Learning Sanskrit by fresh approach – Lesson 55

Learning Sanskrit by fresh approach – Lesson 55
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चपञ्चाशत्तमः (५५) पाठः ।

In टिप्पणयः of previous lesson # 54, I made an observation “… Study of संहिता is like study of chemistry. … The list of vowels and consonants is like the periodic table of elements !” Vowels and consonants are called as वर्णाः in देवनागरी the script of Sanskrit.

देवनागरी वर्णमाला is said to have emanated when Lord शिव played 14 notes from his drum डमरू This is very poetically acknowledged in this श्लोकः –

नृत्तावसाने नटराजराजः निनाद ढक्काम् नवपञ्चवारम् ।
उद्धर्तुकामस्सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

नृत्त-अवसाने नट-राज-राजः निनाद ढक्काम् नव-पञ्च-वारम् ।
उद्धर्तु-कामः सनक-आदि-सिद्धान् एतत् विमर्शे शिव-सूत्र-जालम् ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

२.१ नृत्तावसाने ।

  • २.१.१ नृत्तस्य अवसानम् = नृत्तावसानम् । षष्ठी-तत्पुरुषः ।
  • २.१.२ नृत्तस्य “नृत्” (= to dance) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् तथा नपुंसकलिङ्गि नाम “नृत्त” (= dance, act, performance) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २.१.३ अवसानम् “अव + सद्” (= to calm down, to complete) इति धातुः । तस्मात् क्रियावाचकम् नपुंसकलिङ्गि नाम “अवसान” (= ending, closing) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.१.४ नृत्तावसाने “नृत्तावसान” (= end of dance) इति सामासिकम् नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२.२ नटराजराजः ।

  • २.२.१ नटे राजा = नटराजः । सप्तमी-तत्पुरुषः ।
  • २.२.२ नटराजेषु राजा = नटराजराजः । सप्तमी-तत्पुरुषः ।
  • २.२.३ नटे “नट्” १ प. (= to dance, to act, to perform on stage) इति धातुः । तस्मात् पुल्लिङ्गि सामान्यनाम “नट” (= actor, performer) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २.२.४ राजा “रम् जनयति = generates heat” अथवा “रञ्जनम् करोति = pleases” अथवा “राज्” १ प. (= to be eminent) इति धातुः । तस्मात् कर्तृवाचकम् पुल्लिङ्गि नाम “राजन्” (तत्पुरुष-समासानाम् अन्ते इति अकारान्तम् पुल्लिङ्गि नाम “राज” यथा महाराज, नटराज) (= lord, king) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.२.५ नटराजेषु “नटराज” (= lord of the stage) इति सामासिकम् पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
  • २.२.६ नटराजराजः = Lord of Lords of dance, more generally, of stage

२.३ निनाद “नद्” १ प. (= to sound) इति धातुः । तस्य लिट्-परोक्षभूतकाले तृतीय-पुरुषे एकवचनम् च ।
२.४ ढक्काम् “ढक्का” (= Shiva’s drum, also known as डमरू) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२.५ नवपञ्चवारम् ।

  • २.५.१ नव च पञ्च च = नवपञ्च । समाहार द्वन्द्वः ।
  • २.५.२ नवपञ्च वारम् = नवपञ्चवारम् । अव्ययीभावः ।
  • २.५.३ नव (= nine) इति संख्यावाचकम् विशेषणम् ।
  • २.५.४ पञ्च (= five) इति संख्यावाचकम् विशेषणम् ।
  • २.५.५ वारम् “वार” (= count of turns, when something is being repeated or count of number of times) इति प्रत्ययात्मकम् पुलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • २.५.६ नवपञ्चवारम् = nine and five (= total fourteen) times

२.६ उद्धर्तु-कामः ।

  • २.६.१ उद्धर्तुम् कामः यस्य सः =  उद्धर्तुकामः । बहुव्रीहिः ।
  • २.६.२ उद्धर्तुम् “उत् + हृ” १ उ. (= to uplift) इति धातुः । तस्मात् तुमन्तम् अव्ययम् उद्धर्तुम् (= for uplifting) ।
  • २.६.३ कामः “काम” (= wish, desire) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.६.४ उद्धर्तुकामः “उद्धर्तुकाम” (= desirous of uplifting) इति सामासिकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.७ सनक-आदि-सिद्धान् ।

