Learning Sanskrit by fresh approach – Lesson No. 93

Learning Sanskrit by fresh approach – Lesson No. 93
संस्कृतभाषायाः नूतनाध्ययनस्य त्रिनवतितमः (९३) पाठः ।

My other blog “study of Sanskrit and GeetA together” keeps me so engrossed that this Lesson No. 93 is happening after a long time. By the way, this lesson is prompted by a definition of the word आचार्य provided by Dr. H. N. Bhat of Pondichery as a comment on shloka-s in first अध्याय of श्रीमद्भगवद्गीता which have the word आचार्य. Here is the definition of an आचार्य –

आचिनोति च शास्त्रार्थान् आचारे स्थापयत्यपि ।
स्वयमाचरते यस्तु तमाचार्यं प्रचक्षते ॥
Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् ।

आचिनोति च शास्त्र-अर्थान् आचारे स्थापयति अपि ।
स्वयम् आचरते य: तु तम् आचार्यं प्रचक्षते ।।

अत्र सन्धयः –
  1. शास्त्रार्थान् = शास्त्र-अर्थान् ।
  2. स्थापयत्यपि = स्थापयति अपि ।
  3. स्वयमाचरते = स्वयम् आचरते ।
  4. यस्तु = य: तु ।
  5. तमाचार्यम्  = तम् आचार्यम्  ।
Exercise 2 (a) Paraphrase the clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

* के अत्र वाक्यांशाः ?
* कानि संबन्ध-सूचकानि ?
* कानि क्रियापदानि वा धातुसाधितानि ?
* कानि अत्र कर्तृपदानि ?
* कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  1. (य:) शास्त्र-अर्थान् आचिनोति च
  2. (य:) आचारे स्थापयति अपि ।
  3. य: तु स्वयम् आचरते
  4. तम् आचार्यं प्रचक्षते ।

२-१ (य:) शास्त्र-अर्थान् आचिनोति च

  • क्रियापदं “आचिनोति” । अध्याहृतं कर्तृपदं “(य:)” । कर्मपदं “शास्त्र-अर्थान्” ।

२-२ (य:) आचारे स्थापयति अपि

  • क्रियापदं “स्थापयति” । अध्याहृतं कर्तृपदं “(य:)” ।

२-३ य: तु स्वयम् आचरते ।

  • क्रियापदं “आचरते” । कर्तृपदं “य:” ।

२-४ तम् (मनुजः) आचार्यं प्रचक्षते ।

  • क्रियापदं “प्रचक्षते” । अध्याहृतं कर्तृपदं “(मनुजः)” । कर्मपदं “तम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

“(य:) शास्त्रार्थान् आचिनोति च” एतस्मिन् वाक्यांशे –

३-१ यः “यत्” (= which, what, who) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२ शास्त्रार्थान् “शास्त्रार्थ” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • ३-२-१ शास्त्राणि  च अर्थाः च इति शास्त्रार्थाः । इतरेतर-द्वंद्वः ।
  • ३-२-२ शास्त्राणि “शास्” २ प (= to regulate) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “शास्त्र” (= science) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • ३-२-३ अर्थाः “अर्थ” (= meaning, interpretation, wealth, essence underlying various fields of knowledge) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • ३-२-४ शास्त्रार्थाः = sciences and essence underlying various fields of knowledge

३-३ आचिनोति “आ + चि” ५ उ (= to collect, to gather, to detail, to explain) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
३-४ च (= and) इति अव्ययम् ।

“(य:) आचारे स्थापयति अपि” एतस्मिन् वाक्यांशे –

३-५ आचारे “आ + चर्” २ प (= to behave) इति धातुः । तस्मात्  पुल्लिङ्गि नाम “आचार” (= behavior, conduct) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-६ स्थापयति  “स्था” १ प (= to stand) इति धातुः । तस्य प्रयोजकस्य (= to set up) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
३-७ अपि (= also) इति अव्ययम् ।

