Learning Sanskrit by fresh approach – Lesson No. 84

Learning Sanskrit by fresh approach – Lesson No. 84
संस्कृतभाषायाः नूतनाध्ययनस्य चतुरशीतितमः (८४) पाठः ।

Although advice in the two previous lessons was that one must cultivate some strength or other, question may be asked whether everyone can do that. A good confidence is given in this सुभाषितम् –

अमंत्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥ 

Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् । 

अ-मन्त्रं अ-क्षरं न अस्ति न अस्ति मूलम् अनौषधम् ।
अ-योग्यः पुरुषः न अस्ति योजकः तत्र दुर्लभः  ।। 

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

(२-१) क्रियापदम् ‘अस्ति’ । एतत् क्रियापदम् अस्य सुभाषितस्य त्रिषु पादेषु तु सुस्पष्टमेव । यतः “अस्ति” इति क्रियापदम् अकर्मकमस्ति अत्र न किमपि कर्मपदम् । परन्तु सर्वेषु वाक्येषु पूरकानि सन्ति । Verb ‘अस्ति’ is explicit in three quarters of this verse. Since this verb ‘अस्ति’ is intransitive, there are no object-words in this verse. But there are compliments.

२-१-१ अमन्त्रं अक्षरं न अस्ति । नकारात्मकं प्रधान-वाक्यम् । कर्तृपदम्  ‘अक्षरम्’ । पूरकम्  ‘अमन्त्रम्’ ।
२-१-२ न अस्ति मूलम् अनौषधम् । नकारात्मकं प्रधान-वाक्यम् । कर्तृपदम्  ‘मूलम्’ । पूरकम् ‘अनौषधम्’ ।
२-१-३ अयोग्यः पुरुषः न अस्ति । नकारात्मकं प्रधान-वाक्यम् । कर्तृपदम्  ‘पुरुषः’ । पूरकम् ‘अयोग्यः’ । 

२-२ क्रियापदम् (भवति) अध्याहृतमस्ति । योजकः तत्र दुर्लभः (भवति) । सकारात्मकं प्रधान-वाक्यम् । कर्तृपदम्  ‘योजकः’ । पूरकम् ‘दुर्लभः’ ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
३-१ अमन्त्रम् “अमन्त्र” (= not part of a sacred hymn) इति सामासिकं विशेषणम् । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१-१ यत् मन्त्रे न अस्ति = अमन्त्रम् । नञ्-बहुव्रीहिः
  • ३-१-२ मनसा त्रायते = मन्त्रः = sanctified by meditation
  • ३-१-३ मन्त्रे “मन्त्र” (= a sacred hymn) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

३-२ अक्षरम् “अक्षर” इति सामासिकं विशेषणम् (= indelible, indestructible, eternal) प्रायः नपुम्सकलिङ्गि नाम (= alphabet, syllable) अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२-१ यस्य क्षरः न तत् = अक्षरम् । नञ्-बहुव्रीहिः ।
  • ३-२-२ क्षरः “क्षर” (= perishing) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-३ न (= not) इति अव्ययम् ।
३-४ अस्ति “अस्” २ प (= to be) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
३-५ मूलम् “मूल” (= root) इति नपुम्सकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-६ अनौषधम् “अनौषध” (= having no medicinal or nutritional value) इति सामासिकं विशेषणम् । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-६-१ अनौषधम् = अन् + औषधम् = न औषधम् । नञ्-तत्पुरुषः ।
  • ३-६-२ औषधम् “औषध” इति विशेषणम् (= medicinal, nutritional) प्रायः नपुम्सकलिङ्गि नाम (= medicine) अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-७ अयोग्यः “अयोग्य” (= unsuitable)  इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-७-१ न योग्यः = अयोग्यः । नञ्-तत्पुरुषः ।
  • ३-७-२ योग्यः “युज्” ७ उ (= to join, to fit, to suit) इति धातुः । तस्य प्रयोजकम् “योजय” (= make suitable) । तस्मात् य-प्रत्ययान्तं विशेषणम् “योग्य” (= suitable) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-८ पुरुषः “पुरुष” (= man, person) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-९ योजकः “युज्” ७ उ (= to join, to fit, to suit) इति धातुः । तस्य प्रयोजकम् “योजय” (= make suitable) । तस्मात् क-प्रत्ययान्तं विशेषणम् “योजक” (= suitor, one who makes the match, manager) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१० तत्र  (= there) इति अव्ययम् ।
३-११ दुर्लभः “दुर्लभ” (= difficult to get, unavailable) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-११-१ लब्धुम् दुष्टः = दुर्लभः । उपपद-तत्पुरुषः ।
  • ३-११-२ लब्धुम् “लभ्” १ आ (= to get) इति धातुः । तस्मात् तुमन्तं अव्ययम् लब्धुम् (= for getting) ।
  • ३-११-३ दुष्टः “दुष्” ४ प (= to make difficult) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “दुष्ट” (= difficult) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-१२ (भवति) “भू” १ प (= to be, to become) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।
४-१ अमन्त्रं अक्षरं न अस्ति । = There is no letter, which is not a part of one sacred hymn (or other).
४-२ मूलम् अनौषधम् न अस्ति । = There is no root, which has no medicinal or nutritional value.
४-३ अयोग्यः पुरुषः न अस्ति । = There is no person – no “Unsuitable Boy”, who is good for nothing.
४-४ योजकः तत्र दुर्लभः (भवति) । = There is dearth of vision for identifying and employing talents.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

