Learning Sanskrit by fresh approach – Lesson No. 87

Learning Sanskrit by fresh approach – Lesson No. 87
संस्कृतभाषायाः नूतनाध्ययनस्य सप्ताशीतितमः (८७) पाठः ।

In the notes टिप्पणयः of the previous lesson, it was noted that “a tiny creature like an ant is an eminent example of industriousness” There are interesting सुभाषितानि summarizing what to learn from which creature. Here is one about learning from an ass or donkey. The सुभाषितम् is –

सुश्रान्तो ऽ पि वहेद्भारं शीतोष्णं न च पश्यति ।
संतुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ।। 

Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् । 

सुश्रान्तः अपि वहेत् भारं शीतोष्णं न च पश्यति ।
संतुष्ट: चरते नित्यं त्रीणि शिक्षेत् च गर्दभात् ।। 

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

२-१ क्रियापदम् “वहेत्” । “(गर्दभः) सुश्रान्तः अपि भारं वहेत्” इति प्रधान-वाक्यम् । अध्याहृतम् कर्तृपदम् “गर्दभः” । कर्मपदं “भारम्” ।२-२ क्रियापदम् “पश्यति” । “(गर्दभः) शीतोष्णं न च पश्यति” इति नकारात्मकं प्रधान-वाक्यम् । अध्याहृतम्  कर्तृपदम्  “गर्दभः” । कर्मपदं “शीतोष्णम्” ।

२-३ क्रियापदम् “चरते” । “(गर्दभः) नित्यं संतुष्ट: चरते च” इति प्रधान-वाक्यम् । अध्याहृतम्  कर्तृपदम्  “गर्दभः” । पूरकपदम् वा क्रियाविशेषणम् “संतुष्टः”

२-४ क्रियापदम् “शिक्षेत्” । (मनुजः) गर्दभात् त्रीणि शिक्षेत्” । इति प्रधान-वाक्यम् । अध्याहृतम् कर्तृपदम्  “मनुजः” । कर्मपदं “त्रीणि” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
३-१ सुश्रान्तः “सु + श्रम्” (= to do exhausting work)  इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “सुश्रान्त” (= exhausted by work) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२ अपि (= also, even if) इति अव्ययम् ।
३-३ वहेत् “वह्” १ उ (= to carry) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-४ भारम् “भार” (= load) इति  पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-५ शीतोष्णम् “शीतोष्ण” (= cold or hot) इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-५-१ शीतं वा ऊष्णं वा = शीतोष्णम् । समाहार-द्वन्द्वः ।
३-५-२ शीतम् “शीत” (= cold) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-५-३ ऊष्णम् “ऊष्ण” (= hot) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-६ न (= not) इति अव्ययम् ।
३-७ च (= and) इति अव्ययम् ।
३-८ पश्यति “दृश्” १ प (= to see) इति धातुः ।  तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
३-९ संतुष्ट: “सम् + तुष्” ४ प (= to be pleased) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “संतुष्ट” (= pleased, happy) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१० चरते “चर्” १ प (अत्र अपवादेन आत्मनेपदी) (= to move about) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
३-११ नित्यम् (= always) इति अव्ययम् ।
३-१२ त्रीणि “त्रि” (= three) इति संख्यावाचकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-१३ शिक्षेत् “शिक्ष्” १ आ (= to learn) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-१४ गर्दभात् “गर्दभ” (= an ass, donkey) इति पुल्लिङ्गि नाम । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।
४-१ (गर्दभः) सुश्रान्तः अपि भारं वहेत् । = A donkey keeps carrying loads even when exhausted
४-२ (गर्दभः) शीतोष्णं न च पश्यति । = It does not bother for heat or cold
४-३ (गर्दभः) नित्यं संतुष्ट: चरते च । = It seems to be always moving about happily
४-४ (मनुजः) गर्दभात् त्रीणि शिक्षेत् । = Man should learn three things from a donkey.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

सुश्रान्तो ऽ पि वहेद्भारम् । वर्णाः ८
२-२-२ १ १-२-२-२ इति मात्राः ।
शीतोष्णं न च पश्यति । वर्णाः ८
२-२-२ ११ २-१-(२) इति मात्राः ।
संतुष्टश्चरते नित्यं । वर्णाः ८
२-२-२-१-१-२ २-२ इति मात्राः ।
त्रीणि शिक्षेच्च गर्दभात् । वर्णाः ८
२-१ २-२-१ २-१-२ इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. There are very plain sentences and statements in the verse. 

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

This सुभाषितम् brings forth how one can learn even from an unrespected animal as a donkey. 

The moral also is stated very explicitly, except that the three things to be learnt need to be paraphrased.

– to persevere with hard work untiringly
– to have equanimity regardless of whether one has adversities or favourable situations
– to be happy and contented all the time


Exercise 8 Comments, Notes, Observations, if any.

टिप्पणयः ।
८-१ The verb वहेत् in the first sentence is in advisory mood, whereas पश्यति and चरते in the second and third sentences are in simple present. All three sentences refer to observations of behaviour of a donkey. Being observations, they all should have been in simple present.

८-२ The poet has taken liberty to use the verb चरते in आत्मनेपदम् Such liberties taken by poets are often explained away by saying निरङ्कुशाः कवयः ! Poets are not to be reined in by rules of grammar ! Just appreciate the thoughts and ideas being presented !

८-३ In श्रीमद्भगवद्गीता equanimity is advocated all across, right from “समदुःख-सुखम् धीरम् (२-१५) “सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ (२-३८) to “ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति (१८-५४)” The significance of the word “प्रसन्नात्मा” is exactly replicated in this सुभाषितम् in the line “संतुष्टश्चरते नित्यम्” !

८-४ Since a donkey qualifies the major advices in श्रीमद्भगवद्गीता is not a donkey’s conduct so much like that of a योगी ?!

शुभमस्तु ।

-o-O-o-

2 thoughts on “Learning Sanskrit by fresh approach – Lesson No. 87

  1. Another version with some different readings found on some other site:

    अविश्रान्तम् वहेद् भारम् शीतोष्णं च न विन्दति
    ससन्तोषस्तथा नित्यम् त्रीणि शिक्षेत गर्दभात्

    The above subhAshit teaches us three things to be learnt from a Donkey.
    and those are:
    1. He carries load (meaning he slogs,takes pains..thats what we also have to do to achive our
    objectives)without taking any rest
    2. He doesn’t care about cold,hot weather,monsoon…anything…just does it whatever has
    been assigned to him…and (that too with honesty)
    3.(and after all this) he is always happy, doesn’t complain about anything.

    These are the three things one should learn from a donkey –

    The above is the simple interpretation of the सुभाषित.

    There are 24 teachers in the nature listed in भागवतपुराण which lists many animals as teachers for learning good conduct, including honey bee, turtle, our donkey etc. I don’t have ready list right now. But would be possible to get later.

  2. This verse reminds me of a witty observation in PL Deshpande’s play ‘तुझे आहे तुजपाशी’

    PL Deshpande calls the donkey an exemplar of the स्थितप्रज्ञ because the donkey eats a discarded paper and a discarded banana peel with the same relish!

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s