Learning Sanskrit by fresh approach – Lesson No. 92

Learning Sanskrit by fresh approach – Lesson No. 92
संस्कृतभाषायाः नूतनाध्ययनस्य द्विनवतितमः (९२) पाठः ।

A lot of discussion was prompted by the following सुभाषितम् posted recently at samskrita@googlegroups. Here is a study of the सुभाषितम् –

यथा काष्ठं च काष्ठं च समायेतां महोदधौ ।
समेत्य च व्यपायेतां कालमासाद्य कञ्चन ।।१।।

एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ।।२।।

Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् ।

यथा काष्ठं च काष्ठं च समायेतां महोदधौ ।
समेत्य च व्यपायेतां कालं आसाद्य कञ्चन ।।१।।

एवं भार्या: च पुत्रा: च ज्ञातय: च धनानि च ।
समेत्य व्यवधावन्ति ध्रुवः हि एषां विनाभवः ।।२।।

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.
स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ यथा काष्ठं च काष्ठं च महोदधौ समायेताम् ।
अकर्मकं क्रियापदं “समायेताम्” । कर्तृपदं “काष्ठं च काष्ठं च” ।
२-२ समेत्य कञ्चन कालं आसाद्य च ।
धातुसाधितं “समेत्य” । अध्याहृतं कर्तृपदं “काष्ठं च काष्ठं च” ।
धातुसाधितं “आसाद्य” । कर्मपदं “कालम्” ।२-३ व्यपायेताम् ।
क्रियापदं “व्यपायेताम्” । अध्याहृतं कर्तृपदं “काष्ठं च काष्ठं च” ।
२-४ एवं भार्या: च पुत्रा: च ज्ञातय: च धनानि च समेत्य व्यवधावन्ति ।
“भार्या: च पुत्रा: च ज्ञातय: च धनानि च समेत्य” इति गौण-वाक्यांशः । धातुसाधितं “समेत्य” । कर्तृपदं “भार्या: च पुत्रा: च ज्ञातय: च धनानि च” ।
“(भार्या: च पुत्रा: च ज्ञातय: च धनानि च) व्यवधावन्ति” इति प्रधान-वाक्यांशः । क्रियापदं “व्यवधावन्ति” । अध्याहृतं कर्तृपदं “(भार्या: च पुत्रा: च ज्ञातय: च धनानि च)” ।
२-५ एषां विनाभवः ध्रुवः हि (अस्ति) ।
अध्याहृतं क्रियापदं “अस्ति” । कर्तृपदं “विनाभवः” । पूरकम् “ध्रुवः” ।
Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१यथा (= as, like) इति अव्ययम् ।
३-२ काष्ठम् “काष्ठ” (= wood, log of wood) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-३ समायेताम् “सम् + आ + अय्” १ आ (= to come together) इति धातुः । तस्य आज्ञार्थे प्रथमपुरुषे द्विवचनम् ।
३-४ महोदधौ “महोदधि” (= large reservoir of water, ocean) इति सामासिकं नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-४-१ उदकं धियति = उदधिः । उपपद-तत्पुरुषः ।
  • ३-४-२ महान् उदधिः = महोदधिः । कर्मधारयः ।
  • When महत् is पूर्वपदम् of a compound word, it is, in some instances substituted by महा ।
  • महा + उदधिः = महोदधिः ।
  • ३-४-३ उदकम् “उदन्” (= water) इति नपुंसकलिङ्गि नाम ।
  • “उदन्” has no forms in first five cases. Instead, forms of उदक are used.
  • In उदकं धियति it is object of verb धियति Hence the form is द्वितीया विभक्तिः एकवचनम् ।
  • ३-४-४ धियति “धि” ६ प (= to store) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
  • ३-४-५ महान् “महत्” (= large) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-५ समेत्य “सम् + आ + इ” २ प (= to come together, to meet) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “समेत्य” (= on meeting) ।
३-६ व्यपायेताम्  “वि + अप + आ + अय्” १ आ (= to go away, to separate) इति धातुः । तस्य आज्ञार्थे प्रथमपुरुषे द्विवचनम् ।
३-७ कालम्  “काल” (= time) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-८ आसाद्य  “आ + साद्” १० उ (= to let go) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “आसाद्य” (= on letting go) ।
३-९ कञ्चन (कम् + चन)

  • ३-९-१ कम् “किम्” (= what, who) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-९-२ चन (= some) इति अनिश्चित-संख्यावाचकः प्रत्ययः । “चन” is a suffix denoting indefinite number often suffixed to forms of the pronoun किम् ।
  • ३-९-३ कञ्चन = somewhat

३-१० एवम् (= like that) इति अव्ययम् ।
३-११ भार्या: “भार्या” (= wife) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-१२ च (= and) इति अव्ययम् ।
३-१३ पुत्रा: “पुत्र” (= son) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-१४ ज्ञातय: “ज्ञा” ९ उ (= to know) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “ज्ञाति” (= one who is known, acquaintance, relative) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-१४-१ “ज्ञाति” has also a meaning as ‘a class of people having particular knowledge or skill’ hence, ‘caste’. People of a caste do have a natural bond of acquaintance among them.

