Learning Sanskrit by fresh approach – Lesson No. 82

Learning Sanskrit by fresh approach – Lesson No. 82
संस्कृतभाषायाः नूतनाध्ययनस्य द्व्यशीतितमः (८२) पाठः |

There has been a suggestion that there should be exercises which will make a lesson a study-exercise. Actually, the different steps by which a lesson has been proceeding, have inherent in them the exercises. I guess, it would be good to make this explicit. Let me give that a try with this सुभाषितम् –

वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ।। 

Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् । 

वनानि दहतः वह्नेः सखा भवति मारुतः ।
सः एव दीप-नाशाय कृशे कस्य अस्ति सौहृदम् ।। 

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses 

2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि पूरकानि ?

(२-१) धातुसाधितम् ‘दहतः’ । अत्र वाक्यांशः –> वनानि दहतः वह्नेः । गौणवाक्यांशः (सत्-षष्ठी) प्रयोगान्वितः ।

कर्तृपदम्  ‘वह्नेः’ । कर्मपदम्  ‘वनानि’ ।

(२-२) क्रियापदम् ‘भवति’ । अत्र द्वौ वाक्यांशौ –>

(२-२-१) मारुतः सखा भवति । प्रधान-वाक्यांशः । 

कर्तृपदम्  ‘मारुतः’ । पूरकम् ‘सखा’ ।

(२-२-२) सः एव दीपनाशाय (भवति) । प्रधान-वाक्यांशः । अत्र क्रियापदम् अध्याहृतमस्ति । Here, the verb is implicit.

कर्तृपदम् ‘सः (मारुतः)’ ।

(२-३) क्रियापदम् ‘अस्ति’ । अत्र वाक्यांशः –> कृशे कस्य सौहृदम् अस्ति । प्रधान-वाक्यांशः (प्रश्नार्थकः) ।

कर्तृपदम् ‘सौहृदम्’

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
३-१ वनानि “वन” (= forest, jungle) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च । The word is in द्वितीया विभक्तिः because it is कर्मपदम् as detailed at (२-१)
३-२ दहतः “दह्” १ प (= to burn) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “दहत्” (= ) । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३-३ वह्नेः “वह्नि” (= fire) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३-४ सखा “सखा” (= friend) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-५ भवति “भू” १ प. (= to be, to become) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् च ।
३-६ मारुतः “मारुत” (= wind) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-७ सः “तत्” (= he, she, it) इति सर्वनाम । अत्र पुल्लिङ्गि (=he) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-८ एव (= only) इति अव्ययम् ।
३-९ दीपनाशाय “दीपनाश” (= extinguishing of lamp) इति सामासिकं पुल्लिङ्गि नाम । तस्य चतुर्थी विभक्तिः एकवचनम् च ।

  • दीपस्य नाशः = दीपनाशः । षष्ठी-तत्पुरुषः ।
  • दीपस्य “दीप” (= lamp) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • नाशः “नाश” (= extinguishing) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-१० कृशे “कृश” (= lean, weak) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-११ कस्य “किम्” (= who) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३-१२ अस्ति “अस्” २ प. (= to be, to have) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् च ।
३-१३ सौहृदम् “सुहृद्” (= friend) इति सामासिकं विशेषणम् प्रायः पुल्लिङ्गि नाम अपि । तस्मात् भाववाचकं नपुंसकलिङ्गि नाम “सौहृद” (= friendship, empathy) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।
४-१ वनानि दहतः वह्नेः मारुतः सखा भवति । = Wind comes friendly with fire which is burning a forest.
४-२ सः एव दीपनाशाय (भवति) । = Same wind would extinguish a lamp.
४-३ कृशे कस्य सौहृदम् अस्ति । = Who is (ever) empathetic to the lean (i.e. weak) ?

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

वनानि दहतो वह्नेः । वर्णाः ८
१-२-२ १-१-२ २-२ इति मात्राः ।
सखा भवति मारुतः । वर्णाः ८
१-२ १-१-१ २-१-२ इति मात्राः ।
स एव दीपनाशाय । वर्णाः ८
१ १-१ २-१-२-२-(२) इति मात्राः ।
कृशे कस्यास्ति सौहृदम् । वर्णाः ८
१-२ २-२-१ २-१-२ इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ कथंविधः अर्थालङ्कारः अत्र उपयोजितः ?

1. This is a metaphor drawing a conclusion from an example.
2. The interrogation प्रश्नार्थकः in कृशे कस्यास्ति सौहृदम् is also a literary style of driving home an affirmation. What cannot be negated has to be accepted ! The interrogation throws a challenge at the reader, “Come, negate this !” 

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदेशितास्ति ?

Nobody takes note of a weak person. Here weakness means having no strength. And strength is not just physical strength. It can be strength of intellect or of any skill or aptitude. Gandhiji was physically weak. But he had great strength of patriotism, strength of character and strength of political strategy, which challenged the rule of British empire ! Whole nation joined with him !
There is a proverb in Marathi, which says, “Even gold will not sell, if you do not speak of it. One who speaks of it, can sell brass also.” That is marketing strength !
Love and respect can be commanded only by cultivating some aptitude or other.
शुभमस्तु । 

 

-o-O-o-

6 thoughts on “Learning Sanskrit by fresh approach – Lesson No. 82

  1. I think the word is वह्नि and not वन्हि, वहति इति वह्निः It carries the offerings made in yajnaas to gods.

    Also in your last lesson the word सहाय्य is used. I think the correct word is सहाय companion or friend. The abstract noun formed therefrom is साहाय्य help, assistance. There are also सह and its abstract noun साह्य. There is no word as सहाय्य.

