seemingly complex for a stranger, but not really so, once one gets used to read and understand such Sanskrit. Rather, it makes interesting study.

७-३ It is interesting that entire मेघदूतम् is composed in मन्दाक्रान्ता-वृत्तम्. As the name of the meter itself suggests, the pace of this वृत्तम् is slow मन्द. There is poetic justification for this वृत्तम् to have been chosen by कालिदास. मेघदूतम् is basically narration of a message by यक्ष, who is going through an ordained period of separation from his beloved. Since he is heavy in mind, he can be delivering the message in a slow-paced meter. Also the messenger chosen is not a very intelligent one. It is only a cloud, that too a cloud of the rainy season, hence is a heavy rain-water-laden cloud. Such cloud will also have only a slow pace.

७-४ I seek guidance on the grammar of “१५ गमः “, especially in respect of the question marks “आज्ञार्थे (??)”. Meaning is understood, but the grammar is not.

शुभं भवतु ।
-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s