Learning Sanskrit by fresh approach – Lesson No. 76

Learning Sanskrit by fresh approach – Lesson No. 76

संस्कृतभाषायाः नूतनाध्ययनस्य षट्-सप्ततितमः (७६) पाठः |

There has been a long gap from my previous lesson. I need to remind myself that  task undertaken is not to be left half way. Actually as far as study of संस्कृतम् and सुभाषितानि is concerned, there is no count of when it becomes half way or full way. It is an unending study. This सुभाषितम् should keep me on track –

आरभ्यते न खलु विघ्नभयेन नीचैः |

प्रारभ्य विघ्नविहता विरमन्ति मध्याः |

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः |

प्रारभ्य तूत्तमजना न परित्यजन्ति ||

१ सन्धि-विच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा  |

आरभ्यते न खलु विघ्न-भयेन नीचैः |

प्रारभ्य विघ्न-विहताः विरमन्ति मध्याः |

विघ्नैः पुनः पुनः अपि प्रतिहन्यमानाः |

प्रारभ्य तु उत्तम-जनाः न परित्यजन्ति ||

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च |

२.१ आरभ्यते “आ + रभ्” १ आ. (= to begin) इति धातुः | तस्य कर्मणि-प्रयोगे लट्-वर्तमाने उत्तमपुरुषे एकवचनम् |

२.२ न (= no) इति अव्ययम् |

२.३ खलु (= truly) इति अव्ययम् |

२.४ विघ्न-भयेन “विघ्न-भय” (= fear of difficulties) इति सामासिकं नपुंसकलिङ्गि नाम | तस्य तृतीया विभक्तिः एकवचनम् च |

  • २.४.१ विघ्नभयम् = विघ्नस्य भयम् | षष्ठी-तत्पुरुषः |
  • २.४.२ विघ्नस्य “विघ्न” (= obstacle, hindrance, trouble, difficulty, calamity) इति नपुंसकलिङ्गि नाम | तस्य षष्ठी विभक्तिः एकवचनम् च |
  • २.४.३ भयेन “भय” (= fear) इति नपुंसकलिङ्गि नाम | तस्य तृतीया विभक्तिः एकवचनम् च |

२.५ नीचैः “नीच” (= lowly) इति विशेषणम् | अत्र पुल्लिङ्गि | तस्य तृतीया विभक्तिः बहुवचनम् च |

२.६ प्रारभ्य “प्र + आ + रभ्” १ आ. (= to begin) इति धातुः | तस्मात् “य”-प्रत्ययान्तं भूतकालवाचकं अव्ययम् (= having begun)

२.७ विघ्न-विहताः “विघ्न-विहत” (= subdued by difficulties)  इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनम् च |

  • २.७.१ विघ्न-विहतः = विघ्नेन विहतः | तृतीया-तत्पुरुषः |
  • २.७.२ विघ्नेन  “विघ्न” (= obstacle, hindrance, trouble, difficulty, calamity) इति नपुंसकलिङ्गि नाम | तस्य तृतीया विभक्तिः एकवचनम् च |
  • २.७.३ विहतः “वि + हन्” २ प (= to subdue) इति धातुः | तस्मात् भूतकालवाचकं विशेषणम् “विहत” (= subdued) | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |

२.८ विरमन्ति “वि + रम्” (= to retreat, to stop, to halt) इति धातुः | तस्य लट्-वर्तमाने उत्तमपुरुषे बहुवचनम् |

२.९ मध्याः “मध्य” (= middle) इति विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनम् च |

२.१० विघ्नैः “विघ्न” (= obstacle, hindrance, trouble, difficulty, calamity) इति नपुंसकलिङ्गि नाम |  तस्य तृतीया विभक्तिः बहुवचनम् च |