  • २.७.१ सनकः आदौ यस्य सः = सनकादि । बहुव्रीहिः ।
  • २.७.२ सनकादि सिद्धः = सनकादिसिद्धः । कर्मधारयः ।
  • २.७.३ सनकः “सन्” १ प. ८ उ. (= to love, to like, to worship, to adore, to honour, to receive graciously) इति धातुः । तस्मात् “क”-प्रत्ययेन कर्तृवाचकम् विशेषणम् तथा पुराणमुनिनः पुल्लिङ्गि विशेषनाम “सनक” (= respectful, name of sage) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.७.४ आदौ “आदि” (= beginning) इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २.७.५ सिद्धः “सिध्” ४ प. (= to accomplish) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “सिद्ध” (= accomplished) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.७.६ सनकादिसिद्धान् “सनकादिसिद्ध” (= sages starting from sage Sanak) इति सामासिकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

२.८ विमर्शे “वि + मृश्” ६ प. (= to deliberate) इति धातुः । तस्य लट्-वर्तमानकाले प्रथम-पुरुषे एकवचनम् च ।
२.९ शिव-सूत्र-जालम् ।

  • २.९.१ शिवेन निर्देशितम् सूत्रम् = शिवसूत्रम् । मध्यमपदलोपी ।
  • २.९.२ शिवसूत्राणाम् जालम् = शिवसूत्रजालम् । षष्ठी-तत्पुरुषः ।
  • २.९.३ शिवेन “शिः + व = ” “शिवम् करोति सः = ” शिव (= one, who is benevolent, Lord Shiva) इति पुल्लिङ्गि विशेषनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • २.९.४ निर्देशितम् “निः + दिश्” ६ उ. (= to give direction) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “निर्देशित” (= directed) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २.९.५ सूत्रम् “सूत्र्” १० उ. (= to provide lead) इति धातुः । तस्मात् करणवाचकम् नपुंसकलिङ्गि नाम “सूत्र” (= lead, thread, aphorism) । तस्य प्रथमाविभक्तिः एकवचनम् च ।
  • २.९.६ शिवसूत्राणाम् “शिवसूत्र” (= aphorism directed by Shiva) इति सामासिकम् नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • २.९.७ जालम् “जाल” (= net, network) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

सनक-आदि-सिद्धान् उद्धर्तु-कामः नट-राज-राजः नृत्त-अवसाने ढक्काम् नव-पञ्च-वारम् निनाद । = Lord among lords of stage (dancers) with the intent of bestowing grace upon accomplished sages starting from Sanak-muni, at the closing of his (celestial) dance played his drum nine and five (= fourteen) times.

It is possible to render another अन्वयः of this –
उद्धर्तु-कामः नट-राज-राजः नृत्त-अवसाने ढक्काम् नव-पञ्च-वारम् सनक-आदि-सिद्धान् निनाद । = Lord Shiva with the intent of bestowing grace (upon the world) at the closing of his (celestial) dance played his drum nine and five (= fourteen) times to (the audience of) accomplished sages starting from Sanak-muni

एतत् शिव-सूत्र-जालम् (अहम्) विमर्शे । = I do deliberation on that net of aphorisms produced by Lord Shiva.

४ टिप्पणयः ।

४.१ By setting the verse into four lines, it would read as –

नृत्तावसाने नटराजराजः । वर्णाः ११
२-२-१-२-२ १-१-२-१-२-२ मात्राः १८
ताराज ताराज जभान गग
गणाः – त त ज ग ग

निनाद ढक्कां नव-पञ्च-वारम् । वर्णाः ११
१-२-१ २-२ १-१-२-१-२-२ मात्राः १७
जभान ताराज जभान ग ग
गणाः – ज त ज ग ग

उद्धर्तुकामः सनकादिसिद्धान् । वर्णाः ११
२-२-१-२-२ १-१-२-१-२-२ मात्राः १८
ताराज ताराज जभान गग
गणाः – त त ज ग ग

एतद्विमर्शे शिवसूत्रजालम् ॥ वर्णाः ११
१-२-१-२-२ १-१-२-१-२-२ मात्राः १७
जभान ताराज जभान ग ग
गणाः – ज त ज ग ग

(१) प्रथमे तथा तृतीये चरणे – स्यादिंद्रवज्रा यदि तौ जगौ गः । – वृत्तम् इन्द्रवज्रा ।
(२) द्वितीये तथा चतुर्थे चरणे – उपेन्द्रवज्रा प्रथमे लघौ सा । – वृत्तम् उपेन्द्रवज्रा ।
(३) When इन्द्रवज्रा and उपेन्द्रवज्रा are mixed in one stanza, the meter is called उपजाति | It is said to have 14 varieties !!

