Learning Sanskrit by Fresh Approach – Lesson No. 79

Learning Sanskrit by Fresh Approach – Lesson No. 79
संस्कृतभाषायाः नूतनाध्ययनस्य नव-सप्ततितमः (७९) पाठः ।

In the context of our study of सुभाषितानि related to carrying tasks to their destiny, this सुभाषितम् is also interesting –

रथस्यैकम् चक्रम् भुजगयमिताः सप्त तुरगाः ।
निरालम्बो मार्गश्चरणरहितः सारथिरपि ।
रविर्गच्छत्येव प्रतिदिनमपारस्य नभसः ।
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥

१ सन्धिविच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा –

रथस्य एकम् चक्रम् भुज-ग-यमिताः सप्त तुरगाः ।
निरालम्बः मार्गः चरणरहितः सारथिः अपि ।
रविः गच्छति एव प्रतिदिनम् अपारस्य नभसः ।
क्रिया-सिद्धिः सत्त्वे भवति महतां न उपकरणे ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ रथस्य “रथ” (= chariot) इति पुल्लिंगि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

२.२ एकम् “एक” (= one) इति संख्यावाचकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.३ चक्रम् “चक्र”(= wheel) । इति नपुंसकलिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.४ भुजगयमिताः “भुजगयमित” (= reined by serpents) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • २.४.१ भुजैः गच्छति इति भुजगः । उपपद-तत्पुरुषः ।
  • २.४.२ भुजगैः यमितः इति भुजगयमितः । तृतीया-तत्पुरुषः ।
  • २.४.३ भुजैः “भुज” (= arm or side) इति पुल्लिंगि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
  • २.४.४ गच्छति “गम्” १ प. (= to go) इति धातुः । तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् ।
  • २.४.५ भुजगैः “भुजग” (= one who goes on arms, serpent) इति पुल्लिंगि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
  • २.४.६ यमितः “यम्” १ प. (= to restrain, to regulate, to rein in) इति धातुः । तस्य प्रयोजकस्य भूतकालवाचकम् विशेषणम् “यमित” (= reined) । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.५ सप्त (= seven) इति संख्यावाचकम् विशेषणम् । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

२.६ तुरगाः “तुरग” (= horse) इति पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

२.७ निरालम्बः “निरालम्ब” (= unsupported) इति सामासिकं विशेषणम् । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.७.१ निः (= निर्गतः) आलम्बः यस्य सः निरालम्बः । उपपद-बहुव्रीहिः ।
  • २.७.२ निर्गतः “निः + गम्” १ प. (= to remove, not to provide) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “निर्गत” (= absent) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.७.३ आलम्बः “आ + लम्ब्” १ आ. (= to support) इति धातुः । तस्मात् पुल्लिंगि नाम “आलम्ब” (= support) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.८ मार्गः “मार्ग” (= path) इति पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.९ चरणरहितः “चरणरहित” (= without legs, lame) इति सामासिकं विशेषणम् । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.९.१ चरणाभ्याम् रहितः = चरणरहितः । तृतीया-तत्पुरुषः ।
  • २.९.२ चरणाभ्याम् “चरण” (= leg) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः द्विवचनम् च ।
  • २.९.३ रहितः “रह्” १ प. १० उ. (= to deprive) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “रहित” (= deprived of) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१० सारथिः “सारथि” (= charioteer) इति पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.११ रविः “रवि” (= sun) इति पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१२ प्रतिदिनम् = दिने दिने । अव्ययीभावः ।

  • २.१२.१ दिने “दिन” (= day) पुल्लिंगि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.१३ अपारस्य “अपार” (= endless) इति सामासिकम् विशेषणम् । अत्र नपुंसकलिंगि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • २.१३.१ न पारः यस्य तत् = अपारम् । नञ्-तत्पुरुषः ।
  • २.१३.२ न (= no or not) इति अव्ययम् ।
  • २.१३.३ पारः “पार” (= other end) इति पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१४ नभसः “नभस्” (= sky) इति नपुंसकलिंगि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

