Learning Sanskrit by fresh approach – Lesson No. 73

Learning Sanskrit by fresh approach – Lesson No. 73

संस्कृतभाषायाः नूतनाध्ययनस्य त्रि-सप्ततितमः (७३) पाठः |

In the supplement to lesson # 72 reference was made to the story of the Lion and the Mouse. Moral of that story is that friendship offered by anyone, howsoever small should not be disregarded. However, since friend in need is friend indeed, if we are in need, whom we should approach has been made into almost an edict in this श्लोक in मेघदूतम् by महाकवि कालिदास  –

जातम् वंशे भुवनविदिते पुष्करावर्तकानाम् |

जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः |

तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहम् |

याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा ||१-६॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा  |

जातम् वंशे भुवन-विदिते पुष्कर-आवर्तकानाम् |

जानामि त्वां प्रकृति-पुरुषं काम-रूपम् मघोनः |

तेन अर्थित्वं त्वयि विधि-वशात् दूर-बन्धुः गतः अहम् |

याञ्चा मोघा वरम् अधिगुणे न अधमे लब्ध-कामा ||

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च |

२.१ जातम् “जन्” ४ आ. (= to be born) इति धातुः | तस्मात् भूतकालवाचकं विशेषणम् “जात” (= born) | अत्र पुल्लिङ्गि | तस्य द्वितीया विभक्तिः एकवचनम् च |

२.२ वंशे “वंश” (= family, ancestral lineage) इति पुल्लिङ्गि नाम |  तस्य सप्तमी विभक्तिः एकवचनम् च |

२.३ भुवन-विदिते |

  • २.३.१ भुवने विदितं = भुवनविदितम् | सप्तमी तत्पुरुषः |
  • २.३.२ भुवने “भुवन” (= earth, this world) इति नपुंसकलिङ्गि नाम | तस्य सप्तमी विभक्तिः एकवचनम् च |
  • २.३.३ विदिते “विद्” २ प. (= to know) इति धातुः | तस्मात् भूतकालवाचकं विशेषणम् “विदित” (= known) | अत्र पुल्लिङ्गि | तस्य सप्तमी विभक्तिः एकवचनम् च |
  • २.३.४ भुवन-विदिते = known in this world, famous

२.४ पुष्करावर्तकानाम् ।

  • २.४.१ पुष्करः आवर्तकः इतरे च = पुष्करावर्तकाः | इतरेतर-द्वन्द्वः |
  • २.४.२ पुष्करः “पुष्” १, ४, ९ प. (= to nourish) इति धातुः | तस्मात् विशेषणम् प्रायः पुल्लिङ्गि नाम अपि “पुष्कर” (= name of a class of clouds) | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.४.३ आवर्तकः “आ + वृत्” १ आ. (= to repeat) इति धातुः | तस्मात् “क”-प्रत्ययेन विशेषणम्, अत्र पुल्लिङ्गि नाम अपि “आवर्तक” (= one, who repeats, comes again, Name of a class of clouds) | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.४.४ इतरे “इतर” (= other) इति सर्वनाम | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनम् च |
  • २.४.५ पुष्करा वर्तकानाम् “पुष्करावर्तक” (= belonging (to the lineage of ) clouds such as पुष्कर, आवर्तक and others) इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि | तस्य षष्ठी विभक्तिः बहुवचनं च |

२.५ जानामि “ज्ञा” ९ उ. (= to know) इति धातुः | तस्य लट्-वर्तमाने तृतीय-पुरुषे एकवचनम् |

२.६ त्वाम् “युष्मद्” (= you) इति सर्वनाम | तस्य द्वितीया विभक्तिः एकवचनम् च |

२.७ प्रकृतिपुरुषम् |

  • २.७.१ प्रकृत्यां पुरुषः = प्रकृतिपुरुषः | सप्तमी-तत्पुरुषः |
  • २.७.२ प्रकृत्याम् “प्र + कृ” (= to accomplish) इति धातुः | तस्मात् स्त्रीलिङ्गि नाम “प्रकृति” (= Nature) | तस्य सप्तमी विभक्तिः एकवचनम् च |
  • २.७.३ पुरुषः “पुरुष” (= Supreme being) इति पुल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.७.४ प्रकृतिपुरुषम् “प्रकृतिपुरुष” (= manifestation of the Supreme in the Natural world) इति सामासिकं पुल्लिङ्गि नाम | तस्य द्वितीया विभक्तिः एकवचनम् च |

