Learning Sanskrit by fresh approach – Lesson 57

Learning Sanskrit by fresh approach – Lesson 57
संस्कृतभाषायाः नूतनाध्ययनस्य सप्तपञ्चाशत्तमः (५७) पाठः ।

In the previous lesson we had a question किमत्र चित्रम् We have a similar question किम् आश्चर्यम् in this सुभाषितम् –

अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

अहनि अहनि भूतानि गच्छन्ति इह यम-आलयम् ।
शेषाः स्थावरम् इच्छन्ति किम् आश्चर्यम् अतः परम् ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ अहनि “अहन्” (= day) इति नपुंसकलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
२.२ भूतानि “भू” १ प. (= to be) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “भूत” (= being brought into existence) । अत्र नपुंसकलिङ्गि  सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.३ गच्छन्ति “म्” (= to go) इति धातुः । तस्य लट्-वर्तमानकाले तृतीयपुरुषे बहुवचनम् च ।
२.४ इह (= here) अव्ययम् ।
२.५ यम-आलयम् ।

  • २.५.१ यमस्य आलयम् = यमालयम् । षष्ठी-तत्पुरुषः ।
  • २.५.२ यमस्य “यम्” (= to regulate) इति धातुः । तस्मात् कर्तृवाचकम् पुल्लिङ्गि विशेषनाम “यम” (= regulation, Name of God of death)। तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.५.३ आलयम् “आ + ली” ४ आ. (= to rest) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “आलय” (= resting place) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.५.४ यमालयम् “यमालय” (= abode of यम) इति सामासिकम् नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.६ शेषाः “शिष्” १ प. ७ प. १० उ. (= to remain balance) इति धातुः । तस्मात् विशेषणम् “शेष” (= what remains or he who remains) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२.७ स्थावरम् ।

  • २.७.१ स्थातुम् वरम् = स्थावरम् । मध्यमपदलोपी समासः ।
  • २.७.२ स्थातुम् “स्था” (= to stand, to stay, to stay put, to live) १ प. इति धातुः । तस्य तुमन्तम् अव्ययम् स्थातुम् (= to be staying, to be living) ।
  • २.७.३ वरम् “वृ” १, ५, ९ उ. (= to prefer, to select, to choose) इति धातुः । तस्मात् भाववाचकम् विशेषणम् “वर” (= preferable) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.७.४ स्थावरम् “स्थावर” (= preference to live) इति सामासिकम् नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२.८ इच्छन्ति “इष्” ६ प. (= to wish, to desire) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे बहुवचनम् च ।
२.९ किम् (= what) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१० आश्चर्यम् (आः एवम् चर्यते अनेन = ) “आश्चर्य” (= strange, wonder) इति भाववाचकम् नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.११ अतः (= from here) इति अव्ययम् ।
२.१२ परम् “पर” (= another) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२.१३ अतः परम् becomes a commonplace phrase, meaning “other than this”, “further to this”

३ अन्वयाः अनुवादाः च ।

इह अहनि अहनि भूतानि यम-आलयम् गच्छन्ति । = Here (in this world) every day beings brought into existence go to abode of यम (That is every day millions and trillions of lives die
शेषाः स्थावरम् इच्छन्ति । = Those who remain (yet) wish to stay, wish to live. They are all driven by survival instinct
अतः परम्आश्चर्यम् किम् । = what is (what can be) stranger than this ?

४ टिप्पणयः ।

४.१ By setting the verse into four lines, it would read as –

अहन्यहनि भूतानि । वर्णाः ८
१-२-१-१-१ २-२*-१ मात्राः ।

गच्छन्तीह यमालयम् । वर्णाः ८
२-२-२-१ १-२-१*-२ मात्राः ।

शेषाः स्थावरमिच्छन्ति । वर्णाः ८
२-२ २-१-१-२-२*-१ मात्राः ।

किमाश्चर्यमतः परम् । वर्णाः ८
१-२-२-१-१-२ १*-२ मात्राः ।

अनुष्टुभ् छन्दः । लक्षणम् – श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुःपादयोर्र्‍हस्वं सप्तमं दीर्घमन्ययोः ॥

I have made fifth and sixth syllables bold to facilitate verification of पञ्चमम् लघु and षष्ठं गुरु
Asterisk * is marked for the seventh to facilitate verification of the second line.