३-१५ धनानि “धन” (= wealth) इति नपुम्सकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-१६ व्यवधावन्ति “वि + अव + धाव्” १ प (= to separate, to go away) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।
३-१७ ध्रुवः “ध्रुव” (= definite) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१८ हि (= only) इति अव्ययम् ।
३-१९ एषाम् “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
३-२० विनाभवः “विनाभव” (= separation, parting) इति सामासिकं विशेषणम् तथा पुल्लिङ्गि नाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२०-१ (यः) भवं विना (सः) = विनाभवः । बहुव्रीहिः ।
  • ३-२०-२ भवम् “भू” १ प (= to be, to exist) इति धातुः । तस्मात् “भव” (= existence) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-२०-३ विना (= without) इति अव्ययम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

४-१ यथा काष्ठं च काष्ठं च महोदधौ समायेताम् । = Just as logs of wood come together in an ocean

४-२ समेत्य कञ्चन कालं आसाद्य च व्यपायेताम् । = staying together and after passage of some time, may separate

४-३ एवं भार्या: च पुत्रा: च ज्ञातय: च धनानि च समेत्य व्यवधावन्ति । = likewise, wives, sons, relatives and acquaintances and wealth would be (with you) and would go away
४-४ एषां विनाभवः ध्रुवः हि (अस्ति) । = their separation, vanishing away is definite (is bound to happen).

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

We have to first put the verse in four quarters –

यथा काष्ठं च काष्ठं च । वर्णाः ८
१-२ २-२ १ २-२ (२) इति मात्राः ।
समायेतां महोदधौ । वर्णाः ८
१-२-२-२ १-२-१-२ इति मात्राः ।
समेत्य च व्यपायेतां । वर्णाः ८
१-२-२ २ १-२-२-२ इति मात्राः ।
कालमासाद्य कञ्चन । वर्णाः ८
२-१-२-२-१ २-१-(२) इति मात्राः ।

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?
१. The example of logs of wood meeting and separating is used as a ‘simile’ उपमालङ्कारः to explain the meeting with and separation from people.

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

७-१ The सुभाषितम् seems to make a simple statement about meeting with and separation from people being a fact of life. Does it also suggest that one should keep equanimity of mind, especially at times of separation from near and dear ones ?

Exercise 8 Comments, Notes, Observations, if any.
टिप्पणयः ।

८-१ In the discussions at samskrita@googlegroups, Mr. Arvind Kolhatkar provided this alternate version –

यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तथा भूतसमागमः॥

८-२ I had contributed the following comment –
In Apte’s dictionary भवः = Being, State of being, Existence.
And विना = Without, Except
So, विनाभवः = Being without
Interestingly the sequence of the words seems to get totally altered, when deriving the meaning of विनाभवः = भवं विना = separation, parting.
The सुभाषितम् quoted by you brings to mind a Marathi song / poem –

दोन ओंडक्यांची होते सागरात भेट ।
एक लाट तोडी दोघा पुन्हा नाहि गांठ ।।

“Two logs may meet in an ocean. One wave breaks them apart …. and there is no meeting again !”
Does this not really duplicate the wording of this सुभाषितम् ?
I suspect the Marathi poet had this सुभाषितम् only in mind, when composing these lines !

८-३ Actually all the discussion started off by a query about the meaning of the word विनाभवः in this सुभाषितम्
Shri. H. N. Bhat provided following detail to explain the word –
विनाभवः-ऋदोरप् छान्दसः, विप्रयोग इति यावत् ।। 3 ।।
अमृतकतकाख्यव्याख्या

विनाभवो विनावस्थानम् ।
Bhushana by Govindaraja
Tilaka by Nagoji Bhatta or Ramavarma (1730-1810)

विनाभवः विनाभवनम्, विनावस्थानमिति यावत् ।
Tirtha or Tattvadipa by Mahesvara Tirtha
Shri. Arvind Kolhatkar also provided the following information – Looking for विनाभव on the internet, I came across the following verse
from श्रीरामायणम्, where Rama says to Seeta the following in the context of
चित्रकूट mountain:

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥
This verse from श्रीरामायणम् also makes an interesting study. Without going into complete analysis, first the verse can be rewritten as follows after breaking the conjugations संधि-विच्छेदान् कृत्वा  –
न राज्यात् भ्रंशनं भद्रे न सुहृद्भि: विनाभवः ।
मन: मे बाधते दृष्ट्वा रमणीयम् इमं गिरिम् ॥
By prose syntax अन्वय –
भद्रे, इमं रमणीयम् गिरिम् दृष्ट्वा राज्यात् भ्रंशनं मे मनः न बाधते सुहृद्भिः विनाभवः (मे मनः) न (बाधते) ।
And the meaning becomes –
(My) fair lady ! On seeing this enchanting mountain, my mind is not worried of eviction from the kingdom, nor is it worried of separation from near and dear ones !

शुभमस्तु ।

-o-O-o-

One thought on “Learning Sanskrit by fresh approach – Lesson No. 92

  1. The original verse in Ramayana (with variations in readings) is as follows:
    यथा काष्ठं च काष्ठं च समेयातां महार्णवे।
    समेत्य च व्यपेयातां कालमासाद्य कंचन॥ २-१०५-२६
    एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च।
    समेत्य व्यवधावन्ति ध्रुवो ह्येषाम् विना भवः॥ २-१०५-२७
    yathā kāṣṭhaṁ ca kāṣṭhaṁ ca sameyātām mahārṇave |
    sametya ca vyapeyātāṁ kālamāsādya kaṁcana || 2-105-26
    evaṁ bhāryāś ca putrāś ca jñātayaś ca vasūni ca |
    sametya vyavadhāvanti dhruvo hyeṣām vinā bhavaḥ || 2-105-27

    26, 27. yathaa= how; mahaarNave= in a great ocean; kaaSThamcha= a drift-wood; kaaSThamcha= and another drift-wood; sameyaataam= meet; sametya= together; aasaadya= getting; kaMchana= a certain; kaalam= time; vyapeyaataamcha= and separate; evam- in the same manner; bhaaryaashcha= wives; putraashcha= children; jJNaatayashcha= relatives; dhanaani cha= and riches; sametya= having come together; vyapadhaavanti= and separate; eSaam= their; vinaabhavaH= parting; dhruvohi= is indeed inevitable.
    “As pieces of drift-wood floating on the ocean coe toghether for a span, so wives, children, kinsmen wealth and property come together for a while and part with us. Their parting in deed inevitable.” (The parting with them is inevitable).

    The complete idea interpreted in Mahabharata below.

    15 यथा काष्ठं च काष्ठं च समेयातां महॊदधौ
    समेत्य च व्यपेयातां तद्वद भूतसमागमः
    16 एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा
    तेषु स्नेहॊ न कर्तव्यॊ विप्रयॊगॊ हि तैर्ध्रुवम॥
    (Mahabharata Book 12 Chapter 168)

    “समेयाताम् महार्णवे” The reading of the verb confirms with other used verbs in the vrse Prefix+i =gatau (to move) a verb of movement regularly prefixed to give the intended sense, than अय gatau.

    And for the derivation of महोदधि the available derivation is from the root उद[क] + धा + कि = उदधिः. ३. ३. ९३ कर्मणि अधिकरणे च । इति “डु धाञ् धारणपोषणयोः” इति धातोः किः प्रत्यये, उदकानि अस्मिन् धीयन्ते इति विवक्षिते, “उदकस्योदः संज्ञायाम्” ६. ३. ५८ पेषं-वास-वाहनधिषु च” इति उदकस्य “उद” इत्यादेशे, उद+धि >> उदधिः इति पाणिनीया प्रक्रिया। एवमेव जलधिः इत्यादौ।

    The word विनाभव is used only in Ramayana only in Ramayana places in the sense of विनाभाव: (separation):

    Rām, Ay, 88, 3.1
    na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ /

    Rām, Ay, 98, 26.2
    sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ //

    Rām, Utt, 49, 4.1
    vyaktaṃ daivād ahaṃ manye rāghavasya vinābhavam

    and not in even in Mahabharata, as obvious in the reproduction above, though it retakes the same first part of the verses verbatim. It is considered as archaic because of the irregular compound formation for meaning separation nor it is to be classified under Bahuvrihi as it doesn’t comply with the conditions required for Bahuvrihi. At the best it can be considered like TatpuruSha, but not complying with its conditionsns, nor AvyayIbhaava, which would make it only another avyaya (indeclinable).

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s