Learning Sanskrit by fresh approach – Lesson No. 83

Learning Sanskrit by fresh approach – Lesson No. 83
संस्कृतभाषायाः नूतनाध्ययनस्य त्र्यशीतितमः (८३) पाठः ।

The conclusion in the previous lesson कृशे कस्यास्ति सौहृदम् is put in different words in this सुभाषितम् also –

अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ।। 

Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् । 

अश्वं न एव गजं न एव व्याघ्रं न एव च न एव च ।
अजा-पुत्रं  बलिं दद्यात् देवः दुर्बल-घातकः ।। 

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses 

2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

(२-१) क्रियापदम् ‘दद्यात्’ । इमं क्रियापदम् चतुर्षु प्रधान-वाक्यांशेषु माननीयम् । सर्वेषु ‘मनुजः’ इति कर्तृपदम् अध्याहृतमस्ति ।

(२-१-१) (मनुजः) अश्वं न एव (बलिं दद्यात्) । कर्तृपदम्  ‘मनुजः’ । कर्मपदम्  ‘अश्वम्’ ।
(२-१-२) (मनुजः) गजं न एव (बलिं दद्यात्) । कर्तृपदम्  ‘मनुजः’ । कर्मपदम् ‘गजम्’ ।
(२-१-३) (मनुजः) व्याघ्रं न एव न एव (बलिं दद्यात्) । कर्तृपदम्  ‘मनुजः’ । कर्मपदम् ‘व्याघ्रम्’ ।
(२-१-४) (मनुजः) अजापुत्रं बलिं दद्यात् । कर्तृपदम्  ‘मनुजः’ । कर्मपदम् ‘अजापुत्रम्’ ।

(२-२) क्रियापदम् ‘(भवति)’ । देवः दुर्बलघातकः (भवति) । अत्र क्रियापदम् अध्याहृतमस्ति । Here, the verb is implicit. अयं प्रधान-वाक्यांशः ।

कर्तृपदम्  ‘देवः’ । पूरकम् ‘दुर्बलघातकः’

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
३-१ अश्वम् “अश्व” (= horse) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च । The word is in द्वितीया विभक्तिः because it is कर्मपदम् as detailed at (२-१-१)
३-२ न (= not) इति अव्ययम् ।
३-३ एव (= at all) इति अव्ययम् ।
३-४ गजम् “गज” (= elephant) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-५ व्याघ्रम् “व्याघ्र” (= tiger) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-६ अजापुत्रम् “अजापुत्र” (= cub of a she-goat, lamb) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-६-१ अजायाः पुत्रः = अजापुत्रः । षष्ठी-तत्पुरुषः ।
  • ३-६-२ अजायाः “अजा” (= she goat) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-६-३ पुत्रः “पुत्र” (= son, off-spring) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-७ बलिम् “बलि” (= a victim offered to a deity, what is sacrificed at the altar)  इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-८ दद्यात् “दा” ३ उ. (= to offer) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-९ देवः “देव” (= God) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१० दुर्बलघातकः “दुर्बलघातक” (= causing harm to the weak) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१०-१ बलेन दुष्टः = दुर्बलः । उपपद-तत्पुरुषः ।
  • ३-१०-२ दुर्बलस्य घातकः = दुर्बलघातकः । षष्ठी-तत्पुरुषः ।
  • ३-१०-३ बलेन “बल” (= strength) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-१०-४ दुष्टः “दुष्” ४ प (= to forsake, to hate) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “दुष्ट” (= forsaken, hated) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१०-५ दुर्बलस्य “दुर्बल” (= weak) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-१०-६ घातकः “घातं करोति इति “घातक” (= who causes harm) उपपदात्मकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१०-७ घातम् “हन्” २ प. (= to cause harm, to kill) इति धातुः । तस्य प्रयोजकात् पुल्लिङ्गि नाम “घात” (= injury, killing) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-११ भवति “भू” १ प. (= to be, to become) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।
४-१ (मनुजः) अश्वं न एव (बलिं दद्यात्) । = Man should not sacrifice a horse at the altar.
४-२ (मनुजः) गजं न एव (बलिं दद्यात्) । = Man should not at all sacrifice an elephant at the altar.
४-३ (मनुजः) व्याघ्रं न एव न एव (बलिं दद्यात्) । = Man should not at all, not at all sacrifice a tiger at the altar.
४-४ (मनुजः) अजापुत्रं बलिं दद्यात् । = Man may sacrifice a lamb at the altar.
४-५ देवः दुर्बलघातकः (भवति) । = God (also) is propitiated by killing of the weak !

