Learning Sanskrit by Fresh Approach – Lesson No. 75

Learning Sanskrit by Fresh Approach – Lesson No. 75
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्च-सप्ततितमः (७५) पाठः ।

Mr. Jaideep Joshi suggested that there should be a lesson to detail how the meter of a verse is deciphered. As such many examples of this aspect have been studied in many lessons. Especially in lesson No. 36 method of naming the gaNaaH ( A set of three syllables is called as a गणः) was detailed, using also the phrase यमाताराजभानसलगं

But many such rules can be memorized if they are in verse form. Here are three verses given in Apte’s dictionary under Appendix I on Sanskrit Prosody –

सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत् ।
वर्णः संयोगपूर्वश्च तथा पादान्तगोऽपि वा ॥ 

 

आदिमध्यावसानेषु यरता यान्ति लाघवम् ।
भजसा गौरवं यान्ति मनौ तु गुरुलाघवम् ॥

मस्त्रिगुरुस्त्रिलघुश्च नकारो ।
भादिगुरुः पुनरादिलघुर्यः ।
जो गुरुमध्यगतो रलमध्यः ।
सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥

१ सन्धिविच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा

सानुस्वारः च दीर्घः च विसर्गी च गुरुः भवेत् ।
वर्णः संयोग-पूर्वः च तथा पादान्तगः अपि वा ॥ 

 

आदि-मध्यावसानेषु यरताः यान्ति लाघवम् ।
भजसाः गौरवं यान्ति मनौ तु गुरुलाघवम् ॥

मः त्रि-गुरुः त्रि-लघुः च नकारः ।
भ-आदि-गुरुः पुनः आदि-लघुः यः ।
जः गुरुमध्य-गतः र-ल-मध्यः ।
सः अन्त-गुरुः कथितः अन्त-लघुः तः ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ सानुस्वारः ।

  • २.१.१ अनुस्वारेण सह = सानुस्वारः । उपपद-तत्पुरुषः ।
  • २.१.२ अनुस्वारेण “अनुस्वार” (= dot above a letter for nasal sounds, or a syllable of nasal sound) इति नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • २.१.३ सह (= with) इति अव्ययम् ।
  • २.१.४ सानुस्वारः “सानुस्वार” (= with the symbolic dot, or with nasal syllable) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.२ दीर्घः “दीर्घ” (= long) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.३ विसर्गी ।

  • २.३.१ विसर्गः अस्य अस्ति = विसर्गिन् । विशेषणम् ।
  • २.३.२ वि + सर्गः = विसर्गः ।
  • २.३.२.१ वि इति उपसर्गः “वि = विशेषेण” इति अर्थेण ।
    २.३.२.२ सर् + गः = सर्गः । “सर्” इति उपसर्गः “सृज्यते” इति अर्थेण । ग इति उपपदम् “गच्छति” इति अर्थेण । सृज्यते गच्छति च = सर्गः । यथा संसर्गः, उत्सर्गः, विसर्गः एतेषु शब्देषु ।
  • २.३.३ विसर्गी “विसर्गिन्” (= having a sound of aspiration denoted by a colon following the letter) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.४ गुरुः “गुरु” (= big, large) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च । 

२.५ भवेत् “भू” १ प. (= to be, to become) इति धातुः । तस्य विध्यर्थे उत्तम-पुरुषे एकवचनम् ।

२.६ वर्णः “वर्ण्” १० उ. (= to depict) इति धातुः । तस्मात् पुल्लिङ्गि नाम “वर्ण” (= a syllable, a letter because it depicts a sound) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.७ संयोग-पूर्वः ।

  • २.७.१ संयोगस्य पूर्वे यः सः = संयोगपूर्वः । बहुव्रीहिः ।
  • २.७.२ संयोगस्य “सम् + युज्” ७ उ. (= to put together, to join, to compound) इति धातुः । तस्मात् पुल्लिङ्गि नाम “संयोग” (= compound) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.७.३ पूर्वे “पूर्व” (= before) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २.७.४ संयोगपूर्वः “संयोगपूर्व” (= before a syllable of compounded consonants) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.८ पादान्तगः ।