४.२ The fourteen शिवसूत्राणि –

  • १ अ इ उ ण् । वर्णाः ३ अ इ उ
  • २ ऋ ऌ क् । वर्णाः २ ऋ ऌ
  • ३ ए ओ ङ् । वर्णाः २ ए ओ
  • ४ ऐ औ च् । वर्णाः २ ऐ औ
  • ५ ह य व र ट् । वर्णाः ४ ह य व र
  • ६ ल ण् । वर्णाः १ ल
  • ७ ञ म ङ ण न म् । वर्णाः ५ ञ म ङ ण न
  • ८ झ भ ञ् । वर्णाः २ झ भ
  • ९ घ ढ ध ष् । वर्णाः ३ घ ढ ध
  • १० ज ब ग ड द श् । वर्णाः ५ ज ब ग ड द
  • ११ ख फ छ ठ थ च ट त व् । वर्णाः ८ ख फ छ ठ थ च ट त
  • १२ क प य् । वर्णाः २ क प
  • १३ श ष स र् । वर्णाः ३ श ष स
  • १४ ह ल् । वर्णाः १ ह
  • वर्णानाम् कुलसंख्या – ४३
  • स्वराः १ तः ४ सूत्रेषु – ९
  • व्यञ्जनानि – ३४

I have prepared an audio file of these शिवसूत्राणि On listening to the file one would realize that each of the above शिवसूत्राणि is sort of a musical note produced by Shiva on his “ढक्का” (= Shiva’s drum, also known as डमरू) The ending letter of each सूत्रम् is just the closing sound of the note, which every सूत्रम् is. That is why it is not counted above, when giving the number of वर्णाः in each सूत्रम्

४.३ शिवसूत्राणि are used as primary reference in अष्टाध्यायी by पाणिनी For example

There is this सूत्रम् – ऊकालोऽज् ह्रस्वदीर्घप्लुतः (१।२।२७)  = The vowel sounds between अ to च् that means the vowel sounds अ इ उ ऋ ऌ ए ओ ऐ औ will be pronounced ह्रस्व (short) or दीर्घ (long) or प्लुत (extended) depending upon ऊकाल the time dwelt upon in their pronunciation.

The fact that we have to consider this ह्रस्वदीर्घप्लुत aspect as being applicable to all the vowels between अ in the first शिवसूत्रम् to च् in the fourth शिवसूत्रम् is derived from another सूत्रम् of पाणिनी  – आदिरन्त्येन सहेता (१।१।७१)

By the same logic पाणिनीसूत्रम् – अकः सवर्णे दीर्घः (६।१।१०१) speaks of all the vowels between अ in the first शिवसूत्रम् to क् in the second शिवसूत्रम्
So the rule सवर्णे दीर्घः applies to the vowels अ इ उ ऋ ऌ What this means is that –

  • (१) अ + अ = आ (२) अ + आ = आ (३) आ + अ = आ (४) आ + आ = आ ।

अ and आ are सवर्ण i.e. of the same class. Because आ is basically दीर्घ of अ
Examples of these are
देव + अर्चना = देवार्चना । देव + आलय = देवालय । अर्चना + अपेक्षा = अर्चनापेक्षा । अर्चना + आलय = अर्चनालय ।

  • Since the rule applies to other vowels also,

(५) इ + इ = ई (६) इ + ई = ई (७) ई + इ = ई (८) ई + ई = ई । यथा
अति + इत = अतीत । प्रति + ईक्षा = प्रतीक्षा । श्री + इव = श्रीव । रजनी + ईश = रजनीश

  • (९) उ + उ = ऊ (१०) उ + ऊ = ऊ (११) ऊ + उ = ऊ (१२) ऊ + ऊ = ऊ । यथा

भानु + उदय = भानूदय । गुरु + उपदेश = गुरूपदेश । भानु + ऊर्जा = भानूर्जा । अणु + ऊर्जा = अणूर्जा । चमू + उदय = चमूदय ।
चमू + ऊर्जा = चमूर्जा ।
Also धातु + उपसर्ग = धातूपसर्ग which we came across in the previous lesson !

  • Likewise

(१०) ऋ + ऋ = ॠ । ऋ + ॠ = ॠ । ॠ + ऋ = ॠ । ॠ + ॠ = ॠ । यथा
पितृ + ऋणम् = पितॄणम् ।

All these examples of सन्धि are covered by one single सूत्रम् of पाणिनी  – अकः सवर्णे दीर्घः !!
This सूत्रम् of course has शिवसूत्राणि as primary reference !