“य: तु स्वयम् आचरते” एतस्मिन् वाक्यांशे –

३-८ तु (= but, whereas) इति अव्ययम् ।

३-९ स्वयम् (= by oneself) इति अव्ययम् ।
३-१० आचरते “आ + चर्” २ प अत्र आत्मनेपदी (= to behave, to conduct oneself) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

“तम् (मनुजः) आचार्यं प्रचक्षते” एतस्मिन् वाक्यांशे –

३-११ तम् “तत्” (= that, he, she, it) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-१२ मनुजः “मनुज” इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१२-१ मनोः जातः इति मनुजः । उपपद-तत्पुरुषः ।
  • ३-१२-२ मनोः “मनु” (= first human, Adam) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-१२-३ जातः “जन्” ४ आ (= to be born) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “जात” (= born) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१२-४ मनुजः = a descendant of Manu (or Adam, hence,) a man, person of human race

३-१३ आचार्यम् “आ + चर्” २ प अत्र आत्मनेपदी (= to behave, to conduct oneself) इति धातुः । तस्मात् पुल्लिङ्गि नाम “आचार्य” (= precept, Guru, teacher) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१४ प्रचक्षते “प्र + चक्ष्” २ आ (= to see, to regard) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

४-१ (य:) शास्त्र-अर्थान् आचिनोति च = He, who explains sciences and essence underlying various fields of knowledge
४-२ (य:) आचारे स्थापयति अपि = he, who imbibes them in the conduct (of the disciples)

४-३ य: तु स्वयम् आचरते = he, who exemplifies by his own conduct
४-४ तम् आचार्यं प्रचक्षते । = (only such) person is to be regarded as a precept.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

We have to first put the verse in four quarters –

आचिनोति च शास्त्रार्थान् । वर्णाः ८
आचारे स्थापयत्यपि । वर्णाः ८
स्वयमाचरते यस्तु । वर्णाः ८
तमाचार्यं प्रचक्षते । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।। This अनुष्टुभ् छन्दः is so commonly used for composing सुभाषितानि and we have analyzed it so often, that I may not detail the analysis every time.

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. The statements in this verse are plain statements without any literary decorations.

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

७-१ The सुभाषितम् presents a definition of an आचार्य.

Exercise 8 Comments, Notes, Observations, if any.
टिप्पणयः ।
८-१ What appeals to me, to be the most important aspect of this definition of an आचार्य is his exemplifying his precepts by his own conduct.

८-२ There are three nouns derived from the verb चर् – विचार (i.e. thoughts) उच्चार (i.e. speaking or words) आचार (i.e. actions, conduct). A person fit to be called as आचार्य has to exemplify unanimity in mind, word and deed.

८-३ Opening sentence in a lesson in a textbook, which I studied as a schoolboy, has stayed stuck in my memory. The sentence was “Gandhiji taught by example.”

८-४ We do need precepts when embarking on exploring any field of knowledge. A person fit to be an आचार्य and a person fit to be his शिष्य needs a good match between the two. In a sermon a saintly person said, “People want to call me a गुरु. But only those persons can call me as their गुरु, whom I would accept to be my शिष्य.” A match between a गुरु and a शिष्य seems to be essentially a one-to-one correspondence, which may often happen only providentially, especially on the path of spiritual progress.

शुभमस्तु ।

-o-O-o-

2 thoughts on “Learning Sanskrit by fresh approach – Lesson No. 93

  1. प्र+ चक्षते is present tense 1st person plural. Not singular.

    Please correct it for the meaning also.

    “चक्षिङ् व्यक्तायां वाचि” = to speak, to call explicitly,

    प्र-चष्टे। प्र-चक्षाते। प्र-चक्षते। is the normal conjugation for 2nd category.

    People call him as आचार्य. or he is called a आचार्य by people.

  2. Sorry, instead of saying प्रथमपुरुष I too confused and used 1st person in English. Please read it correctly as 3rd person of English syntax.

    It is प्रथमपुरुष-बहुवचनम्। of लट्

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s