  • २.८.१ पादस्य अन्तः = पादान्तः । षष्ठी-तत्पुरुषः ।
  • २.८.२ पादान्ते गच्छति यः सः = पादान्तगः । उपपद-बहुव्रीहिः ।
  • २.८.३ पादस्य “पाद” (= quarter) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.८.४ अन्तः “अन्त” (= end) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.८.५ पादान्ते “पादान्त” (= end of a quarter) इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २.८.६ गच्छति “गम्” १ प. (= to go) इति धातुः । तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् ।
  • २.८.७ पादान्तगः “पादान्तग” (= one which goes or is at the end of a quarter) इति सामासिकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.९ आदि-मध्यावसानेषु ।

  • २.९.१ आदि च मध्यम् च अवसानम् च = आदिमध्यावसानानि । इतरेतर-द्वंद्वः ।
  • २.९.२ आदि (= beginning) इति विशेषणम् । अत्र नपुंसकलिङ्गि । “आदि स्थानम्” इति संक्षेपतः “आदि” ।
  • २.९.३ मध्यम् (= middle) इति विशेषणम् । अत्र नपुंसकलिङ्गि । “मध्यमम् स्थानम्” इति संक्षेपतः “मध्य” ।
  • २.९.४ अवसानम् (= ending, last) इति विशेषणम् । अत्र नपुंसकलिङ्गि ।
  • २.९.५ आदिमध्यावसानेषु “आदिमध्यावसान” इति सामासिकम् नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।

२.१० यरताः ।

  • २.१०.१ “य” इति य-गणः, “र” इति र-गणः तथा “त” इति त-गणः । एतेषां इतरेतर-द्वंद्वेन यरताः ।
  • २.१०.२ यरताः इति सामासिकशब्दस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • २.१०.३ यरताः means the गण-s “य”, “र” and “त”

२.११ यान्ति “या” २ प. (= to go to) इति धातुः । तस्य लट्-वर्तमाने उत्तमपुरुषे बहुवचनम् ।

२.१२ लाघवम् “लघु” (= small) इति विशेषणम् । तस्मात् भाववाचकम् नपुंसकलिङ्गि नाम “लाघव” (= smallness) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२.१३ भजसाः ।

  • २.१३.१ “भ”-इति भगणः, “ज”-इति जगणः तथा “स”-इति सगणः । एतेषां इतरेतर-द्वंद्वेन भजसाः ।
  • २.१३.२ भजसाः इति सामासिकशब्दस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • २.१३.३ भजसाः means the गण-s “भ”, “ज” and “स”

२.१४ गौरवम् “गुरु” (= big, large) इति विशेषणम् । तस्मात् भाववाचकम् नपुंसकलिङ्गि नाम “गौरव” (= largeness) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२.१५ मनौ ।

  • २.१५.१ “म”-इति मगणः । “न”-इति नगणः । एतयोः इतरेतर-द्वंद्वेन “मनौ” । अत्र सामासिकशब्दस्य प्रथमा-विभक्त्याम् द्विवचनम् च ।
  • २.१५.२ मनौ means the गण-s  “म” and “न”

२.१६ गुरुलाघवम् ।

  • २.१६.१ गुरुत्वम् वा लाघवम् वा इति समाहार-द्वंद्वेन गुरुलाघवम् ।
  • २.१६.२ गुरुत्वम् “गुरु” (= large) इति विशेषणम् । तस्मात् “त्व”-प्रत्ययेन भाववाचकम् नपुसंकलिङ्गि नाम “गुरुत्व” (= largeness) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.१६.३ लाघवम् “लघु” (= small) इति विशेषणम् । तस्मात् “त्व”-प्रत्ययेन भाववाचकम् नपुम्सकलिङ्गि नाम “लाघव” (= smallness) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.१६.४ गुरुलाघवम् = largeness or smallness

२.१७ मः “म” इति नाम्ना ज्ञातः गणः (= the set of three syllables known by the name “म”)।। तेन “म”-इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.१८ त्रि-गुरुः

  • २.१८.१ तिस्रोऽपि (वर्णाः) गुरवः यस्मिन् सः = त्रिगुरुः । बहुव्रीहिः ।
  • २.१८.२ तिस्रः “त्रि” (= three) इति संख्यावाचकम् विशेषणम् । अत्र पुल्लिंगि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • २.१८.३ वर्णाः (यथा (२.६)-मध्ये विवृतम् = as detailed under (2.6)) अत्र बहुवचनम् ।
  • २.१८.४ गुरवः (यथा (२.४)-मध्ये विवृतम् = as detailed under (2.4)) अत्र बहुवचनम् ।
  • २.१८.५ त्रिगुरुः = having all three syllables of weightage 2

