Learning Sanskrit by fresh approach – Lesson No. 97

Learning Sanskrit by fresh approach – Lesson No. 97
संस्कृतभाषायाः नूतनाध्ययनस्य सप्त-नवतितमः (९७) पाठः ।

At the forum samskrita@googlegroups.com an interesting discussion emerged on the following सुभाषितम् –

 दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥

Exercise 1 Rewrite these by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु ।

दानं भोग: नाश: तिस्र: गतय: भवन्ति वित्तस्य।
य: न ददाति न भुङ्क्ते तस्य तृतीया गति: भवति ॥

अत्र सन्धयः –

  1. भोगो नाशस्तिस्रो गतयो भवन्ति = भोग: नाश: तिस्र: गतय: भवन्ति
    • भोग: नाश: = भोगो नाश: (विसर्ग-संधिः)
    • नाश: तिस्र: = नाशस्तिस्र: (विसर्ग-संधिः)
    • तिस्र: गतय: = तिस्रो गतय: (विसर्ग-संधिः)
    • गतय: भवन्ति = गतयो भवन्ति (विसर्ग-संधिः)
  2. यो न = य: न (विसर्ग-संधिः)
  3. गतिर्भवति = गति: भवति (विसर्ग-संधिः)

all सन्धि-s are विसर्ग-संधि-s !

Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. (वित्तस्य) दानं भवति ।
  2. (वित्तस्य) भोग: भवति ।
  3. (वित्तस्य) नाश: भवति ।
  4. (इति) वित्तस्य तिस्र: गतय: भवन्ति ।
  5. य: (वित्तम्) न ददाति,
  6. (वा यः) (वित्तम्) न भुङ्क्ते,
  7. तस्य तृतीया गति: भवति ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
दानं वित्तस्य भवति प्रधान:
भोग: वित्तस्य भवति प्रधान:
नाश: वित्तस्य भवति प्रधान:
(इति) तिस्र: गतय: वित्तस्य भवन्ति प्रधान:
य: (वित्तम्) न ददाति गौणः
(वा) (यः) (वित्तम्) न भुङ्क्ते गौणः
तस्य तृतीया गति: भवति प्रधान:

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

Exercise ३ Decipher the compound words, and detail grammatical analysis of all words

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.

  1. (वित्तस्य) दानं भवति ।
  2. (वित्तस्य) भोग: भवति ।
  3. (वित्तस्य) नाश: भवति ।
  4. (इति) वित्तस्य तिस्र: गतय: भवन्ति
  5. य: (वित्तम्) न ददाति,
  6. (वा यः) (वित्तम्) न भुङ्क्ते,
  7. तस्य तृतीया गति: भवति ।

१ वित्तस्य “विद्” तुदादि (६) सेट् उ इति (= विल्लृ लाभे to gain, to acquire) धातुः । तस्मात् भूतकालवाचकं विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि “वित्त” (= what is acquired, wealth) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
२ दानम् “दा” इति जुहोत्यादि (३) अनिट् उ (= डुदाञ् दाने to give, to donate) धातुः । तस्मात् “दान” (= giving, donation, philanthropy) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३ भवति “भू” इति भ्वादि (१) सेट् प (=भ्वादि सत्तायाम् to be) धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
४ भोग: “भुज्” इति रुधादि (७) अनिट् उ (= पालनाभ्यवहारयोः to enjoy, to consume) धातुः । तस्मात् “भोग” (= enjoyment, consumption) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
५ नाश: “नश्” दिवादि (४) अनिट् वेट् प इति (= णश अदर्शने to become non-existent) धातुः । तस्य प्रयोजकात् “नाश” (= destruction) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
६ तिस्र: “त्रि” (= three) इति संख्यावाचकं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
७ गतय: “गम्” इति भ्वादि (१) अनिट् प (=गम्लृ गतौ to go) धातुः । तस्मात् “गति” (= going, speed, velocity, course of movement) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
८  भवन्ति “भू” इति भ्वादि (१) सेट् प (=भ्वादि सत्तायाम् to be) धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे बहुवचनम् ।
९ ददाति “दा” इति जुहोत्यादि (३) अनिट् उ (= डुदाञ् दाने to give, to donate) धातुः । अत्र परस्मैपदी । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
१० भुङ्क्ते “भुज्” इति रुधादि (७) अनिट् उ (= पालनाभ्यवहारयोः to enjoy, to consume) धातुः । अत्र आत्मनेपदी । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

  1. (वित्तस्य) दानं भवति । = Giving becomes of wealth
  2. (वित्तस्य) भोग: भवति । = Enjoyment becomes of wealth
  3. (वित्तस्य) नाश: भवति । = Non-existence becomes of wealth
  4. (इति) वित्तस्य तिस्र: गतय: भवन्ति । = (Like this) there are three courses for wealth
  5. य: (वित्तम्) न ददाति, = He who does not give wealth
  6. (वा यः) (वित्तम्) न भुङ्क्ते, = (Or he, who) does not enjoy wealth
  7. तस्य तृतीया गति: भवति ।= Such person suffers the third course

Overall Meaning –
Wealth can be (1) given; it can be (2) enjoyed or it can (3) suffer destruction. Like this there are three courses or options for wealth.
He, who has wealth (but) neither gives nor enjoys, (himself) suffers the third course – destruction !

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

दानं भोगो नाशस् – वर्णाः ६
२-२ २-२ २-२ इति १२ मात्राः
तिस्रो गतयो भवन्ति वित्तस्य । वर्णाः ११
२-२ १-१-२ १-२-१ २-२-(२) इति १८ मात्राः
यो न ददाति न भुङ्क्ते – वर्णाः ८
२ १ १-२-१ १ २-२ इति १२ मात्राः
तस्य तृतीया गतिर्भवति । वर्णाः १०
२-१ १-२-२ १-२-१-१-(२) इति १५ मात्राः

अत्र “आर्या”-नामकं मात्रावृत्तम्  । अस्य लक्षणम् –

यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि ।
अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ।।

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

६-१ In the first line, three courses/options of what can happen to wealth from the doer’s action are detailed. In the second line, what can happen to the doer, by improper action of doer with the wealth. This transposition of action from the acted upon to the actor is a sort of poetic figure of speech अर्थालङ्कार  Some 102 अर्थालङ्कार-s are listed at http://sanskritworld.in/alankara/ along with hyperlinks to explanations and examples of most of them. The अर्थालङ्कार here may qualify to be called as परिवृत्तिः
६-२ This सुभाषितम् does not speak about how wealth can grow. There is another सुभाषितम् which tells about wealth of knowledge, which just doesn’t get spent. न चोरहार्यम् न च राजहार्यम् । न भ्रातृभाज्यम् न च भारकारि । व्यये कृते वर्धत एव नित्यम् । विद्याधनम् सर्वधनप्रधानम् ॥ This was studied in Lesson # 16.
६-३ When counting syllabic instants मात्राः for the last quarter, तस्य तृतीया गतिर्भवति it should be noted that they were counted as २-१ १-२-२ १-२-१-१-(२)

  • The count for ति in गतिर्भवति is 2. This is because the next letter र्भ has two consonants together.
  • But count for स्य in तस्य तृतीया is only 1. The following letter तृ does not have two consonants. It is actually त् + ऋ (consonant + short vowel) and not त् + रु (=त्रु as in शत्रु) . Care has to be taken when pronouncing तस्य तृतीया. It must not be pronounced with any stress or emphasis on स्य. Unwarranted stress on स्य may cause तस्य तृतीया to get pronounced as तस्य त्रुतीया. That will be wrong.

शुभमस्तु !

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s