Learning Sanskrit by fresh approach – Lesson No. 94

Learning Sanskrit by fresh approach – Lesson No. 94
संस्कृतभाषायाः नूतनाध्ययनस्य चतुर्नवतितमः (९४) पाठः ।

Recently an interaction at samskrita@googlegroups.comdwelt upon the following सुभाषितम् of भर्तृहरि  –

बुभुक्षितैर्व्याकरणं न भुज्यते
पिपासितैः काव्यरसो न पीयते ।
न विद्यया केनचिदुद्ध्रृतं कुलं
हिरण्यमेवार्जय निष्फलाः कलाः ।।भर्तृ.सं.६२५।।

One finds an optional version where –

  1. In the third line विद्यया is replaced by छन्दसा
  2. In the fourth line कलाः is replaced by गुणाः
बुभुक्षितैर्व्याकरणं न भुज्यते
पिपासितैः काव्यरसो न पीयते ।।
न छन्दसा केनचिदुद्ध्रृतं कुलं
हिरण्यमेवार्जय निष्फला गुणाः ।।भर्तृ.सं.६२५।।
Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् ।

बुभुक्षितै: व्याकरणं न भुज्यते
पिपासितैः काव्यरस: न पीयते ।
न विद्यया केनचित् उत्-धृतम् कुलं
हिरण्यम् एव अर्जय निष्फलाः कलाः ।।
बुभुक्षितै: व्याकरणं न भुज्यते
पिपासितैः काव्यरस: न पीयते
न छन्दसा केनचित् उत्-धृतम् कुलं
हिरण्यम् एव अर्जय निष्फलाः  गुणाः ।।
अत्र सन्धयः –
  1. बुभुक्षितैर्व्याकरणम् = बुभुक्षितै: व्याकरणम् । (विसर्ग-संधिः)
  2. काव्यरसो न = काव्यरस: न । (विसर्ग-संधिः)
  3. केनचिदुद्ध्रृतम् = केनचित् उत्-धृतम् । (व्यञ्जन-संधिः)
  4. हिरण्यमेवार्जय = हिरण्यम् एव अर्जय । (व्यञ्जन-संधिः) (स्वर-संधिः)
  5. निष्फला गुणाः = निष्फलाः  गुणाः । (विसर्ग-संधिः)
Exercise 2 (a) Paraphrase the clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु* के अत्र वाक्यांशाः ?
* कानि संबन्ध-सूचकानि ?
* कानि क्रियापदानि वा धातुसाधितानि ?
* कानि अत्र कर्तृपदानि ?
* कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  1. बुभुक्षितै: व्याकरणं न भुज्यते ।
  2. पिपासितैः काव्यरस: न पीयते ।
  3. केनचित् विद्यया (अथवा छन्दसा) कुलं न उत्-धृतम् ।
  4. (त्वम्) हिरण्यम् एव अर्जय ।
  5. कलाः (अथवा गुणाः) निष्फलाः (भवन्ति) ।

२-१ बुभुक्षितै: व्याकरणं न भुज्यते ।

  • २-१-१ कर्मणि-प्रयोगान्वितं नकारात्मकं च क्रियापदं “न भुज्यते” ।
  • २-१-२ कर्तृपदं “व्याकरणं” ।
  • २-१-३ कर्तरि-प्रयोगे कर्तृपदं “बुभुक्षिताः” । कर्मणि-प्रयोगे तृतीया-विभक्त्याम् ।

२-२ पिपासितैः काव्यरस: न पीयते ।

  • २-२-१ कर्मणि-प्रयोगान्वितं नकारात्मकं च क्रियापदं “न पीयते” ।
  • २-२-२ कर्तृपदं “काव्यरस:” ।
  • २-२-३ कर्तरि-प्रयोगे कर्तृपदं “पिपासिताः” । कर्मणि-प्रयोगे तृतीया-विभक्त्याम् ।

२-३ केनचित् विद्यया (अथवा छन्दसा) कुलं न उत्-धृतम् ।

  • २-३-१ कर्मणि-प्रयोगान्वितं भूतकालवाचकं नकारात्मकं धातुसाधितं विशेषणम् “न उद्धृतम्” ।
  • २-३-२ धातुसाधितस्य विशेष्यपदं “कुलं” ।

२-४ (त्वम्) हिरण्यम् एव अर्जय ।

  • २-४-१ क्रियापदं “अर्जय” ।
  • २-४-२ अध्याहृतं कर्तृपदं “(त्वम्)” ।
  • २-४-३ कर्मपदं “हिरण्यम्” ।