२.१९ त्रि-लघुः |

  • २.१९.१ तिस्रोऽपि (वर्णाः) लघवः यस्मिन् सः = त्रिलघुः । बहुव्रीहिः ।
  • २.१९.२ लघवः “लघु” (= small) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • २.१९.३ त्रिलघुः = having all three syllables of weightage 1

२.२० नकारः ।

  • २.२०.१ “न” इति कारः = नकारः । कर्मधारयः ।
  • २.२०.२ न इति नाम्ना ज्ञातः गणः (= the set of three syllables known by the name “न”)।।
  • २.२०.३ कारः (एवं क्रियते इति अर्थेण क्रियावाचकम् पुल्लिङ्गि नाम “कार” = masculine singular noun having meaning “done so”) । यथा विविधैः उपसर्गैः आकारः विकारः संस्कारः प्रकारः इत्यादयः (e.g. with different prefixes we have  other words such as आकारः विकारः संस्कारः प्रकारः etc.
  • २.२०.४ नकारः “न”-एवं कारः यस्य सः = done same way as the triad called as “न”

२.२१ भादिगुरुः ।

  • २.२१.१ भः आदिगुरुः = भादिगुरुः । कर्मधारयः ।
  • २.२१.२ आदिः (वर्णः) गुरुः यस्मिन् सः = आदिगुरुः । बहुव्रीहिः ।
  • २.२१.३ भः “भ”-इति नाम्ना ज्ञातः गणः (= the set of three syllables known by the name “भ”)।। तेन “भ”-इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२१.४ आदिः “आदि” (= beginning, first) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२१.५ भादिगुरुः = where first syllable is of weightage 2 and is known as “भ”

२.२२ पुनः (= again) इति अव्ययम् ।

२.२३ आदि-लघुः ।

  • २.२३.१ आदिः (वर्णः) लघुः यस्मिन् सः = आदिलघुः । बहुव्रीहिः ।
  • २.२३.२ आदिलघुः = where first syllable is of weightage 1

२.२४ यः “य”-इति नाम्ना ज्ञातः गणः (= the set of three syllables known by the name “य”)।। तेन “य”-इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.२५ जः “ज”-इति नाम्ना ज्ञातः गणः (= the set of three syllables known by the name “ज”)।। तेन “ज”-इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.२६ गुरुमध्यगतः ।

  • २.२६.१ मध्ये गतः = मध्यगतः । सप्तमी-तत्पुरुषः ।
  • २.२६.२ गुरुः (वर्णः) मध्यगतः यस्मिन् सः = गुरुमध्यगतः । बहुव्रीहिः ।
  • २.२६.३ मध्ये “मध्य” (= middle) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च । “मध्ये”-इति (= in the middle)  प्रायः अव्ययम् ।
  • २.२६.४ गुरुमध्यगतः = (the triad), in which middle syllable is of weightage 2

२.२७ रलमध्यः ।

  • २.२७.१ लः मध्ये यस्मिन् सः = लमध्यः । बहुव्रीहिः ।
  • २.२७.२ रः लमध्यः = रलमध्यः । कर्मधारयः ।
  • २.२७.३ लः “ल”-इति लघुवर्णस्य सांकेतिकम् पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२७.४ रः “र” -इति नाम्ना ज्ञातः गणः (= the set of three syllables known by the name “र”) । तेन “र”-इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२७.५ रलमध्यः = (the triad गणः), which has syllable of weightage 1 in the middle, is called as  र

२.२८ सः “स”-इति नाम्ना ज्ञातः गणः (= the set of three syllables known by the name “स”)।। तेन “स”-इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.२९ अन्त-गुरुः ।

  • २.२९.१ अन्ते गुरुः यस्मिन् सः = अन्तगुरुः । बहुव्रीहिः ।
  • २.२९.२ अन्तगुरुः = (the triad), which has syllable of weightage 2 in the end.

