Learning Sanskrit by fresh approach – Lesson No. 91

Learning Sanskrit by fresh approach – Lesson No. 91
संस्कृतभाषायाः नूतनाध्ययनस्य एकनवतितमः (९१) पाठः ।

It was mentioned towards the end of the previous lesson, that the मन्त्रः ॐ सहनाववतु can be appropriate for signing a treaty at the end of a war. That prompts study of this श्लोक in श्रीरामायणम् –

मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् ।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ।।
– श्रीरामायणे ।।६-१०९-२६।।
Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् ।

मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् ।
क्रियताम् अस्य संस्कारः मम अपि एष: यथा तव ।।

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

२-१ वैराणि मरणान्तानि (मन्येत) ।

  • अध्याहृतं क्रियापदं “मन्येत” । अध्याहृतं कर्तृपदं “भवान्” अथवा “जनः” । कर्मपदम् “वैराणि” ।
  • भवान् (अथवा जनः) वैराणि कथं मन्येत ? (भवान्) वैराणि मरणान्तानि (मन्येत) ।

२-२ नः प्रयोजनम् निवृत्तं (अस्ति) ।

  • अध्याहृतं क्रियापदं “अस्ति” । कर्तृपदं “प्रयोजनम्” । पूरकपदम् “निवृत्तम्” ।

२-३ अस्य संस्कारः क्रियताम् ।

  • क्रियापदं “क्रियताम्” । कर्तृपदं “संस्कारः” ।

२-४ एषः यथा तव (अस्ति) (तथा) मम अपि (अस्ति) ।

  • “एषः यथा तव (अस्ति)” इति गौण-वाक्यांशः । अध्याहृतं क्रियापदं “अस्ति” । कर्तृपदं “एषः” ।
  • “(तथा) (एषः) मम अपि (अस्ति)” इति प्रधान-वाक्यांशः । अध्याहृतं क्रियापदं “अस्ति” । अध्याहृतं कर्तृपदं “एषः” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१मरणान्तानि “मरणान्त” (= up to death) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-१-१ मरणं अन्तः यस्य तत् = मरणान्तम् । बहुव्रीहिः ।
  • ३-१-२ मरणम् “मृ” ६ आ (= to die) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “मरण” (= death) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-१-३ अन्तः “अन्त” (= end) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-२ वैराणि “वैर” (= enmity) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३ निवृत्तम् “नि + वृत्” १ आ (= to finish, to retire) इति धातुः । तस्मात् कर्मणि-प्रयोगात्मकं भूतकालवाचकं विशेषणम् “निवृत्त” (= retired, accomplished) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-४ नः  “अस्मद्” (= pronoun of first person – I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
३-५ प्रयोजनम् “प्र + युज्” ७ उ (= to employ, to plan) इति धातुः । तस्य प्रयोजकात् नपुंसकलिङ्गि नाम “प्रयोजन” (= objective) । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-६ क्रियताम्  “कृ” ८ उ (= to do) इति धातुः । तस्य कर्मणि-प्रयोगे आज्ञार्थे प्रथमपुरुषे एकवचनम् ।
३-७ अस्य  “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३-८ संस्कारः  “सम् + कृ” ८ उ (= to conduct rituals) इति धातुः । तस्मात् पुल्लिङ्गि नाम “संस्कार” (= rite, ritual) । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-९ मम “अस्मद्” (= pronoun of first person – I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३-१० अपि (= also) इति अव्ययम् ।
३-११ एष: “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१२ यथा (= as) इति अव्ययम् ।
३-१३ तव “युष्मद्” (= pronoun of second person – you) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
३-१४ मन्येत “मन्” ४ ८ आ (= to regard) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

४-१ भवान् (अथवा जनः) वैराणि मरणान्तानि (मन्येत) । = You (or anybody) should regard enmities to be ending with death.

४-२ नः प्रयोजनम् निवृत्तं (अस्ति) । = Our objective has been achieved.

४-३ अस्य संस्कारः क्रियताम् । = Do the rituals for him.
४-४ एषः यथा तव (अस्ति) (तथा) मम अपि (अस्ति) । = He is as much mine as yours.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

We have to first put the verse in four quarters –

मरणान्तानि वैराणि । वर्णाः ८
१-१-२-२ १ २-२-(२) इति मात्राः ।
निवृत्तं नः प्रयोजनम् । वर्णाः ८
१-२-२ २-१-२ १-२ इति मात्राः ।
क्रियतामस्य संस्कारो । वर्णाः ८
१-१-२-२-१ २-२-२ इति मात्राः ।
ममाप्येष यथा तव । वर्णाः ८
१-२-२-१ १-२ १-(२) इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।। 

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. There are simple, plain statements here. 

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

७-१ The moral is about how all acrimony towards an enemy should be given up, at the end of war.
७-२ Every vile character is like “The Prodigal Son” in Bible, misled into wrong behaviour. The words “ममाप्येष यथा तव” “He is as much mine as yours.” demonstrate the compassion and pardon, the Lord holds to every errant person. 

Exercise 8 Comments, Notes, Observations, if any.

टिप्पणयः ।

८-१ As is noted in the introduction, the श्लोक is from युद्धकाण्ड in श्रीरामायणम्. In this shloka श्रीराम is telling विभीषण to do the last rites on body of रावण as ordained. विभीषण was hesitant to perform the last rites, thinking that रावण did not merit the last rites because of the sins committed.

८-२ Characters like रावण in श्रीरामायणम् and दुर्योधन in श्रीमहाभारतम् appeal to be examples of incorrigible characters. Since no reason or strategy, even of divine powers works, that they will mend their ways, they have to be annihilated. But once they are annihilated, there is no point in carrying the acrimony. Acrimony is again a vile trait. By the message in this श्लोक the divine power श्रीराम wards off the vile trait of acrimony from the noble mind of विभीषण.

शुभमस्तु ।

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s