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

अश्वं नैव गजं नैव । वर्णाः ८
२-२ २-१ १-२ २-(२) इति मात्राः ।
व्याघ्रं नैव च नैव च । वर्णाः ८
२-२ २-१ १ २-१ (२) इति मात्राः ।
अजापुत्रं बलिं दद्यात् । वर्णाः ८
१-२-२-२ १-२ २-२ इति मात्राः ।
देवो दुर्बलघातकः । वर्णाः ८
२-२ २-१-१-२-१-२ इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ कथंविधः अर्थालङ्कारः अत्र उपयोजितः ?

१. This is a metaphor दृष्टान्तः drawing a conclusion from an example.
२. देवो दुर्बलघातकः is sort of over-extrapolation अतिशयोक्तिः God is not so cruel as to be appeased by cruel offerings. 

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

In the सुभाषितम् of the previous lesson the conclusion was कृशे कस्यास्ति सौहृदम् suggesting that weakness is neither loved not respected. Here the conclusion suggests that weakness is full of risk, is fret with dangerous consequences. 

Exercise 8 Comments, Notes, Observations, if any.
टिप्पणयः ।
८-१ देवो दुर्बलघातकः is unfair to Gods The rituals and practices of offering sacrifices to deities are based on seemingly weird conventions that Gods can be propitiated by such cruel offerings.

८-२ What all deities people seem to be propitiating ! But such practices seem to be quite ancient. See यजन्ते सात्त्विका देवान् यक्षरक्षान्सि राजसाः । प्रेतान् भूतगणान्श्चैव यजन्ते तामसा जनाः ।।१७-०४।। in श्रीमद्भगवद्गीता !

शुभमस्तु ।

-o-O-o-

3 thoughts on “Learning Sanskrit by fresh approach – Lesson No. 83

  1. वः दुर्बलघातकः (भवति) । = God (also) is propitiated by killing of the weak

    Even God is offensive to the weaker ones.

    In other words, even the God offends weaker animals only and does not come to their rescue.
    and weaker section is always the sufferer.

    This seems to be the purport of the moral contained in the verse. And it doesn’t in any way say anything about the propitiation of God at all. It is taken as a general statement in support of the vulnerability of weaker sections and stronghold position of the stronger ones.

  2. This verse is a tongue-in-cheek and cynical comment about the apparent unfairness of the world. The horse and the elephant should not be made sacrificial animals as they are very useful and also are expensive to acquire. So why sacrifice them? The tiger is a strong and ferocious animal and will not willingly play the meek sacrificial victim. Do not even think of sacrificing him.

    The poor goat is not as useful as the horse and the elephant and, unlike the tiger, can be meekly led to the sacrifice. Sacrificing the goat is the easiest of the options.

    Thus even the gods do not seem to intercede on behalf of the goat and are willing to go along with its being sacrificed.

    • Aravindaji is quite correct.

      Goat is a meek animal and harmless one easily available for sacrificing. But others are not only stronger (elephant, horse) and even (harmful, fierce) tiger. It is the easiest option for people to butcher it without any resistance. Even god is offensive (unfavorable) to the weaker section when stronger ones offend them. The term देव need not be taken in the general sense of God (in its English sence) any deity demanding animal sacrifice can be referred by देव or not at all related with the previous statements than in a general way supporting this.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s