२.१५ क्रियासिद्धिः “क्रियासिद्धि” (= fulfilment of task) इति सामासिकं स्त्रीलिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.१५.१ क्रियायाः सिद्धिः = क्रियासिद्धिः । षष्ठी-तत्पुरुषः ।
  • २.१५.२ क्रियायाः “कृ” ८ उ. (=  to do, to perform a task) इति धातुः । तस्मात् स्त्रीलिंगि नाम “क्रिया” (= task) । तस्य षष्ठी विभक्तिः एकवचनम् ।
  • २.१५.३ सिद्धिः “सिध्” ४ प. (= to fulfill) इति धातुः । तस्मात् स्त्रीलिंगि नाम “सिद्धि” (= fulfillment) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१६ सत्त्वे “सत् + त्व = सत्त्व” (= essence, grit, capability, quality to excel) इति नपुंसकलिंगि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.१७ भवति “भू” १ प. (= to be) इति धातुः । तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् च ।

२.१८ महताम् “महत्” (= great) इति विशेषणम् । अत्र पुल्लिंगि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

२.१९ उपकरणे “उपकरण” (= tool) इति नपुंसकलिंगि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

३.१ रथस्य एकम् चक्रम् भुजगयमिताः सप्त तुरगाः निरालम्बः मार्गः सारथिः अपि चरणरहितः (एवं स्थितौ अपि) रविः प्रतिदिनम् अपारस्य नभसः गच्छति एव । = Sun goes across the endless sky every day, even when his chariot has only one wheel, seven horses of his chariot are reined in by serpents, his path provides no support, his charioteer has no legs

३.२ महतां क्रिया-सिद्धिः सत्त्वे भवति न उपकरणे । = The great fulfill their tasks by their inherent grit and capability. Their fulfillment of tasks does not depend upon tools available to them

४ टिप्पणयः ।

४.१ To decipher the meter of the verse –

रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगाः । वर्णाः १७
निरालम्बो मार्गश्चरणरहितः सारथिरपि । वर्णाः १७
रविर्गच्छत्येव प्रतिदिनमपारस्य नभसः । वर्णाः १७
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ वर्णाः १७

रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगाः ।
(१-२-२)-(२ २-२) (१-१-१)-(१-१-२) (२-१ १)-१-२ इति मात्राः ।
य-म-न-स-भ-ल-ग इति गणाः ।

अत्र शिखरिणी वृत्तम् । अस्य लक्षणपदम् – रसैर्रुद्रैश्छिन्नः यमनसभलागः शिखरिणी ।

४.२ All the description of the sun, that his chariot has only one wheel, the seven horses of his chariot are reined by serpents, his charioteer has no legs are from mythology related to sun. sun’s chariot having seven horses is also mentioned in Rig-Veda. (Ref. – http://www.askganesha.com/stories/surya.asp)

More details about Sun God are also given at http://en.wikipedia.org/wiki/Solar_deity

४.३ Whereas many concepts about Sun and his chariot are mythological, one point is absolutely true to astrophysics. That is about all astronomical objects spinning and orbiting with no physical support whatsoever the aspect of निरालम्बः मार्गः !!! And that is true not only for sun but true for all the astronomical objects.

४.४ People will also argue that it is not the sun which goes around in the sky above. But it is also true that there are hundreds and thousands of stars, especially in the milky way. Every star is a sun and has its own solar system. In as much as the milky way is not seen every other night, all those solar systems also keep orbiting. Likewise hence our solar system ought to be orbiting. So, our sun also ought to be orbiting.

४.५ A concept of thousands of suns is well-mentioned in श्रीमद्भगवद्गीता –

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११-१२॥

४.६ All mythology is not collections of myths. There are often many scientific truths shrouded inside the garb of mythology. “Explore and find the truths !” says ईशावास्योपनिषत् – हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् । तत्त्वम् पूषन्नपावृणु सत्यधर्माय दृष्टये ॥

शुभमस्तु ।

-o-O-o-

2 thoughts on “Learning Sanskrit by Fresh Approach – Lesson No. 79

  1. रथस्य “रथ” (= chariot) इति पुल्लिंगि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च

    please explain how this will be “prathama vibhakti” this is a-karanta pullinga shabda and rathasya should be shashthi vibhatki.

    thanks!!
    nagu.

    • नमो नमः श्रीमन् “नागु (?)”-महोदय ! सुष्ठु निर्देशितं भवता “रथस्य”-शब्दः तु षष्ठी-विभक्त्यामेव । झटिति मार्जनं करोमि । धन्यवादाः खलु । सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s