२-५ कलाः (अथवा गुणाः) निष्फलाः (भवन्ति) ।

  • २-५-१ अकर्मकं क्रियापदं “भवन्ति” ।
  • २-५-२ कर्तृपदं “कलाः (अथवा गुणाः)” ।
  • २-५-३ पूरकपदं “निष्फलाः” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

बुभुक्षितै: व्याकरणं न भुज्यते

३-१ बुभुक्षितै: “भुज्” ७ उ (= to eat, to consume) इति धातुः । तस्मात् इच्छादर्शकः धातुः “बुभुक्ष्” (= to wish eating, to be hungry) । तस्मात् भूतकालवाचकं विशेषणम् “बुभुक्षित” (= hungry) । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।

३-२ व्याकरणम् “वि + आ + कृ” ८ उ (= to analyze, to detail) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “व्याकरण” (= analysis, scientific research, grammar) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-३ न (= no, not) इति अव्ययम् ।
३-४ भुज्यते “भुज्” ७ उ (= to eat, to consume) इति धातुः । कर्मणि-प्रयोगे आत्मनेपदी । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।२ पिपासितैः काव्यरस: न पीयते

३-५ पिपासितैः “पा” १ प (= to drink) इति धातुः । तस्मात् इच्छादर्शकः धातुः “पिपास्” (= to wish to drink) । तस्मात् भूतकालवाचकं विशेषणम् “पिपासित” (= thirsty) । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।
३-६ काव्यरस: “काव्यरस” इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-६-१ काव्यस्य रसः काव्यरसः । षष्ठी-तत्पुरुषः ।
  • ३-६-२ काव्यस्य “कव्” १ आ (= to compose, to paint, to picturise) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि “काव्य” (= imagery, poetry, poem) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-६-३ रसः “रस्” १० उ (= to taste, to relish, to be juicy) इति धातुः । तस्मात् पुल्लिङ्गि नाम “रस” (= juice, flavour, essence, relish) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-६-४ काव्यरस: = relish of poetry

३-७ पीयते “पा” १ प (= to drink) इति धातुः । कर्मणि-प्रयोगे आत्मनेपदी । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

३ केनचित् विद्यया (अथवा छन्दसा) कुलं न उत्-धृतम्

३-८ केनचित् = केन-चित्

  • ३-८-१ केन “किम्” (= what, who) इति प्रश्नार्थकं सर्वनाम । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-८-२ चित् (= any) इति प्रत्ययः ।
  • ३-८-३ केनचित् = anyone
३-९ विद्यया “विद्” २ प (= to know, to gain knowledge) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “विद्य” (= what should be known) । अत्र स्त्रीलिङ्गि नाम अपि “विद्या” (= knowledge) । तस्य तृतीया विभक्तिः एकवचनम् च ।
३-१० अथवा (= or) इति अव्ययम् ।
३-११ छन्दसा “छन्द्” १० उ (= to please, to gratify, to be delighted in) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “छन्दस्” (= fancy) ।
३-१२ कुलम् “कुल” (= family) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१३ उद्धृतम् “उत् + धृ” १, १० उ (= to uplift) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “उद्धृत” (= uplifted) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

४ “(त्वम्) हिरण्यम् एव अर्जय
एतस्मिन् वाक्यांशे –३-१४ त्वम् “युष्मद्” (= pronoun of second person, you) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-१५ हिरण्यम् “हिरण्य” (= diamond, wealth) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१६ एव (= only) इति अव्ययम् ।
३-१७ अर्जय “अर्-ज् ” १ प  (= to procure, to earn) इति धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् ।

५ कलाः (अथवा गुणाः) निष्फलाः (भवन्ति) ।

३-१८ कलाः “कल्” १० उ (= to hold, to bear, to reckon, to think of) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “कला” (= art, skill) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-१९ गुणाः “गुण” (= quality) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-२० निष्फलाः “निष्फल” इति उपसर्गसहितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-२०-१ निः (निष्) + फल = निष्फल ।
  • ३-२०-२ निः (निष्) (= न भवति अस्य not having) इति नकारात्मकः उपसर्गः ।
  • ३-२०-३ “फल” (= fruit) इति नपुंसकलिङ्गि नाम ।
  • ३-२०-४ निष्फल = न भवति फलं यस्य तत् । नञ्-बहुव्रीहिः । निष्फल =bearing no fruit, fruitless

३-२१ भवन्ति “भू” १ प (= to be, to become) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

४–१ बुभुक्षितै: व्याकरणं न भुज्यते । = Grammar cannot be eaten by the hungry, i.e. hunger cannot be quelled by grammar
४-२ पिपासितैः काव्यरस: न पीयते । = Nectar of poetry cannot be drunk by the thirsty, i.e. thirst cannot be quenched by nectar of poetry

