Learning Sanskrit by Fresh Approach – Lesson 81

Learning Sanskrit by Fresh Approach – Lesson 81

संस्कृतभाषायाः नूतनाध्ययनस्य एकाशीतितमः (८१) पाठः ।

My friend Mr. Jay reminded of another सुभाषितम् having the same last line, identical to that of the सुभाषितम् in Lesson 79. It reads as follows –

विजेतव्या लङ्का चरणतरणीयो जलनिधिः ।
विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः ।
तथाप्येको रामः सकलमवधीद्राक्षसकुलम् ।
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥

१ सन्धिविच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा –

विजेतव्या लङ्का चरण-तरणीयः जल-निधिः ।
विपक्षः पौलस्त्यः रण-भुवि सहायाः च कपयः ।
तथा अपि एकः रामः सकलम् अवधीत् राक्षस-कुलम् ।
क्रिया-सिद्धिः सत्त्वे भवति महतां न उपकरणे ॥

२ समासानां विग्रहाः शब्दानाम् व्युत्पत्तयः विश्लेषणानि च ।

२.१ विजेतव्या “वि + जि” १ आ. (= to win over) इति धातुः । तस्मात् कर्मणि-प्रयोगान्वितं विध्यर्थि विशेषणम् “विजेतव्य” । अत्र स्त्रीलिंगि “विजेतव्या” (= to be won over) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.२ लङ्का (= Name of the kingdom of RAvaNa) इति स्त्रीलिंगि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.३ चरण-तरणीयः “चरणतरणीय” (= one which has to be crossed on foot) इति सामासिकं विशेषणम् । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.३.१ चरणतरणीयः = चरणाभ्याम् तरणीयः । तृतीया-तत्पुरुषः ।
  • २.३.२ चरणाभ्याम् “चरण” (= foot) इति पुल्लिंगि नाम । तस्य तृतीया विभक्तिः द्विवचनम् च ।
  • २.३.३ तरणीयः “तॄ” १ प. (= to cross) इति धातुः । तस्य कर्मणि-प्रयोगान्वितं विध्यर्थि विशेषणम् “तरणीय” (= to be crossed) । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.४ जल-निधिः “जलनिधि” (= ocean) इति सामासिकं पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.४.१ जलनिधिः = जलस्य निधिः । षष्ठी-तत्पुरुषः ।
  • २.४.२ जलस्य “जल” (= water) इति नपुंसकलिंगि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.४.३ निधिः “निधि” (= storage) इति पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.५ विपक्षः “विपक्ष” (= opponent, enemy) इति सामासिकम् पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.५.१ विपक्षः = विरुद्धः पक्षः । उपपद-तत्पुरुषः ।
  • २.५.२ विरुद्धः “वि + रुध्” ७ उ. (= to oppose) इति धातुः । तस्मात् कर्मणि-भूतकालवाचकम् विशेषणम् “विरुद्ध” (= opposed by, opposing, opponent) । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.५.३ पक्षः “पक्ष” (= side) इति पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.६ पौलस्त्यः (= पुलस्तेः अयम्) “पौलस्त्य” (= belonging to the race of Pulasti, RAvaNa) इति विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.६.१ पुलस्तेः “पुलस्ति” (= name of Rishi Pulasti, who was ancestor of RAvaNa) इति विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.६.२ अयम् “इदम्” (= this, this one) इति सर्वनाम । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.७ रण-भुवि “रणभू” (= battle-field) इति सामासिकं स्त्रीलिंगि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • २.७.१ रणभूः = रणस्य भूः । षष्ठी-तत्पुरुषः ।
  • २.७.२ रणस्य “रण” (= battle) इति पुल्लिंगि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.७.३ भूः “भू” (= land, field, area) इति स्त्रीलिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.८ सहायाः “सह + इ” १ उ. २ प. ४ आ. (= to go along, to accompany, to assist, to aid) इति धातुः । तस्मात् विध्यर्थि विशेषणम् “सहाय” (= accompanying, assistant) । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

२.९ च (= and) इति अव्ययम् ।

२.१० कपयः “कपि” (= monkey) इति पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

२.११ तथा (= likewise, similarly) इति अव्ययम् ।

२.१२ अपि (= also) इति अव्ययम् ।

२.१३ एकः “एक” (= one) इति संख्यावाचकम् विशेषणम् । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१४ रामः “राम” (= Lord RAma) इति पुल्लिंगि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१५ सकलम् “सकल” (= all) इति विशेषणम् । अत्र नपुंसकलिंगि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२.१६ अवधीत् “वध्” १ प. (= to kill) इति धातुः । तस्य भूतकाले उत्तमपुरुषे एकवचनम् ।