४.४ In the श्लोकः of this lesson, in the second line there is the mention of सनक-आदि-सिद्धान् I have given two options of अन्वय The second option is also meaningful. Lord Shiva would play the notes only to such audience who can make sense out of them and pass them on for the benefit of humanity. Playing to the right audience is always important. Imparting knowledge to the right student is important.

In श्रीगणपत्यथर्वशीर्षम् there is the edict इदम् अथर्वशीर्षम् अशिष्याय न देयम् ।

Also in श्रीमद्भगवद्गीता there is the same edict –

इदम् ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ १८-६७ ॥

४.५ I am left deliberating whenever I come across the word सिद्ध Anyone who would devoutedly study the biography of Shri Sai-Baba of Shirdi is bound to be astounded by the super-natural other-worldly traits सिद्धिs displayed by Him, always for benevolent purposes of humanity at large. He walked this earth in flesh and blood just 90-odd years back.

English meaning of सिद्धि is accomplishment. I am never comfortable with this meaning. I think the philosophical and spiritual meaning goes far beyond this mundane meaning.

सिद्धिs are said to be eight –

अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च तथा कामावसायिता ॥

However I am left deliberating upon the mention of सिद्धि in following श्लोकः in श्रीमद्भगवद्गीता –

न कर्मणामनारम्भान्नैष्कर्म्यम् पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधि गच्छति ॥ ३-४ ॥

In the second line, three aspects of philosophical, spiritual, meditational practice are intertwined – संन्यास सिद्धि समधि

So much here to deliberate upon, right ?

४.६ In (४.३) above I have tried to show how शिवसूत्राणि are used as primary reference in अष्टाध्यायी by पाणिनी The examples given there especially to explain  अकः सवर्णे दीर्घः really make only a small portion of the vast canvas of संहिता-s in Sanskrit, only the tip of an iceberg ! Since the basic purpose of these lessons is to carry study of Sanskrit on and on, I keep wondering how this vast canvas of संहिता-s and also of समासा-s can be done due justice to. I can only pray for His grace and I wish to keep hanging on to the faith, that He is kind उद्धर्तुकामः The world is a stage and He is the master नटराजराजः !!

शुभमस्तु |

-o-O-o-

3 thoughts on “Learning Sanskrit by fresh approach – Lesson 55

  1. Abhyankar mahodaya,

    Thanks for a detailed explanation of this sloka. Though I have known this sloka for a while, I have never given such meticulous attention. Also your additional references and notes (siddhi etc) that you typically use in your blog is very enlightening. The very word “natarAja” always makes me pause for thoughts. May be because I grew up in chidambaram, where the Lord dances in formless form. May he bless you so you can shower us with more such lessons.

  2. अभ्यंकर महोदय,
    सादर प्रणाम।
    Many thanks for your stupendous contribution in teaching Saṁskṛtam!
    However, with your kind permission I would like to point out an error in this post that may have crept in inadvertently.
    While analyzing the meter of this chandas above, in the fourth quarter you have wrongly taken ए as a short syllable. This is a common mistake as ए erroneously looks short in comparison to ऐ. In fact both these letters are दीर्घ. Therefore, only the second quarter in the above chandas example is in upendravajrā, while the rest three are in indravajrā, thereby making the entire chandas an upajātī that you have correctly pointed out.
    Also you have mentioned above that “it is said to have 14 variations!” A little mathematical (binary) explanation of that. 2 items (here indravajrā and upendravajrā) can be arranged in 4 places (here quarters) in 2^4 ways (2 raised to 4) that is 16 ways. However, to satisfy the conditions of upajātī, it cannot have all quarters in either of the chhandas (i.e. what it would make indravajrā or upendravajrā). Therefore the total variations of upajātī = 16-2= 14.
    Thanks once again for your effort.
    जयतु संस्कृतम्।
    — संस्कृत का विद्यार्थी।

    • नमो नमः श्रीमन् “विद्यार्थी”-महोदय !
      सुष्ठु सूचितम् भवता यत् ए-कारस्य मात्रे द्वे गणितव्ये इति ।
      उपजाति-वृत्तस्य चतुर्दश प्रकाराः कथम् भवन्ति तदपि सुष्ठु ज्ञापितम् खलु ।
      धन्यवादाः !
      सस्नेहम् ,
      अभ्यंकरकुलोत्पन्नः श्रीपादः |
      “श्रीपतेः पदयुगं स्मरणीयम् ।”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s