२.३० कथितः “कथ्” १० उ. (= to tell) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “कथित” (= told, said, called as) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.३१ अन्त-लघुः ।

  • २.३१.१ अन्ते लघुः यस्मिन् सः = अन्तलघुः । बहुव्रीहिः ।
  • २.३१.२ अन्तलघुः = (the triad), which has syllable of weightage 1 in the end

२.३२ तः “त”-इति नाम्ना ज्ञातः गणः (= the set of three syllables known by the name “त”)। तेन “त”-इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

३.१ प्रथम-श्लोकस्य अन्वयः अनुवादः च
सानुस्वारः वर्णः, दीर्घः (वर्णः), च विसर्गी (वर्णः) वा संयोग-पूर्वः (वर्णः) तथा पादान्तगः अपि (वर्णः)  गुरुः भवेत् । = A letter or syllable is counted to have more weightage (2) when the letter or syllable
– is with the symbol or letter of nasal sound
– is long
– has a colon (symbol for aspiration)
– is before a compound (letter) or
– is at the end of a quarter (of a verse)

३.२ द्वितीय-श्लोकस्य अन्वयः अनुवादः च
यरताः आदि-मध्यावसानेषु लाघवम् यान्ति । =
यगणे आदि-(स्थितः) वर्णः लाघवम् यातः (अस्ति) (यथा यमाता-शब्दे) । = In यगण the syllable at the beginning is of weightage 1.
रगणे मध्य-(स्थितः) वर्णः लाघवम् यातः (अस्ति) (यथा राजभा-शब्दे) । = In रगण the syllable in the middle is of weightage 1.
तगणे अवसाने स्थितः वर्णः लाघवम् यातः (अस्ति) (यथा ताराज-शब्दे) । =  In तगण the syllable in the end is of weightage 1.

भजसाः (आदि-मध्यावसानेषु) गौरवं यान्ति । =
भगणे आदि-(स्थितः) वर्णः गौरवम् यातः (अस्ति) (यथा भानस-शब्दे) । = In भगण the syllable at the beginning is of weightage 2
जगणे मध्य-(स्थितः) वर्णः गौरवम् यातः (अस्ति) (यथा जभान-शब्दे) । = In जगण the syllable in the middle is of weightage 2
सगणे अवसाने स्थितः वर्णः गौरवम् यातः (अस्ति) (यथा सलगं-शब्दे) । = In सगण the syllable in the end is of weightage 2

मनौ तु गुरुलाघवम् यातः । =
मगणे (सर्वे वर्णाः) गुरुत्वम् यान्ति (यथा मातारा-शब्दे) । = In मगण all syllables are of weightage 2
नगणे (सर्वे वर्णाः) लाघवम् यान्ति (यथा नसल-शब्दे) । = In नगण all syllables are of weightage 1

३.३ तृतीय-श्लोकस्य अन्वयः अनुवादः च –
त्रि-गुरुः (गणः) मः (कथितः अस्ति) (यथा मातारा-शब्दे) । = The गण with (all) three syllables of weightage 2 is called as मगण
त्रि-लघुः (गणः) च नकारः (कथितः अस्ति) (यथा नसल-शब्दे) । = The गण with (all) three syllables of weightage 1 is called as नगण
आदि-गुरुः (गणः) भः (कथितः अस्ति) (यथा भानस-शब्दे) । = The गण with the first (syllable) of weightage 2 is called as भगण
पुनः आदि-लघुः (गणः) यः (कथितः अस्ति) (यथा यमाता-शब्दे) । = The गण with the first (syllable) of weightage 1 is called as यगण
गुरुमध्यः (गणः) जः (कथितः अस्ति) (यथा जभान-शब्दे) । = The गण with the middle (syllable) of weightage 2 is called as जगण
लघु-मध्यः (गणः) रः (कथितः अस्ति) (यथा राजभा-शब्दे) । = The गण with the middle (syllable) of weightage 1 is called as रगण
अन्त-गुरुः (गणः) सः (कथितः अस्ति) (यथा सलगं-शब्दे) । = The गण with the last (syllable) of weightage 2 is called as सगण
अन्त-लघुः (गणः) तः कथितः (अस्ति) (यथा ताराज-शब्दे) । = The गण with the last (syllable) of weightage 1 is called as तगण

४ टिप्पणयः ।

४.१ Verse 1 summarises the rule on when to count the weightage (मात्रा) of a syllable (वर्ण) as 2. Obviously, when none of the conditions in this rule applies, then the weightage is 1.