४.२ This shloka is from श्रीमहाभारते वनपर्वणि आरणेयपर्वणि यक्षप्रश्ने त्रयोदशाधिकत्रिसत्तमेऽध्याये ११६-तमः अयम् श्लोक: । This shloka is answer given by धर्मराज युधिष्ठिर to one of the questions by यक्ष The question was –

को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका ।
ममैतांश्चतुरः प्रश्नान् कथयित्वा जलं पिब ॥११४॥

The background to why यक्ष asked the questions was –
Towards the end of their twelve-year-long वनवास once when पाण्डवा-s were thirsty, धर्मराज युधिष्ठिर sent नकुल to look around for water. Since he did not return for a long time, he sent सहदेव, then भीम then even अर्जुन. Finally when none of them returned for long, he himself went over. There was a big lake. But all his brothers were lying dead at the bank of the lake. He proceeded to the lake to sprinkle water on them. But he was promptly stopped on the way by an invisible somebody. That was a यक्ष The यक्ष declared that all four brothers were lying dead, because they did not obey him and the water turned poison. “You will also meet the same fate, if you also disobey.” धर्मराज युधिष्ठिर asked what the orders are. यक्ष said, you have to answer my questions. The shloka above has the last four questions, after satisfactorily answering which धर्मराज युधिष्ठिर would be free to partake of the water जलं पिब The second question out of the four was किम् आश्चर्यम् ? What we are studying is reply given by धर्मराज युधिष्ठिर

It comes to mind that every one of thirty-odd questions, especially answer given by धर्मराज युधिष्ठिर is a सुभाषितम्, fit to be studied in these lessons of संस्कृतभाषायाः नूतनाध्ययनम्

४.३ This word स्थावर is also mentioned in श्रीमद्भगवद्गीता –

यावत् संजायते किञ्चित् सत्त्वम् स्थावरजंगमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ॥ १३-२६ ॥

स्थावरजंगमम् = animate or moving (जंगम) and inanimate or non-moving (स्थावर) things

४.४ We came across this phrase अहनि अहनि earlier also in पाठः ३३ –

आयुषः खण्डमादाय रविरस्तमयं गतः |
अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम् ||

४.५ The import of the reply of धर्मराज युधिष्ठिर is गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ (पाठः १९) The simple fact that millions and trillions of lives die every day should caution us to remember that we should not take life for granted. I am interpreting the plural in the word भूतानि as millions and trillions of lives, In doing so, I have in mind trillions of microbes also, which are lives, right ? And they have such a short life-span. Every life lives with inherent survival instinct.

The way to live should however be not just by survival instinct but by righteousness धर्मः । One important aspect of धर्मः । is regulated behaviour, regulated conduct यमः = धर्मः ।

The eight-fold aspects of अष्टांगयोगः are – यम-नियम-आसन-प्राणायाम-प्रत्याहार-ध्यान-धारणा-समाधि इति अष्टांगयोगः ।

I have listened to so many people saying “I do योगः every day.” Is योगः something, to be done as a ritual for a limited amount of time every day ? All the eight aspects together make a way of life, to be practised every conscious moment ! The first aspect यम has itself been detailed as –

ब्रह्मचर्य दया शान्तिर्दानं सत्यमकल्कता । अहिंसाऽस्तेयमाधुर्यं दमश्चेति यमाः स्मृताः ॥ (याज्ञवल्क्यसंहिता ३-३१३)

Just consider the word अहिंसा here. Physical harm alone is not हिंसा Hurting by offensive language is also हिंसा Hence we had the mention in lesson # 26 of अनुद्वेगकरं वाक्यं from seventeenth chapter in the श्रीमद्भगवद्गीता –

देवद्विजगुरुप्राज्ञपूजनम् शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७-१४॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७-१५॥
मनःप्रसादं सौम्यत्वं मौनं आत्मविनिग्रहः । भावसंशुद्धिरित्येतत् तपो मानसमुच्यते ॥१७-१६॥

So many misconceptions seem to prevail and spread about doing योगः every day (!), about यमः about धर्मः about अहिंसा about तप To resolve many of those misconceptions सुभाषितानि are verily the beacons, the guiding lights !! Hence this संस्कृतभाषायाः नूतनाध्ययनम् by studying सुभाषितानि The study of संस्कृत also becomes as much rich and meaningful, is it not ?

४.६ By saying किमाश्चर्यमतः परम् it seems that धर्मराज युधिष्ठिर is chiding at people living primarily by survival instinct, living with the thought “Today is not my day of dying !” forgetting that न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । (Lesson # 9)

Of course there ought to be also higher purpose in living !

४.७ Why सुभाषितानि in संस्कृतम् | are “jewels” पृथिव्यां त्रीणि रत्नानि is because of the invaluable guidance they provide on how to live our life !!

शुभमस्तु |

-o-O-o-

One thought on “Learning Sanskrit by fresh approach – Lesson 57

  1. धन्योस्मि
    अनुगृहीतोस्मि

    दास:
    शेषाद्रि राजकोपाल:

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s