Learning Sanskrit by fresh approach – Lesson No. 89

Learning Sanskrit by fresh approach – Lesson No. 89
संस्कृतभाषायाः नूतनाध्ययनस्य नवाशीतितमः (८९) पाठः ।

As mentioned towards the end of the previous lesson, the other श्लोक: about what to learn from a honeybee is –

अणुभ्यश्च महद्-भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्-पदः ।।
– श्रीमद्भागवते ११-८-१०
Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् ।

अणुभ्य: च महद्-भ्य: च शास्त्रेभ्यः कुशल: नरः ।
सर्वतः सारम् आदद्यात् पुष्पेभ्य: इव षट्-पदः ।।

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

२-१ पुष्पेभ्य: षट्-पदः (सारम्) (आददाति) इव

  • अध्याहृतं क्रियापदं “आददाति” । कर्तृपदं “षट्-पदः” । अध्याहृतं कर्मपदम् “सारम्” ।

२-२ कुशल: नरः अणुभ्य: च महद्-भ्य: च सर्वतः शास्त्रेभ्यः सारम् आदद्यात् ।

  • क्रियापदं “आदद्यात्” । कर्तृपदं “नरः” । कर्मपदम् “सारम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१अणुभ्य: “अणु” (= atom, minute particle) इति पुल्लिङ्गि नाम अथवा विशेषणम् (= minute, small) अपि । तस्य चतुर्थी / पञ्चमी (अत्र पञ्चमी) विभक्तिः बहुवचनम् च ।
३-२ च (= and) इति अव्ययम् ।
३-३ महद्-भ्य: “महत्” (= big) इति विशेषणम् । अत्र पुल्लिङ्गि वा नपुंसकलिङ्गि । तस्य चतुर्थी / पञ्चमी (अत्र पञ्चमी) विभक्तिः बहुवचनम् च ।
३-४ शास्त्रेभ्यः “शास्त्र” (= science) इति नपुंसकलिङ्गि नाम । तस्य चतुर्थी / पञ्चमी (अत्र पञ्चमी) विभक्तिः बहुवचनम् च ।
३-५ कुशल: “कुशल” (= smart, expert) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-६ नरः “नर” (= male being, man, person) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-७ सर्वतः “सर्व” (= all) इति सर्वनाम । तस्मात् “तः”-प्रत्ययेन पञ्चमी-विभक्त्यर्थेण अव्ययम् (= from all, from everywhere, on all sides,  everywhere) ।
३-८ सारम् “सार” (= essence) इति पुल्लिङ्गि / नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च ।
३-९ आदद्यात् “आ + दा” १ प / ३ उ (= to take) इति धातुः । अत्र ३ प । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-१० पुष्पेभ्य: “पुष्प” (= flower) इति नपुंसकलिङ्गि नाम । तस्य चतुर्थी / पञ्चमी (अत्र पञ्चमी) विभक्तिः बहुवचनम् च ।
३-११ इव (= like, similar to) इति अव्ययम् ।
३-१२ षट्-पदः “षट्-पद” (= six-legged, six-footed, honeybee) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१२-१ षट् पदानि यस्य सः । बहुव्रीहिः ।
  • ३-१२-२ षट् (= six) इति संख्यावाचकं लिङ्गभेदविरहितं बहुवचनात्मकं विशेषणम् । तस्य प्रथमा विभक्तिः ।
  • ३-१२-३ पदानि “पद” (= leg, foot) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

४-१ पुष्पेभ्य: षट्-पदः (सारम्) (आददाति) इव = (यथा) पुष्पेभ्य: षट्-पदः (सारम्) (आददाति) (तथा)
Just as a honeybee takes the essence from (all types of) flowers

४-२ कुशल: नरः अणुभ्य: च महद्-भ्य: च सर्वतः शास्त्रेभ्यः सारम् आदद्यात् ।
a smart person should get the essence from all small and big sciences.

४-३ The word शास्त्रेभ्यः and the adjectival words अणुभ्य:, महद्-भ्य: and सर्वतः seem somewhat challenging, both for paraphrasing (अन्वय) and translation (अनुवाद).

  • If अणुभ्य:, महद्-भ्य: and सर्वतः are all taken as adjectives of शास्त्रेभ्यः it seems to imply that one need not pick up essence from a thing, which is not science.
  • However one can consider the words अणुभ्य: and महद्-भ्य: not being merely adjectives of शास्त्रेभ्यः but as independently referring to all “things” small and big.
  • Similarly the word सर्वतः also can be considered to have a stand-alone meaning “from everywhere” instead of being an adjective of शास्त्रेभ्यः with सर्वतः शास्त्रेभ्यः meaning “from all sciences”
  • To consider अणुभ्य:, महद्-भ्य: and सर्वतः as being independently meaningful, the अन्वय would sound better with one more च being implicit. So the अन्वयcould rather be कुशल: नरः अणुभ्य: च महद्-भ्य: च शास्त्रेभ्यः (च) सर्वतः सारम् आदद्यात् ।
  • Such mention of शास्त्रेभ्यः may imply that even if sciences are usually dry and drab, compared to most other things, small or big, being charming by themselves, one should draw the essence from the sciences also, with equal interest.

४-४ The analysis in (४-३) brings forth the important point that one can derive different, valid meaning by a different syntax. This is another specialty of Sanskrit.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

We have to first put the verse in four quarters –

अणुभ्यश्च महद्-भ्यश्च । वर्णाः ८
१-२-२-१ १-२-२-(२) इति मात्राः ।
शास्त्रेभ्यः कुशलो नरः । वर्णाः ८
२-२-२ १-१-२ १-२ इति मात्राः ।
सर्वतः सारमादद्यात् । वर्णाः ८
२-१-२ २-१-२-२-२ इति मात्राः ।
पुष्पेभ्य इव षट्-पदः । वर्णाः ८
२-२-२ १-१ २-१-२ इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।। 

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. The word इव is typical of comparison उपमा । 

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

७-१ The moral is mentioned very clearly in the first three quarters.
७-२ As mentioned at (४-२) the moral is – “A smart person should get the essence from all small and big sciences (from everywhere).” 

Exercise 8 Comments, Notes, Observations, if any.

टिप्पणयः ।

८-१ The honeybee not only picks up the essence, it converts it into honey. Does it not become more charming if this aspect is also considered as implicit in the meaning of the word इव ? For the action of picking up the essence to be completely similar (इव), the conversion aspect should also be considered implicit.

८-२ The specialty of Sanskrit mentioned at (४-४), viz. ” one can derive different, valid meaning by a different syntax.” brings to mind the opening श्लोकः in स्वप्नवासवदत्तम् by poet and dramatist भास The श्लोकः is –

उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ।।

This श्लोकः can be interpreted in 3 different ways !

८-३ The श्लोकः of this lesson brings to mind the सुभाषितम् studied in Lesson 18 –

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥

८-४ The श्लोकः of this lesson also brings to mind the ऋचा from ऋग्वेद –

आ नो भद्राः क्रतवो यन्तु विश्वतः ।
  • May noble thoughts come from across the universe or
  • (also =) May noble thoughts spread across the universe

शुभमस्तु ।

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s