४-३ केनचित् विद्यया (अथवा छन्दसा) कुलं न उत्-धृतम् । = No one can uplift one’s family (merely) by knowledge and intelligence (or by poetry).
४-४ (त्वम्) हिरण्यम् एव अर्जय । = (You) better earn wealth.
४-५ कलाः (अथवा गुणाः) निष्फलाः (भवन्ति) । = Artistic skills (or mere qualities) will bear no fruit.
Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
We have to first put the verse in four quarters –
बुभुक्षितैर्व्याकरणं न भुज्यते । वर्णाः १२

(१-२-१)-(२-२-१)-(१-२ १) (२-१-२) इति मात्राः ।
ज-त-ज-र इति गणाः ।
पिपासितैः काव्यरसो न पीयते । वर्णाः १२
(१-२-१)-(२ २-१)-(१-२ १) (२-१-२) इति मात्राः ।
ज-त-ज-र इति गणाः ।
न छन्दसा केनचिदुद्ध्रृतं कुलम् । वर्णाः १२
(१ २-१)-(२ २-१)-(१-२-१)-(२-१-२) इति मात्राः ।
ज-त-ज-र इति गणाः ।

हिरण्यमेवार्जय निष्फला  गुणाः । वर्णाः १२

(१-२-१)-(२-२-१) (१ २-१) (२-१-२) इति मात्राः ।
ज-त-ज-र इति गणाः ।

अत्र “वंशस्थविल”-छन्दः । अयम् छन्दः “वंशस्थ” अथवा “वंशस्तनित” एवमपि ज्ञायते ।
अस्य लक्षणपदम् – वदंति वंशस्थविलं जतौ जरौ ।
Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?
६-१ In the third line the interrogative is intelligently employed to suggest the negative.
६-२ The use of passive voice in lines 1 and 2 seems to help bring forth strikingly the ironies between hunger and indulgence in grammar and between thirst and indulgence in poetic imagery
Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?
७-१ The सुभाषितम् summarises practical wisdom about foremost need to earn wealth to first satisfy at least the basic necessities.
Exercise 8 Comments, Notes, Observations, if any.
टिप्पणयः ।
८-१ In economics, human wants are classified into three categories – needs, comforts and luxuries. The सुभाषितम् suggests that satisfaction of comforts and luxuries should be only after basic needs are satisfied. Thus, it prioritizes objectives of human endeavor.८-२ The conclusion कलाः (अथवा गुणाः) निष्फलाः (भवन्ति) however does not seem convincing. There are many people who employ their artistic skills to be the means of their livelihood also. Or, this phrase can be translated to mean, “artistic skills (or good qualities) are meaningless, if one cannot satisfy basic necessities.”

८-३ Conventional meaning of the word व्याकरण is grammar. However considering that its derivation is from the verb (वि + आ + कृ) it can as well be interpreted as “analysis”, “scientific research”. Thus व्याकरण need not be a mere academic engagement. It can very much be a professional involvement.

८-४ Between the two versions for line 3 – (1) न विद्यया केनचिदुद्धृतम् कुलम् (2) न छन्दसा केनचिदुद्धृतम् कुलम् the second one seems to be less controversial, especially considering छन्दसा to mean ‘being fanciful’ i.e. ‘to be lost in one’s own fancies’, which certainly is not any appropriate endeavor.

८-५ Between the two versions for line 4, – (1) निष्फलाः कलाः (2) निष्फलाः गुणाः the first one seems less controversial. गुणाः i.e. qualities, rather, virtues should never be deemed to be निष्फलाः However कलाः may prove निष्फलाः if one does not get opportunities to exhibit them to right audience, who will reward them appropriately.

८-६ There have been many kings and emperors who rewarded poets, artists, etc. It comes to mind how important it is to have stable sociopolitical environment and flourishing economy, which can help arts also to thrive. The सुभाषितम् seems to very much suggest this that in an economy where hunger and thirst are ravaging the social life, more exalted human endeavours of grammar, scientific research, poetry, arts, etc. cannot thrive.

८-७ Recent (March 2011) instances of Tsunami and earthquakes and damage to nuclear reactors in Japan also bring home the truth of this सुभाषितम् For the people ravaged by the calamities, the first and foremost concern is security of life. There is a proverb in Hindi “सर सलामत तो पगडी पचास” meaning, “If the head is in its place, it can wear fifty different hats.” The सुभाषितम् is interesting and meaningful for its message, emphasizing the need to prioritize objectives of human endeavor.

शुभमस्तु ।

-o-O-o-

3 thoughts on “Learning Sanskrit by fresh approach – Lesson No. 94

  1. I think the correct reading of line 3 in the verse should be न च्छ्न्दसा and not न छन्दसा…

    Arvind Kolhatkar, Toronto, June 16, 2011.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s