२.१७ राक्षस-कुलम् “राक्षसकुल” (= horde of demons) इति सामासिकम् नपुंसकलिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.१७.१ राक्षसकुलम् = राक्षसाणाम् कुलम् । षष्ठी-तत्पुरुषः ।
  • २.१७.२ राक्षसाणाम् “राक्षस” (= demon) इति पुल्लिंगि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • २.१७.३ कुलम् “कुल” (= horde, family) इति नपुंसकलिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१८ क्रिया-सिद्धिः “क्रियासिद्धि” (= fulfillment of task) इति सामासिकम् स्त्रीलिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.१८.१ क्रियासिद्धिः = क्रियायाः सिद्धिः । षष्ठी-तत्पुरुषः ।
  • २.१८.२ क्रियायाः “क्रिया” (= task) इति स्त्रीलिंगि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.१८.३ सिद्धिः “सिध्” ४ प. (= to fulfill, to attain) इति धातुः । तस्मात् स्त्रीलिंगि नाम “सिद्धि” (= fulfilment, attainment) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१९ सत्त्वे (सत् + त्व = सत्त्व) (= quality, grit, quality of being good) इति भाववाचकम् नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.२० भवति “भू” १ प. (= to be) इति धातुः । तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् ।

२.२१ महताम् “महत्” (= great) इति विशेषणम् । अत्र पुल्लिंगि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

२.२२ न (= not) इति अव्ययम् ।

२.२३ उपकरणे “उप + कृ” ८ उ. (= to oblige, to help, to assist) इति धातुः । तस्मात् नपुंसकलिंगि नाम “उपकरण” (= tool, instrument) । तस्य सप्तमी विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

३.१ विजेतव्या लङ्का (आसीत्) जल-निधिः चरण-तरणीयः (आसीत्) विपक्षः पौलस्त्यः (आसीत्) रण-भुवि सहायाः च कपयः (आसन्) । = The place (or fortress) to be won over was LankA. There was ocean to be crossed on foot. Opponent enemy was RAvaNa, descendant of Pulasti. Armymen were the monkeys.

३.२ तथा अपि एकः रामः सकलम् अवधीत् राक्षस-कुलम् । = Yet RAma single-handedly killed the horde of demons.

३.३ महतां क्रिया-सिद्धिः सत्त्वे भवति न उपकरणे । = Great persons achieve fulfillment of tasks by their inherent grit. The fulfillment of tasks does not depend upon the means at hand.

४ टिप्पणयः ।

४.१ To decipher the meter of the verse –

विजेतव्या लङ्का चरणतरणीयो जलनिधिः । वर्णाः १७
(१-२-२)-(२ २-२) (१-१-१)-(१-१-२)-(२ १-१)-१-२ इति मात्राः ।
य-म-न-स-भ-ल-ग इति गणाः ।

विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । वर्णाः १७
(१-२-२) (२ २-२) (१-१-१)-(१ १-२)-(२ १ १)-१-२ इति मात्राः ।
य-म-न-स-भ-ल-ग इति गणाः ।

तथाप्येको रामः सकलमवधीद्राक्षसकुलम् । वर्णाः १७
(१-२-२)-(२ २-२) (१-१-१)-(१-१-२)-(२-१-१)-१-२ इति मात्राः ।
य-म-न-स-भ-ल-ग इति गणाः ।

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे । वर्णाः १७
(१-२-२)-(२ २-२) (१-१-१) (१-१-२) (२-१-१)-१-२ इति मात्राः ।
य-म-न-स-भ-ल-ग इति गणाः ।

अत्र शिखरिणी-वृत्तम् । तस्य लक्षणपदम् – रसैर्रुद्रैश्छिन्ना यमनसभलागा शिखरिणी ।

४.२ पुलस्ति is said to be mind-born son of Brahma. रावण was grandson of पुलस्ति. So, रावण was a Brahmin by birth. He was stepbrother of Kubera. रावण drove Kubera away from Lanka and became the King. By harsh penance he had acquired powers of deception माया which was also the attribute of राक्षस’s who inhabitated LankA. As the Lord of राक्षस’s, and by virtue of his own attributes of aptitudes and character, रावण was a राक्षस.

४.३ It is clear that class of a person was thus decided not by birth or by the class of the family, in which he was born. It was decided primarily by the person’s own attributes. And the classes were primarily three देव (सत्त्वगुणी), मानव (राजसगुणी), राक्षस (तमोगुणी) ।

Even today, Indian astrologers draft the horoscopes, especially for match-making लग्नकुंडली and for new-born babies जन्मकुंडली. One of the items in the horoscopes is  गण i.e. class of personality – देवगण, मनुष्यगण or राक्षसगण The class of personality in the horoscope is as at the time of birth, supposedly influenced by genetic inheritance and by remainder from previous birth.

४.४ But the personality can change and can be changed by other influences, especially by environment around, by education, by interaction in the circle of friends and by one’s own pursuit of abiding interests. This was earlier detailed in the सुभाषितम् –

आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।

पादं सब्रम्हचारिभ्यः पादं कालक्रमेण च ॥

४.५ With so many factors contributing to making up of one’s personality, everyone can strive to attain a good personality. Of course the most important urge has to be to cultivate the सत्त्वम् the essence of good character and the grit and determination to fulfill tasks.