२.८ कामरूपम् |

  • २.८.१ कामस्य इव रूपम् यस्य सः = कामरूपः | बहुव्रीहिः |
  • २.८.१.१अथवा – यथाकामं रूपम् यस्य सः = कामरूपः | बहुव्रीहिः |
  • २.८.२ कामस्य “काम” (= God of Love) इति पुल्लिङ्गि नाम | तस्य षष्ठी विभक्तिः एकवचनम् च |
  • २.८.२.१ यथा काम: तथा = यथाकामम् । अव्ययीभावः ।
  • २.८.३ कामः “काम” (= desire, wish) इति पुल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.८.४ इव (= alike, similar to) अव्ययम् |
  • २.८.५ रूपम् “रूप” (= appearance) इति नपुंसकलिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.८.६ कामरूपम् “कामरूप” (= having appearance similar to that of God of Love) इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि | तस्य द्वितीया विभक्तिः एकवचनम् च |
  • २.८.६.१ कामरूपम् “कामरूप” (= assuming appearance as per desire) इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि | तस्य द्वितीया विभक्तिः एकवचनम् च |

२.९ मघोनः “मघवान्” (= Indra, the Lord of Gods) इति पुल्लिङ्गि नाम | तस्य षष्ठी विभक्तिः एकवचनम् च |

२.१० तेन “तत्” (= that) इति सर्वनाम |  तस्य तृतीया विभक्तिः एकवचनम् च | प्रायः, तेन (= with that, because of that, hence) इति अव्ययमपि |

२.११ अर्थित्वम् “अर्-थ्” १ प. (= to have value, to have desire from, to harbour expectation from) इति धातुः | तस्मात् “त्व”-प्रत्ययेन भाववाचकं नपुंसकलिङ्गि नाम “अर्थित्व” (= desire, expectation) | तस्य द्वितीया विभक्तिः एकवचनम् च |

२.१२ त्वयि “युष्मद्” (= you) इति सर्वनाम | तस्य सप्तमी विभक्तिः एकवचनम् च |

२.१३ विधिवशात् |

  • २.१३.१ विधेः वशः = विधिवशः | षष्ठी-तत्पुरुषः |
  • २.१३.२ विधेः “विशेषेण धियति = विधि” (= whose storage is special, providence) इति पुल्लिङ्गि नाम | तस्य षष्ठी विभक्तिः एकवचनम् च |
  • २.१३.३ वशः “वश्” २ प. (= to influence) इति धातुः | तस्मात् पुल्लिङ्गि अथवा नपुंसकलिङ्गि नाम “वश” (= influence) | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.१३.४ विधिवशात् “विधिवश” (= influence of providence) इति सामासिकं पुल्लिङ्गि नाम | तस्य पञ्चमी विभक्तिः एकवचनम् च | प्रायः, विधिवशात् (= providentially, by act of providence) इति अव्ययमपि |

२.१४ दूरबन्धुः |

  • २.१४.१ दूरे बन्धुः यस्य सः = दूरबन्धुः | बहुव्रीहिः |
  • २.१४.२ दूरे “दूर” (= distant) इति विशेषणम् अथवा पुल्लिङ्गि अथवा नपुंसकलिङ्गि नाम अपि | तस्य सप्तमी विभक्तिः एकवचनम् च | प्रायः, दूरे (= away) इति अव्ययमपि |
  • २.१४.३ बन्धुः “बन्धनं अनेन सह अस्ति, असौ बन्धुः” (= one, with whom there is a bondage, a relative) “बन्धु”-इति पुल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.१४.४ दूरबन्धुः “दूरबन्धु” (= banished from close relative, especially from wife) इति विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |

२.१५ गतः “गम्” १ प. (=to go) इति धातुः | तस्मात् भूतकालवाचकं विशेषणम् “गत” (= gone, made to go) | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |

२.१६ अहम् “अस्मद्” (= I, we pronouns of first person) इति सर्वनाम | तस्य प्रथमा विभक्तिः एकवचनम् च |

२.१७ याञ्चा (= solicitation, request) इति नाम | तस्य प्रथमा विभक्तिः एकवचनम् च |

२.१८ मोघा “मोघ” (= vain, fruitless) इति विशेषणम् | अत्र स्त्रीलिङ्गि “मोघा” | तस्य प्रथमा विभक्तिः एकवचनम् च |