अमंत्रमक्षरं नास्ति । वर्णाः ८
१-२-१-२-१-२ २-(२) इति मात्राः ।
नास्ति मूलमनौषधम् । वर्णाः ८
२-१ २-१-१-२-१-२ इति मात्राः ।
अयोग्यः पुरुषो नास्ति । वर्णाः ८
१-२-२ १-१-२ २-(२) इति मात्राः ।
योजकस्तत्र दुर्लभः । वर्णाः ८
२-१-२-२-१ २-१-२ इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ कथंविधः अर्थालङ्कारः अत्र उपयोजितः ?

१. This सुभाषितम् is a straightforward statement. The two statements in the first line – अमंत्रमक्षरं नास्ति and नास्ति मूलमनौषधम् – seem to be examples. But they also are statements of facts. Aren’t they ? 

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

This सुभाषितम् endorses a very positive outlook for one to look at oneself and for everyone to look at others also. Many people would end up being “weak” कृश or दुर्बल by considering themselves weak – good for nothing. One must strongly believe and have faith that God endows everyone with some aptitude or other. What is needed is to find that out. 

योजकः also does not have to be somebody else. We need to be our own योजकः !! Unfortunately this does not happen with every other person. That is why the poet says योजकस्तत्र दुर्लभः !! This part of the verse sounds to be having a negative tone. But one can take it as signaling positive, if we understand ourselves to be योजकः for ourselves !

Exercise 8 Comments, Notes, Observations, if any.
टिप्पणयः ।
८-१ In the context of ourselves to be योजकः for ourselves, how well it is said in श्रीमद्भगवद्गीता –

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।।६-५।।

८-२ Some may grumble that in spite of all their efforts, luck does not favour them. It seems such instances make one to also recognise that one factor mentioned for सिद्धये सर्वकर्मणाम् was दैवं चैवात्र पञ्चमम्

८-३ There are many quotations which guide in tackling such instances. What comes to mind is this सुभाषितम् –

न दैवमिति संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्यमेन तैलानि तिलेभ्यो नाप्तुमर्हति ।।

शुभमस्तु ।

-o-O-o-

5 thoughts on “Learning Sanskrit by fresh approach – Lesson No. 84

  1. I think by too deeply concentrating on the etymology of each and every word, the essential parts of the message conveyed by the सुभाषित is slipping through the fingers. For example, nothing is achieved by splitting अक्षर = वर्ण into two words to explain the meaning of the word. So also the etymology given for दुर्लभ is redundant. दुःखेन लभ्यः दुर्लभः is the commonly used splitting of the participle. from the verb लभ. The further analysis of दुष्ट is redundant and doesn’t add anything more to the meaning.

    First of all, योजक should be oneself is not at all intended or implied by the above verse.
    “योजकस्तत्र दुर्लभः” is a general statement that any thing or person could not be concluded as useless for fit for nothing, but it depends on somebody who should recognize and make use of it.

    अमन्त्रम् is not necessarily be a बहुब्रीहिः, but could well be a तत्पुरुषः and the intention of the statement is that there is no syllable of the alphabet that could not become a मन्त्र. Only one should be able to recognize and use it. In the same way, अनौषधं मूलं नास्ति = there is no herbal root which is without any medicinal value (that could not be used as medicine). Only it needs somebody the knowledge to recognize and use them as medicine. In the same way, अयोग्यः पुरुषो नास्ति = There is no person fit for nothing, only one should be able to (recognize his talent and) employ him.

    This योजकः is equally applicable to all the three statements and needed to become मन्त्र, औषध, and योग्यः. Only the absence of the योजक makes these three अमन्त्र, अनौषध and अयोग्य (useless) or Good for nothing.

    The other interpretation seems to be far fetched. and 8.2 observation needs a different topic and not related with this one and entirely related with the part of destiny or दैव in life.
    And also the quoted Bhagavadgeeta verse in a different context with different connotation.

    Thank you.

  2. And without doing anything, one cannot expect achieve any thing.

    उद्यमेनैव सिद्ध्यन्ति कार्याणि न मनोरथैः।
    न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः||

    and there are many others to the role of destiny = fate or दैव

    नालम्बते दैष्टिकतां न निषीदति पौरुषे।
    शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते॥

    The above vrse emphasizes on both the individual attempt and favourable condition of the दैव। as the case demands.

    • धन्यवादाः श्रीमन् “हरि नारायण भट”-महोदय ! भवता सूचितयोः प्रथमस्य श्लोकस्य अध्ययनम् चतुर्थे पाठे कृतमासीत् । द्वितीयः मया न ज्ञातः । तस्य कस्मिन् अग्रिमे पाठे अवश्यं अध्ययनम् करोमि । सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।”

  3. <>

    I am reminded of

    योजनानां सहस्राणि शनैर्गच्छेत्पिपीलिका।
    अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति॥

  4. well, being a foreigner I cannot for the moment enter in this nuances, but I would like to say that I find this site very helpful and overall, motivating. I wish you continue with the grammar analysis of Gita.
    thanks a lot
    ambika

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s