| पाठ-क्रमाङ्कः | सुभाषितम् |
| ८१ | विजेतव्या लङ्का चरणतरणीयो जलनिधिः । विपक्षः पौलस्त्यो रणभुवि सहाय्याश्च कपयः । तथाप्येको रामः सकलमवधीद्राक्षसकुलम् । क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ |
| ८२ | वनानि दहतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ।। |
| ८३ | अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ।। |
| ८४ | अमंत्रमक्षरं नास्ति नास्ति मूलमनौषधम् । अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥ |
| ८५ | न दैवमिति संचिन्त्य त्यजेदुद्योगमात्मनः । अनुद्यमेन तैलानि तिलेभ्यो नाप्तुमर्हति ।। |
| ८६ | योजनानां सहस्रं तु शनैर्गच्छेत्पिपीलिका । अगच्छन् वैनतेयो ऽ पि पदमेकं न गच्छति ।। |
| ८७ | सुश्रान्तो ऽ पि वहेद्भारं शीतोष्णं न च पश्यति । संतुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ।। |
| ८८ | स्तोकं स्तोकं ग्रसेद्-ग्रासं देहो वर्तेत यावता । गृहानहिंसन्नातिष्ठेद्-वृत्तिं माधुकरीं मुनिः ।। श्रीमद्भागवते ११-८-९ ।। |
| ८९ | अणुभ्यश्च महद्-भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्-पदः ।। श्रीमद्भागवते ११-८-१०।। |
| ९० | ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ! |
| ९१ | मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाप्येष यथा तव ।। श्रीरामायणे ।।६-१०९-२६।। |
| ९२ | यथा काष्ठं च काष्ठं च समायेतां महोदधौ । समेत्य च व्यपायेतां कालमासाद्य कञ्चन ।।१।। एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ।।२।। |
| ९३ | आचिनोति च शास्त्रार्थान् आचारे स्थापयत्यपि । स्वयमाचरते यस्तु तमाचार्यं प्रचक्षते ॥ |
| ९४ | बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न विद्यया केनचिदुद्ध्रृतं कुलं (अथवा – न छन्दसा केनचिदुद्ध्रृतं कुलं) हिरण्यमेवार्जय निष्फलाः कलाः ।।भर्तृ.सं.६२५।। |
| ९५ | पथ्ये सति गदार्तस्य किमौषधिनिषेवणैः । पथ्येऽसति गदार्तस्य किमौषधिनिषेवणैः ॥१।। अनधीते महाभाष्ये व्यर्था सा पदमञ्जरी । अधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ॥२।। |
| ९६ | सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव हि संपदः ॥ (किरातार्जुनीयम् २.३०) |
| ९७ | दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ |
| ९८ | जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।। – चाणक्य नीति ~ १२-२९ |
| ९९ | गुणेषु क्रियतां यत्नः किमाटोपैः भयंकरैः | विक्रीयन्ते न घण्टाभिः गाव: क्षीरविवर्जिता: || |
| १०० | सम्पूर्णकुंभो न करोति शब्दम् । अर्धो घटो घोषमुपैति नूनम् । विद्वान् कुलीनो न करोति गर्वम् । गुणैर्विहीना बहु जल्पयन्ति ॥ |
| १०१ | सुभाषितानि about “Bad times do not last forever.” |
| १०२ | नन्वात्मानं बहु विगणयन्नात्मनैवावलंबे | तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् | कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा | नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण || उत्तरमेघे ४६|| |
| १०३ | पूर्वं त्वयाप्यभिमतं गतमेवमासी- च्छ्लाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः । कालक्रमेण जगतः परिवर्तमाना | चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः || स्वप्नवासवदत्तम् – प्रथमाङ्के ४|| |
| १०४ | सुखमापतितं सेव्यं दुःखमापतितं तथा | चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च || |
| १०५ | देहबुद्ध्या तु दासोऽस्मि, जीवबुद्ध्या त्वदंशकः । आत्मबुद्ध्या त्वमेवाहं इति मे निश्चिता मतिः ।। |