४.२ Verses 2 and 3 are two verses dealing in the same theme, summarising the rule on how गण-s (sets of three syllables) are to be named. I have added in अन्वयः and अनुवादः for verses 2 and 3, examples from the phrase यमाताराजभानसलगं । Obviously after making all sets of three, any syllable(s), one or two, left over at the end, will have weightage either 1 or 2. Again if only one syllable is left at the end, its weightage will always be 2 as per verse 1.

४.३ Since every गण has 3 syllables, which can be either लघु or गुरु, all the possible number of combinations, thus all types of गण-s are covered in the phrase यमाताराजभानसलगं and also in verse 2.

४.४ Systematic deciphering meter of a verse should proceed in following steps

  • Step 1 arrange the verse in four quarters चत्वारः पादाः
  • Step 2 count the number of syllables in each quarter वर्णसंख्या
  • Step 3 note the weightage of each syllable, whether 1 or 2 मात्राः
  • Step 4 check if there is a pattern in the four quarters for the number of syllables and their weightages
  • Step 5 The pattern becomes more clear when the weightages of the syllables are made into groups of three i.e. by identifying their गण-s
  • Step 6 Different patterns are called as छंदः or वृत्तम् They have been given different names. Names can be found in a reference book on Sanskrit prosody. Nearly 110 patterns are detailed in the Appendix in Apte’s dictionary.
  • Step 7 The patterns are also explained by लक्षणपदम् ।

४.५  To decipher the meters of these three verses by following this procedure –

सानुस्वारश्च दीर्घश्च । वर्णाः ८
२-२-२-२-१ २-२-(२) इति मात्राः ।

Note tnat
– the syllable नु in सानुस्वारश्च has inherent weightage 1.  But because it precedes a compound consonant स्वा its weightage becomes 2.
– the syllable र in सानुस्वारश्च has inherent weightage 1. But because it precedes a compound consonant श्च its weightage becomes 2.
– the syllable र्घ in दीर्घश्च has inherent weightage 1. But because it precedes a compound consonant श्च its weightage becomes 2
– the last syllable “श्च” has inherent weightage 1. But because it is in the end its weightage is 2 and the value is put in parenthesis.

(२-२-२)-(२-१ २)-२-(२)
म र ग ग इति गणाः ।
विसर्गी च गुरुर्भवेत् । वर्णाः ८
१-२-२ १ १-२-१-२ इति मात्राः ।

Note –
– The syllable स in  विसर्गी has inherent weightage 1. But because it precedes a compound consonant र्गी its weightage becomes 2.
– The syllable रु in गुरुर्भवेत् has inherent weightage 1. But because it precedes a compound consonant र्भ its weightage becomes 2.
– the syllable at the end is त् without any vowel mixed into it. So, it has weightage zero and is not hence to be counted.

(१-२-२) (१ १-२)-१-२
य स ल ग इति गणाः । 

 

वर्णः संयोगपूर्वश्च ।
२-२ २-२-१-२-२-(२) इति मात्राः ।

Note –
– The syllable व in  वर्णः has inherent weightage 1. But because it precedes a compound consonant र्णः its weightage becomes 2.
– The syllable र्णः in वर्णः has inherent weightage 2 because it is विसर्गी it has विसर्ग with it.
– the syllable सं has weightage 2 because it is सानुस्वार, i.e. it has the symbolic dot above it.
– the last syllable “श्च” has inherent weightage 1. But because it is in the end its weightage becomes 2 and the value is put in parenthesis.

(२-२ २)-(२-१-२)-२-(२)
म र ग ग इति गणाः । 

 

तथा पादान्तगोऽपि वा । वर्णाः ८
१-२ २२-१-२-१ २ इति मात्राः ।

Note –
– The symbol ऽ just connotes a syllable which is silent, is not pronounced and has zero weightage, is neither counted nor shown.

(१-२ २)(२-१-२)-१ २
य र ल ग इति गणाः ।

४.५.१ It can be seen that
– वर्णाः ८ shows a good discipline in number of syllables in each quarter.
– The fifth syllable has weightage 1 in all quarters.
– Sixth syllable has weightage 2 in all quarters
– The seventh syllable has weightage 2 in first and third and has weightage 1 in second and fourth.
– Since the गणाः are म र ग ग in the first, य स ल ग in the second, म र ग ग in the third and य र ल ग in the fourth, there is no cognisable discipline in total number of मात्राः or of गणाः ।
४.५.२ By the above analysis, the verse qualifies the characteristics of अनुष्टुभ्-छंदः ।
४.५.३ लक्षणपदम् of अनुष्टुभ्-छंदः is –