२.१९ वरम् (= better) इति अव्ययम् |

२.२० अधिगुणे |

  • २.२०.१(अधि + गुण = अधिगुण) अधिकः गुणः अथवा अधिकाः गुणाः यस्य सः = अधिगुणः | उपपद-बहुव्रीहिः |
  • २.२०.२ अधिकाः “अधिक” (= more, superior, exceeding, excelling) इति विशेषणम् | अत्र पुल्लिङ्गिi | तस्य प्रथमा विभक्तिः बहुवचनम् च |
  • २.२०.३ गुणाः “गुण” (= quality, trait, character, status) इति पुल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः बहुवचनम् च |
  • २.२०.४ अधिगुणे “अधिगुण” (= one having superior quality or status) इति विशेषणम् | अत्र पुल्लिङ्गि | तस्य सप्तमी विभक्तिः एकवचनम् च |

२.२१ न (= no, not) अव्ययम् |

२.२२ अधमे “अधम” (= of low character or of low status) इति विशेषणम् | अत्र पुल्लिङ्गि | तस्य सप्तमी विभक्तिः एकवचनम् च |

२.२३ लब्धकामा |

  • २.२३.१ लब्धः कामः यया सा = लब्धकामा | बहुव्रीहिः |
  • २.२३.२ लब्धः “लभ्” १ आ. (= to get, to have fulfilment) इति धातुः | तस्य भूतकालवाचकं विशेषणम् “लब्ध” (= obtained) | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.२३.३ कामः “काम” (= desire) इति नाम | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २.२३.४ लब्धकामा (= one that will have desire fulfilled) इति सामासिकं विशेषणम् | अत्र स्त्रीलिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |

३ अन्वयाः अनुवादाः च |

३.१ त्वाम् पुष्करावर्तकानां भुवनविदिते वंशे जातम् जानामि = (I) know you as one born in the world-famous lineage of puShkara, aavartaka and others

३.२ (त्वाम्) मघोनः कामरूपं प्रकृतिपुरुषं (जानामि) | = (I know you) as being natural manifestation of Lord Indra Himself, appearing like the very epitome of Love.

३.३ तेन विधिवशात् दूरबन्धुः अहम् त्वयि अर्थित्वं गतः | = Hence, myself having been unfortunately banished away from my dear-ones have become motivated to express a desire to you

or

Hence, myself, having been banished away from my dear-ones have (for my good luck) chanced to express a desire to you

३.४ (कथ्यते) अधिगुणे मोघा याञ्चा वरम् | = (They say) desire should you expressed to one who is of high status and character, even if it may not prove fruitful

३.५ अधमे लब्धकामा (याञ्चा) न (वरम्) | = desire should not be expressed to one of low status and character, even if it is likely to be fulfilled.

४ टिप्पणयः |

४.१ To decipher the meter –

जातं वंशे भुवनविदिते पुष्करावर्तकानाम् | वर्णाः १७

(2-2 2)-(2 1-1)-(1-1-1)-(2 2-1)-(2-2-1)-2-2 इति मात्राः |

म, भ, न, त, त, ग, ग इति गणाः |

This is मन्दाक्रान्ता-वृत्तम् |

Its लक्षणपदम् is

मन्दाक्रान्तां बुधिरसनगैर्मो भनौ तौ गयुग्मम् |

It was mentioned earlier in Lesson # 37, entire मेघदूतम् is in this meter.

४.२ It needs to be noted that यक्ष prefaces his narration by an elaborate eulogy of the cloud, citing the fame of the cloud’s lineage and the cloud himself having appearance similar to that of Lord indra. This brings to mind another सुभाषितम् –

को न याति वशं लोके मुखे पिण्डेन पूरितः |

मृदंगो मुखलेपेन करोति मधुरध्वनिम् ||

४.३ In explaining the meanings of the word पुष्करावर्तकानाम् it has been explained at (२.४.२) and (२.४.३) that पुष्कर and आवर्तक are names of classes of clouds. Is this possibly an evidence that a scientific study of clouds was very much done and available even to poets ?

४.३.१ The etymology of पुष्कर suggests पुष्कर = पुष् + कर where पुष् = to mourish and कर = to do. Hence पुष्कर = one that gives nourishment. In Apte’s dictionary the meaning given says “class of clouds, which cause draught”. This meaning sounds contrary to the meaning deriving from the etymology.

४.३.२ Etymology of आवर्तक = आ + वृत् + क where आ + वृत् means to repeat. From the verb “वृत्” we also have वर्तुलम् = circle. So आवर्तक may be also meaning clouds which make repetitive circular motion i.e. a hurricane ! Since hurricanes are caused by low-pressure zones, आवर्तक could mean clouds suffering from low pressure zones.