शुभमस्तु ।

-o-O-o-

5 thoughts on “Learning Sanskrit by Fresh Approach – Lesson 81

  1. I know another version of the same shloka.

    रथस्यैकं चक्रं भुजगयमिताः सप्ततुरगाः
    निरालंबो मार्गश्चरणविकलो सारथिरपि।
    रविर्यात्यंतं प्रतिदिनमपारस्य नभसः
    क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे॥

    English Translation of Sanskrit Quote:

    Everyday the sun travels to the end of endless sky in a single wheeled chariot having seven horses controlled by serpents on an unsupported road with a charioteer having disabled foot. The actions of great people are accomplished by their inner strength, not by the means of doing it.

    • नमो नमः श्रीमन् “किरण परांजपे”-महोदय ! भवता उद्धृतः पाठ-भेदः नव-सप्ततितमाय पाठाय योग्यः । ततः च अत्र द्वौ भेदौ – (१) मम पाठे “चरणरहितः सारथिरपि” भवतः पाठे “चरणविकलो सारथिरपि” (२) मम पाठे “रविर्गच्छत्येव” भवतः पाठे “रविर्यात्यन्तं” (२-१) भवतः पाठेन एकः वर्णः न्यूनः भवति । (२-२) मम पाठे “अपारस्य नभसः” कुत्र गच्छति ? एतत्स्पष्टं न भवति । (२-३) दृश्यते मम पाठः “रविर्गच्छत्यन्तं” एवं परिष्करणीयः खलु । धन्यवादाः खलु ! सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।” https://slabhyankar.wordpress.com http://slezall.blogspot.com स्थापित-दूरभाष-क्रमाङ्कः +91 22 2849 5365 चलितभाष-क्रमाङ्कः +91 98330 72044

    • महाभारतस्यादिपर्वणि ६५ अध्यायानुसारेण

      ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।
      मरीचिरत्र्यंगिरसौ पुलस्त्यः पुलहः क्रतुः ॥१०॥

      ब्रह्मणॊ मानसः पुत्रः पुलस्त्यः, न पुलस्तिः। पुलस्त्यस्य गोत्रापत्यम् पौलस्त्यः। पुलस्त्यस्य पुत्रः विश्रवाः, तस्य पुत्रः – रावणः पौलस्त्यः। इति पौराणिकानुसारेण। एतेषां ब्रह्मांशसंभूतत्वात् ब्राह्मणत्वम्, तेन रावणो ऽपि तद्वंशजत्वाद् ब्राह्मणः। तस्य कर्मणा राक्षत्वमापतितम्। इति सत्यम्। खरदूषणत्रिशिरसस्तु जन्मनैव राक्षसाः इति भेदः।

      कदाचित् पुलस्तिरित्यपि स्यात्।

      विश्रवसः पुत्रौ रावणः, वैश्रवणश्च (कुबेरः)। तस्य अपत्यम् इत्यर्थे अण् प्रत्यये, रवण-विश्रवण इति विश्रवस् शब्दस्यादेशे, रावणः, वैश्रवणः इति रूपम्।

  2. उभयोरप्यानयोः तात्पर्यं एकमेव – क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे। The success of the action of the Great Men is dependent on their ability and not on the tools (used by them for achieving the goal).

    This disparity of the goal and the tools used by the Sun and Rama are given as examples in both the verses.

    In the second cited, there is obvious correction needed:

    चरणविकलः सारथिरपि। instead of चरणविकलो सारथिरपि for सन्धि।
    and

    if the second third line, with a small correction it would also mean the same thing:
    रविर्यात्यत्यन्तं = Sun goes to the farthest limit of the unlimited sky. In the other reading also रविर्गच्छत्यन्तं means the same thing by modification of the existing reading as suggested by Abhyankar.

    Thanks for both the readings. In fact, it is a sort of समस्यापूरण found in Bhojaprabandha.

    There are many others like this one filled differently by different poets. Shall continue my observations in the next posts to follow.

  3. विरुद्धः पक्षः – विपक्षः = opponent

    द्विट्-विपक्षा-हिता-मित्र-दस्यु-शात्रव-शत्रवः। इति कोशः

    दिट्, विपक्षः, अहितः, अमित्रः, दस्युः, शात्रवः, शत्रुः इति पर्यायपदानि शत्रुवाचकानि। पर्यायपदानामपि दाने क्वचिदुपकाराय स्यात् शब्दसम्पत्तिवर्धनाय। It may help to build in vocabulary when one want to express ideas in Sanskrit than giving grammatical analysis for every substantive word like this.

    The precise idea emphasized in the verse can be summed up as follows:

    The success of endeavors of Great Men depends on their ability and not necessarily on the means they use to achieve their goal. The deficiency of the tools and the toughness of the goal to be achieved is illustrated by the example of Rama. The Lanka in the middle of the ocean was to be conquered, and there was ocean to be crossed over by foot. The opponent was Ravana, descendant of Pulastya (the Great mind born son of Brahma) and the accomplices in the battle ground are only monkeys (not eve3n human soldiers). In spite of these (draw backs), राम single handed destroyed the whole mass of the demons.
    Because the success of the endeavors of Great Men depends on their ability and not on the tools they use achieve the goal.

    Precise interpretation of the idea contained.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s