२.११ पुनः (= again) इति अव्ययम् |

२.१२ अपि (= also, even if) इति अव्ययम् |

२.१३ प्रतिहन्यमानाः “प्रति + हन्” २ प (= to trouble, to challenge) इति धातुः | तस्मात् कर्मणि-प्रयोगतः रीति-वर्तमानकालवाचकं विशेषणम् “प्रतिहन्यमान” (= being challenged) | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनम् च |

२.१४ तु (= however) इति अव्ययम् |

२.१५ उत्तमजनाः “उत्तमजन” (= the excellent person) इति सामासिकं पुल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः बहुवचनम् च |

  • २.१५.१ उत्तमजनः = उत्तमः जनः | कर्मधारयः |
  • २.१५.२ उत्तमः “उत्तम” (= excellent) इति विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.१५.३ जनः “जन” (= person) इति पुल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनम् च |

२.१६ परित्यजन्ति “परि + त्यज्” १ प (= to abandon) इति धातुः | तस्य लट्-वर्तमाने उत्तमपुरुषे बहुवचनम् च |

३ अन्वयाः अनुवादाः च |

३.१ नीचैः विघ्न-भयेन (कार्यम्) न आरभ्यते खलु । = Due to fear of difficulties, lowly persons do not undertake tasks at all.

३.२ मध्याः (कार्यम्) प्रारभ्य विघ्न-विहताः विरमन्ति | = Mediocre persons forsake undertaken tasks, when subdued by difficulties.

३.३ उत्तमजनाः तु (कार्यम्) प्रारभ्य विघ्नैः पुनः पुनः प्रतिहन्यमानाः अपि न परित्यजन्ति | = However excellent persons, once a task is undertaken, even if troubled and challenged by difficulties again and again, do not abandon the task.

४ टिप्पणयः |

४.१ To decipher the meter –

आरभ्यते न खलु विघ्नभयेन नीचैः | वर्णाः १४

प्रारभ्य विघ्नविहता विरमन्ति मध्याः | वर्णाः १४

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः | वर्णाः १४

प्रारभ्य तूत्तमजना न परित्यजन्ति | वर्णाः १४

आरभ्यते न खलु विघ्नभयेन नीचैः |

(२-२-१)-(२ १ १)-(१ २-१)-(१-२-१) २-२ इति मात्राः

त-भ-ज-ज-ग-ग इति गणाः ।

प्रारभ्य विघ्नविहता विरमन्ति मध्याः |

(२-२-१) (२-१-१)-(१-२ १)-(१-२-१) २-२ इति मात्राः

त-भ-ज-ज-ग-ग इति गणाः ।

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः |

प्रारभ्य तूत्तमजना न परित्यजन्ति ||

This is वसन्ततिलका-वृत्तम् | अस्य लक्षणपदमस्ति – उक्ता वसंततिलका तभजाः जगौ गः ।

४.२ In this सुभाषितम् persons are classified into three categories. Most aspects of life can be analysed by such three-fold classification. Here the three classes are called as lowly, mediocre, excellent – नीच, मध्यम, उत्तम | In the fourteenth chapter in श्रीमद्भगवद्गीता the classes are called as, तामस, राजस सात्विक । In the seventeenth chapter, faiths and beliefs, diet, आहार, यज्ञ, तप and दान are also classified by such three-fold classification. In the eighteenth chapter, ज्ञानम्, कर्म, कर्ता, बुद्धिः, धृतिः and सुखम् are again classified by such three-fold classification.

Thus such three-fold classification becomes a ready checklist for anyone to understand for oneself, where one stands and what should be the goals and directions.

४.३ There is another सुभाषितम् on the same theme. We can study that in the next lesson.

शुभमस्तु |

-o-O-o-

8 thoughts on “Learning Sanskrit by fresh approach – Lesson No. 76

    • नमो नमः श्रीमन् “किरण परांजपे”-महोदय ! Thanks for your comment. (1) Different versions are not unusual. (2) चोत्तमजना also fits the meter alright. (3) तु seems to be more emphatic than च and hence closer to the meaning, which the poet seems to be wanting to convey. सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।”

      • The version that I know says:
        प्रारब्धमुत्तमजना न परित्यजन्ति

        This supplies an explicit कर्म to the verbs in two sentences in lines 2 to 4, which otherwise has to read by imagination into them. It is also more pleasing to the ear than either तूत्तमजनाः or प्रारभ्य चोत्तमजनाः

        I would think that a mention that this verse is from the नीतिशतक of भर्तृहरि is appropriate here.