    I am reminded of the following couplet from Moropant’s Kekavali where he says

    सहाय दुसरा नसे तुजविणे बळे आगळा।
    न हो जरि उताविळा स्वरिपु कापितो हा गळा॥

    • धन्यवादाः खलु, श्रीमन् “अरविन्द कोल्हटकर”-महोदय !

      श्रीमता “अविनाश साठये”-महोदयेनापि अयं दोषः निदर्शितः ।

      सपदि एव “वह्नि” तथा “वह्नेः” शब्दयोः लेखनस्य परिष्करणानि कृतानि सन्ति ।

      सस्नेहम् ,
      अभ्यंकरकुलोत्पन्नः श्रीपादः |
      “श्रीपतेः पदयुगं स्मरणीयम् ।”

  2. Aravind is right in referring the correct form सहाय and साहाय्य – and their meaning. The first is synonym for friend or companion (सह अयन्ते इति सहायाः), and the second is derived from it in the sense friendship or act of friendship. (सहायस्य भावः कर्म वा साहाय्यम्- सहाय+ष्यञ्).

    I think bhavati, and asti described in this lesson as

    ३-५ भवति “भू” १ प. (= to be, to become) इति धातुः । तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् च ।

    ३-१२ अस्ति “अस्” २ प. (= to be, to have) इति धातुः । तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् च ।

    I could not understand. According to Paninian standards, its described as वर्तमाने लट् प्रथमपुरुष एकवचनम्। The rule classifying the suffixes as तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः: The three triads of affixes in tiṅ are, respectively, called prathama [“3rd person”], madhyama [“2nd person”], and uttama [“1st person”] AND तान्येकवचनद्विवचनबहुवचनान्येकशः:

    Any clarification on this point?

    Again,

    शब्दानां व्युत्पत्तयः विश्लेषणानि च ददन्तु

    The sentence is in the above lesson is not grammatically acceptable for two reasons. If you want mean Please give the etymologies/derivations and analysis, (which is the object of दा ) both should be in accusative case. The correct form of व्युत्पत्ति in the accusative plural will be व्युत्पत्तीः. The other form is correct. Secondly the verbal conjugation of the verb is also not correct in plural it should be ददतु। The relevant portion of the process of conjugation is pasted here:

    डुदाञ् दाने। ददाति। पूर्ववदाल्लोप: दत्त:। ददति। लङि अददात्‌। अदत्तम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस्‌ अदु:। ददातु दत्तत्‌। दत्तम्‌। ददतु। सेर्हि: घ्वसोरेद्धावभ्यासलोपश्च (पा०सू० ६/४/११९) इत्येत्वाभ्यासलोपौ देहि। लिङि आकारलोप: ईहल्ल्यघो: (पा०सू० ६/४/११३) इति घुसंज्ञकानां पर्युदस्तत्वात् हलादावपि ईत्वं न भवति दद्यात्‌। दद्याताम्‌। दद्यु:। आशिषि एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं देयात्‌। देयास्ताम्‌। देयासु:। लिटि ददौ। ददतु:। ददु:। ददिथ ददाथ। लुङि गातिस्था० (पा०सू० २/४/७७) इति सिच्लुक्‌ अदात्‌। अदाताम्‌। आत: (पा०सू० ३/४/११०) इति झेर्जुस्‌ अदु:। णौ चङि पुक् अदीदपत्‌। दास्यतीत्यादि। सनि दित्सति। यङि घुमास्था० (पा०सू० ६/४/६६) ईत्वं देदीयते कर्त्रभिप्राये क्रियाफले ञित्वादात्मनेपदं पूर्ववदाल्लोप: दत्ते। ददाते। ददते। अदत्त्। अददाताम्‌। अददत। दत्तम्‌। ददाताम्‌। ददताम्‌। ददीत। ददीयाताम्‌। ददीरन्‌। आशिषि दासीष्ट। लिटि आतो लोप० (पा०सू० ६/४/६४) ददे। लुङि स्थाघ्वोरिच्च (पा०सू० १/२/२७) इति इकारादेश: सिच: कित्वाद्गुणत्वं सलोप: अदित। अदिषाताम्‌। शेषं नेयं ददातेराङ्‌पूर्वात्‌ कर्त्रभिप्राये स्वाङ्गेऽकर्मकात्‌ आङो दोऽनास्य विहरण (पा०सू० १/३/२०) इत्यात्मनेपदं व्यादत्ते। आस्य विहरणे तु व्याददात्यन्नमत्र मृत्युरिति।

    The above gives everything related with the verb दा.

    Thanks for your efforts.

    धन्यवादाः

    • नमो नमः श्रीमन् “हरि नारायण भट”-महोदय !
      अत्युपकृतोऽस्मि भवतः विस्तृतैः बोधनैः । अधुना “व्युत्पत्तीः ददतु” एवं परिष्करणं कृतमस्ति ।
      “लट्-वर्तमाने” इति शब्दप्रयोगः मया “लट्”-इति नाम्ना यः ज्ञायते सः वर्तमानः एवं सूचितुं उपयोजितः ।
      धन्यवादाः खलु ।
      सस्नेहम्,
      अभ्यंकर-कुलोत्पन्नः श्रीपादः ।
      “श्रीपतेः पदयुगं स्मरणीयम् ।”

  3. Rhetoric question:

    http://www.sil.org/linguistics/GlossaryOfLinguisticTerms/WhatIsARhetoricalQuestion.htm

    The Sanskrit version of this figure of speech is Arthantaranyasa or Arthaantaraapatti.

    Defending a situation, by a general statement of affirmation or negation. The first is closer to the English rhetoric figure of speech like

    यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता।
    एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्”

    and अर्थान्तरन्यास by the rhetoric question:

    हनूमानब्धिमतरत् दुष्करं किं महात्मानाम्।

    In both the rhetoric question is used.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s