Learning Sanskrit by fresh approach – Lesson No. 78

Learning Sanskrit by fresh approach – Lesson No. 78

संस्कृतभाषायाः नूतनाध्ययनस्य अष्ट-सप्ततितमः (७८) पाठः |

As mentioned in the previous lesson, now this 82nd सुभाषितम् from नीतिशतकम् by भर्तृहरि  –

क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनम् |

क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः |

क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो |

मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ||

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा |

क्वचित् भूमौ शय्या क्वचित् अपि च पर्यङ्क-शयनम् |

क्वचित् शाकाहारी क्वचित् अपि च शालि-ओदन-रुचिः |

क्वचित् कन्था-धारी क्वचित् अपि च दिव्य-अम्बर-धरः |

मनस्वी कार्य-अर्थी न गणयति दुःखं न च सुखम् ||

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च |

२.१ क्वचित् (= sometimes, somewhere) इति अव्ययम् |

२.२ भूमौ “भूमि” (= floor) इति स्त्रीलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च |

२.३ शय्या “शी” २ आ. (= to lie down, to recline, to sleep) इति धातुः | तस्मात् स्त्रीलिङ्गि नाम “शय्या” (= bed, couch) | तस्य प्रथमा विभक्तिः एकवचनम् च |

२.४ अपि (= also) इति अव्ययम् |

२.५ पर्यङ्क-शयनम् “पर्यङ्क-शयन” (= sleeping on a couch) इति सामासिकं नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च |

  • २.५.१ पर्यङ्के शयनम् = पर्यङ्क-शयनम् | सप्तमी तत्पुरुषः ।
  • २.५.२ पर्यङ्के “पर्यङ्क” (= couch, sofa, well-laid bed) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २.५.३ शयनम् “शी” २ आ. (= to lie down, to recline, to sleep) इति धातुः | तस्मात् नपुंसकलिङ्गि नाम  “shayana” (= sleeping) | तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.६ शाकाहारी “शाकाहारिन्” (= eating vegetation) इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.६.१ शाकैः (एव) आहारः यस्य सः = शाकाहारी | बहुव्रीहिः |
  • २.६.२ शाकैः “शाक” (= vegetation) इति पुल्लिङ्गि वा नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च |
  • २.६.३ आहारः “आ + हृ” १ उ. (= to consume, to eat) इति धातुः | तस्मात् पुल्लिङ्गि नाम “आहार” (= diet) | तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.७ शाल्योदनरुचिः “शाल्योदनरुचि” (= having liking for special boiled rice) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २.७.१ शाल्याः ओदनम् = शाल्योदनम् | षष्ठी-तत्पुरुषः |
  • २.७.२ शाल्योदने रुचिः यस्य सः = शाल्योदनरुचिः । बहुव्रीहिः ।
  • २.७.३ शाल्याः “शालि” (= a special type of rice, popular in Goa and Konkan in India) इति स्त्रीलिङ्गि विशेषनाम ।  तस्य षष्ठी विभक्तिः एकवचनम् च ।|
  • २.७.४ ओदनम् “ओदन” (= boiled rice) इति पुल्लिङ्गि वा नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.७.५ शाल्योदने “शाल्योदन” (= boiled rice made from “shaali”-type of rice) इति सामासिकं पुल्लिङ्गि नाम वा नपुंसकलिङ्गि नाम । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २.७.६ रुचिः “रुचि” (= taste, liking) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.८ कन्था-धारी “कन्थाधारिन्” (= wearing a rag) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २-८-१ कन्थां धारयति इति कन्थाधारी | उपपद-तत्पुरुषः ।
  • २-८-२ कन्थाम् “कन्था” (= a rag) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • २-८-३ धारयति “धृ” १० उ. (= to wear, to bear) इति धातुः | तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् ।

२.९ दिव्य-अम्बर-धरः “दिव्य-अम्बर-धर” (= wearing shining, celestially rich garment) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २-९-१ दिव्यं अम्बरम् = दिव्याम्बरम् । कर्मधारयः ।
  • २-९-२ दिव्याम्बरं धरति इति = दिव्याम्बरधरः । उपपद-तत्पुरुषः ।
  • २-९-३ दिव्यम् “दिव्” ४ प. (= to shine) इति धातुः । तस्मात् विशेषणम् “दिव्य” (= shining) | अत्र नपुंसकलिङ्गि । तस्य प्रथमा वा द्वितीया विभक्तिः एकवचनम् च ।
  • २-९-४ अम्बरम् “अम्बर” (= garment) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा वा द्वितीया विभक्तिः एकवचनम् च ।
  • २-९-५ धरति “धृ” १ उ. (= to wear, to bear) इति धातुः । तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् |

२.१० मनस्वी “मनस्विन्” (= vehement) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.११ कार्यार्थी “कार्यार्थिन्” (= focused on task on hand) इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २-११-१ कार्यम् एव अर्थः यस्य सः = कार्यार्थी । बहुव्रीहिः ।
  • २-११-२ कार्यम् “कृ” ८ उ. (= to do) इति धातुः | तस्मात् विध्यर्थवाचकं विशेषणम् अथवा पुल्लिङ्गि नाम “कार्य” (= task to be done) | तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २-११-३ अर्थः “अर्थ” (= purpose, goal, objective) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१२ न (= without) इति अव्ययम् ।

२.१३ गणयति “गण् ” १० उ. (=to count, to pay heed to) इति धातुः | तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् ।

२.१४ दुःखम् “दुःख” (= sorrow, trouble) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२.१५ सुखम् “सुख” (= happiness, pleasure, comfort) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

३.१ क्वचित् भूमौ शय्या क्वचित् च पर्यङ्क-शयनं अपि । = Sometimes (it may be) sleeping on the floor and sometimes on a well-laid bed

३.२ क्वचित् शाकाहारी क्वचित् च शाली-ओदन-रुचिः अपि । = Sometimes (it may be) eating vegetations and sometimes special bolied rice of “शाली”-variety

३.३ क्वचित् कन्था-धारी क्वचित् अपि च दिव्याम्बरधरः । = Sometimes (it may be) wearing only rags and sometimes shining robes

३.४ मनस्वी कार्यार्थी न दुःखम् सुखम् च न गणयति । = (But) a person focused on set goals and ready to persevere pays no heed to happinesses and sorrows (or to troubles or pleasures).

४ टिप्पणयः ।

४.१ To decipher the meter –

क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनम् । वर्णाः १७

क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः । वर्णाः १७

क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो । वर्णाः १७

मनस्वी कार्यार्थी न गणयति दुःखम् न च सुखम् ।। वर्णाः १७

क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनम् ।

(1-2-2)-(2 2-2) (1-1-1)-(1 1 2)-(1-1-2)-1-2 इति मात्राः ।

य-म-न-स-भ-ल-ग इति गणाः ।

The meter of the verse is शिखरिणी-वृत्तम् । Its लक्षणपदम् is – रसैर्रुद्रैश्छिन्ना यमनसभलागः शिखरिणी ।

४.२ This verse is from नीतिशतकम् by भर्तृहरि । This verse is 82nd . A short commentary on the verse is as follows –

४.३ Food shelter and clothing are three basic necessities of life. All the three are covered in this सुभाषितम् . Levels of comfort and discomfort in respect of all the three are mentioned and moral is stated that to a person focused on his objectives comfort or discomfort even in respect of basic necessities does not bother him.

शुभमस्तु ।

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s