        Here I am reminded of another verse in the same line of thought.
        अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम्।
        प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्॥

      • धन्यवादाः खलु श्रीमन् “अरविन्द कोल्हटकर”-महोदय ! सत्यं हि भवता प्रेषिते पाठे सुस्पष्टं कर्मपदमस्ति । पाठः कर्णमधुरो ऽ पि भवति । भर्तृहरेः नीतिशतकस्य उल्लेखः अपि कर्तव्यः आसीत् । अग्रतः एतत् मनसीकरोमि । भवता सूचितम् अन्यं सुभाषितमपि अभ्यसनीयं खलु । सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।” https://slabhyankar.wordpress.com http://slezall.blogspot.com स्थापित-दूरभाष-क्रमाङ्कः +91 22 2849 5365 चलितभाष-क्रमाङ्कः +91 98330 72044

      • नमो नमः श्रीमन् “अरविन्द कोल्हटकर”-महोदय ! भवता सूचितम् सुभाषितम् अस्ति – अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम्। प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्॥ परन्तु एका शङ्का अस्ति – प्रथमे पादे “अनारम्भो ह्यकार्याणां” एवमपि पाठभेदः सुष्ठुतरः खलु ? सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।” https://slabhyankar.wordpress.com http://slezall.blogspot.com स्थापित-दूरभाष-क्रमाङ्कः +91 22 2849 5365 चलितभाष-क्रमाङ्कः +91 98330 72044 2010/12/17 S. L. Abhyankar

        > धन्यवादाः खलु श्रीमन् “अरविन्द कोल्हटकर”-महोदय ! > सत्यं हि भवता प्रेषिते पाठे सुस्पष्टं कर्मपदमस्ति । पाठः कर्णमधुरो ऽ पि > भवति । > भर्तृहरेः नीतिशतकस्य उल्लेखः अपि कर्तव्यः आसीत् । अग्रतः एतत् मनसीकरोमि । > भवता सूचितम् अन्यं सुभाषितमपि अभ्यसनीयं खलु । > सस्नेहम् , > अभ्यंकरकुलोत्पन्नः श्रीपादः | > “श्रीपतेः पदयुगं स्मरणीयम् ।” > https://slabhyankar.wordpress.com > http://slezall.blogspot.com > स्थापित-दूरभाष-क्रमाङ्कः +91 22 2849 5365 > चलितभाष-क्रमाङ्कः +91 98330 72044 > >

  1. निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् also has the same sense. I do not remember the first three lines. What are they?

    • अनारम्भो ह्यकार्याणां would also be a good and meaningful version but I think that verse has been composed in the catchy way to put some commonsense into the mind of the reader. From this point the original version appears more appropriate.

      • नमो नमः श्रीमन् “अरविन्द कोल्हटकर”-महोदय ! वस्तुतः तु “अनारम्भो हि कार्याणाम्” इदम् वचनम् कतिपयं तत्त्वज्ञानात्मकमस्ति । पश्यताम् श्रीमद्भगवद्गीतायां “सर्वारम्भपरित्यागी गुणातीतः स उच्यते” (१४-२५) मनुष्येण कुर्वन्नपि नैव किञ्चित् करोमीति मन्तव्यम् । पश्यताम् “नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्” (५-८) एतत् तु तत्त्वज्ञानात्मकम् । सामान्यतः व्यावहारिक-दृष्ट्या च “अनारम्भो ह्यकार्याणाम्” एवम् पाठः युक्तः इति मे मतिः । अस्तु । सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s