४.३.३ In lesson # 3 we studied “शरदि न वर्षति गर्जति ….” That evidences study of clouds by seasons.

४.३.४ पुष्कर is also the name of a lake in Rajasthan, the desert state in India. One can appreciate the sustenance of life, which a lake in a desert provides. So the name of the lake justifies etymology of the word पुष्कर detailed in (४.३.१)

४.४ In 1958-59, although I was a student in the science faculty, I had opted for संस्कृत as an additional subject. मेघदूतम् and स्वप्नवासवदत्तम् were the prescribed textbooks for study. I still have with me the text-book of मेघदूतम्. Print-line of the book evidences that it was printed in 1935 !

In this book every श्लोक is detailed in 5 details – the text itself, मल्लिनाथी टीका, अन्वयार्थः, simple meaning in मराठी and Notes in मराठी.

The second detail “मल्लिनाथी टीका” is in Sanskrit. मल्लिनाथ was a critique. He became famous for composing his critical appreciations of a whole lot of Sanskrit literature. He set a format of sorts for his critical appreciation. I think it will be interesting to compile a supplement by detailing मल्लिनाथी टीका of this shloka.

४.५ Meaning of the second line can also be paraphrased as “You are the personification of Lord Indra Himself “. The meaning “personification” derives from the word “प्रकृतिपुरुष”.

४.५.१ The detailing of प्रकृतिपुरुष at (२.७) does not bring out the comprehensive import of the word. In श्रीमद्भगवद्गीता प्रकृति and पुरुष are mentioned as two distinct philosophical concepts –

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि |

विकारान्श्च गुणान्श्चैव विद्धि प्रकृतिसंभवान् ||१३-१९||

पुरुष is an ulterior concept and manifests itself by donning physical forms and their characteristics, which is प्रकृति. This is endorsed in –

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् |

कारणम् गुणसंगोऽस्य सदसद्योनिजन्मसु ||१३-२१||

This detail in श्रीमद्भगवद्गीता makes it challenging to understand what meaning कालिदास had in mind in using this word “प्रकृतिपुरुष” as a eulogy to the cloud

४.६ Two options of विग्रहः of the word कामरूपम् are detailed at (२.८).

४.६.१ The word कामरूपम् has other meanings and references also. One district in the state of Assam had this name कामरूप. Some interesting details can be read at http://www.kamrup.nic.in/histfr.htm

  • The name Assam itself has pure Sanskrit etymology. The original Sanskrit word is असम (= uneven). The state is a mountainous region and has practically no level surface.

४.७ The word “मघोनः” brings to mind the सुभाषितम् “… पाणिनिरेकसूत्रे श्वानम् युवानं मघवानमाह”, which was studied in Lesson # 57. मघवान् is not a word very commonly used. So, every instance of the use of such rarely-used word brings to mind the other instance also.

४.८ The moral is contained in the fourth line. That is what makes this shloka a सुभाषितम्.

४.८.१ To be convinced of the moral, it would be good to have concrete examples of what is not good with seeking requests to be granted by lowly persons and

४.८.२ example of why it is okay to make requests to highly placed persons, even if they may not be granted,

शुभमस्तु |

-o-O-o-

2 thoughts on “Learning Sanskrit by fresh approach – Lesson No. 73

  1. I remember that when our revered guru, the late Dr T G Mainkar, taught us this verse in 1958, he had remarked that याञ्चा is a compromise resorted to by Kalidas so that the word could fit in the meter, the correct word being याचना. I think that this is a rare (or only?) occasion where Kalidas cannot think of a word which is appropriate to what he wants to say and which also fits the meter. I do not have Mallinath with me here but what does he say on this?

    The verse
    को न याति वशं लोके मुखे पिण्डेन पूरितः।
    मृदङ्गो मुखलेपेन करोति मधुरध्वनिम्॥
    reminds me of one more, where another percussion instrument has been used to underscore the importance of money in human life. It says

    दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम्।
    इत्थमेव निनदः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः॥

    • नमो नमः श्रीमन् “अरविंद कोल्हटकर”-महोदय ! मल्लिनाथी टीकायाः विवरणाय परिशिष्टं मनस्यस्त्येव । तदुपरि भवतः पुनरीक्षणं भवतु कृपया । भवता सूचितम् “दुन्दुभि”-विषयान्वितं सुभाषितम् रमणीयमस्ति । मनसि जायते यत् द्वयोरपि सुभाषितयोः एकस्मिन् पाठे एव अभ्यसनम् करिष्यामि । सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s