श्लोके षष्ठं गुरु ज्ञेयम् ।
सर्वत्र लघु पञ्चमम् ।
द्विचतुष्पादयोर्र्हस्वम् ।
दीर्घोऽन्यत्र च सर्वदा ॥

४.६ Categories of meters –

  • A meter based on number of syllables in each quarter the meter is of category अक्षरवृत्त
  • when अक्षरवृत्त has same total number of syllables वर्णसंख्या (here, वर्णाः ८) in all four quarters, the meter is of category समवृत्त
  • when total number of syllables in two quarters are identical, the meter is of category अर्धवृत्त
  • when number of syllables in the quarters are unequal, the meter is of category विषमवृत्त
  • When समवृत्त has also a discipline of गणाः then the meter is of category अक्षरगणवृत्त
  • when a meter is based on total of weightages of syllables मात्रासंख्या the meter is of category मात्रावृत्त or जातिवृत्त
  • if a verse has no discipline either by number of syllables or total of weightages of syllables, it is of category  छंद. Literal meaning of छंद is whim or hobby or uninhibited expression.

४.७ Deciphering meter of verse 2 –

आदिमध्यावसानेषु । वर्णाः ८
२-१-२-२-१-२-२-(२) इति मात्राः ।

Note –
– The syllable म in  आदिमध्यावसानेषु has inherent weightage 1. But because it precedes a compound consonant ध्या its weightage becomes 2.
– the syllable at the end षु has inherent weightage 1. But because it is in the end its weightage becomes 2 and the value is put in parenthesis.

यरता यान्ति लाघवम् । वर्णाः ८
१-१-२ २-१ २-१-२ इति मात्राः ।

Note –
– the syllable at the end is वम् has weightage 2 because it is सानुस्वार, since the consonant म् is a nasal sound. The nasal sound is to be written by the consonant and not by अनुस्वार, when the nasal sound is at the end of a quarter or of a sentence.

भजसा गौरवं यान्ति । वर्णाः ८
१-१-२ २-१-२ २-(२) इति मात्राः ।

Note –
– the syllable वं has weightage 2 because it is सानुस्वार, i.e. it has the symbolic dot above it.
– the syllable at the end न्ति has inherent weightage 1. But because it is in the end its weightage becomes 2 and the value is put in parenthesis.

मनौ तु गुरुलाघवम् । वर्णाः ८
१-२ १ १-१-२-१-२ इति मात्राः ।

Note –
– the syllable at the end is वम् has weightage 2 because it is सानुस्वार, since the consonant म् is a nasal sound. The nasal sound is to be written by the consonant and not by अनुस्वार, when the nasal sound is at the end of a quarter or of a sentence.

४.७.१ It can be seen that
– वर्णाः ८ shows a good discipline in number of syllables in each quarter.
– The fifth syllable has weightage 1 in all quarters.
– Sixth syllable has weightage 2 in all quarters
– The seventh syllable has weightage 2 in first and third and has weightage 1 in second and fourth.
– Since the गणाः are म र ग ग in the first, य स ल ग in the second, म र ग ग in the third and य र ल ग in the fourth, there is no cognisable discipline in total number of मात्राः or of गणाः ।
४.७.२ By the above analysis, the verse 2 also qualifies the characteristics of अनुष्टुभ्-छंदः ।

४.८ To decipher the meter of verse 3 –

मस्त्रिगुरुस्त्रिलघुश्च नकारो । वर्णाः ११
(२-१-१)-(२-१-१)-(२-१ १)-२-२ इति मात्राः ।
भ-भ-भ-ग-ग इति गणाः । 

भादिगुरुः पुनरादिलघुर्यः । वर्णाः ११
जो गुरुमध्यगतो रलमध्यः । वर्णाः ११

सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥ वर्णाः ११

अत्र दोधक-वृत्तम् । अस्य लक्षण-पदमस्ति – दोधकमिच्छति भत्रितयाद्गौ ।

४.९ In these three verses there are words such as यरताः भजसाः मनौ which are more in the style of acronyms. These words cannot be found in any dictionary. They are coined to explain the concepts, just as acronyms are also specially coined words. Considering how ancient Sanskrit is, it seems “acronyms” is an invention of Sanskrit language !

शुभमस्तु । 

 

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s