Learning Sanskrit by fresh approach – Lesson 50

Learning Sanskrit by fresh approach – Lesson 50
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चाशत्तमः (५०) पाठः ।

We have been combining well the study of the सुभाषितम् with study of the grammar of every word. This is how a study of a language should be, as has been well-stated in this सुभाषितम्  –

अव्याकरणमधीतं भिन्नद्रोण्या तरंगिणीतरणम् ।
भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम् ॥

Meaning of this सुभाषितम् in हिन्दी is readily available at –
http://www.susanskrit.org/sanskrit-subhashit-education/540-2010-05-26-07-22-47.html
व्याकरण छोडकर किया हुआ अध्ययन, टूटी हुई नौका से नदी पार करना, और अयोग्य आहार के साथ लिया हुआ औषध – ये ऐसे करने के बजाय तो न करने हि बेहतर है ।
Anyway we shall derive meaning by ourselves too, following our usual method.

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

अ-व्याकरणम् अधीतं भिन्न-द्रोण्या तरंगिणी-तरणम् ।
भेषजम् अ-पथ्य-सहितं त्रयम् इदम् अकृतं वरं न कृतम् ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ अ-व्याकरणम् ।

  • १.१ व्याकरणम् न = अव्याकरणम् । नञ्-तत्पुरुषः । अथवा व्याकरणेन विना = अव्याकरणम् । उपपद-तत्पुरुषः ।
  • १.२ व्याकरणेन “वि + आ + कृ” ८ उ. (= to analyse) इति धातुः । तस्मात् “अन”-प्रत्ययेन “व्याकरण” (= grammar) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • १.३ विना (= without) अव्ययम् ।
  • १.४ By the समासविग्रहः as व्याकरणम् न = अव्याकरणम् the meaning becomes improper, imperfect study
  • १.५ By the समासविग्रहः as व्याकरणेन विना = अव्याकरणम् the meaning becomes without analysis and understanding
  • १.६ By commonplace meaning of व्याकरणम् as grammar, अव्याकरणम् would mean without study of grammar.

२ अधीतम् “अधि + इ” २ उ. (= to get command of, to learn) इति धातुः । तस्य कर्मणि-भूतकालवाचकम् विशेषणम् “अधीत” (= studied, learnt) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३ भिन्न-द्रोण्या ।

  • ३.१ भिन्ना द्रोणी = भिन्नद्रोणी । कर्मधारयः ।
  • ३.२ भिन्ना “भिद्” ७ उ. (= to break) इति धातुः । तस्य कर्मणि-भूतकालवाचकम् विशेषणम् “भिन्न” (= broken, punctured, leaky) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३.३ द्रोणी (= boat) इति सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३.४ भिन्नद्रोण्या “भिन्नद्रोणी” (= leaky boat) इति सामासिकम् स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् ।

४ तरंगिणी-तरणम् ।

  • ४.१ तरंगिण्याम् तरणम् = तरंगिणीतरणम् । सप्तमी-तत्पुरुषः ।
  • ४.२ तरंगिण्याम् तरंगाः अस्याम् सन्ति इति “तरंग + अनी” एवं स्त्रीलिङ्गि नाम “तरंगिणी” (= one, which has waves, hence, a lake, a large water-body) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ४.३ तरणम् “तृ” १ उ. (= to float, to swim, to wade across) इति धातुः । तस्मात् “अ”-प्रत्ययेन नपुंसकलिङ्गि नाम “तरण” (= wading across) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

५ भेषजम् “भेष्” १ उ. (= to frighten) इति धातुः । तस्मात् रोगः बिभेति यस्मात् सः “भिषज्” (= doctor) । भिषजः इदम् इति भेषज् (= medicine, prescription) नपुंसकलिङ्गि सामान्यनाम “। तस्य प्रथमा विभक्तिः एकवचनम् च ।
६ अ-पथ्य-सहितम् ।

  • ६.१ न पथ्यम् =अपथ्यम् । नञ्-तत्पुरुषः ।
  • ६.२ अपथ्येन सहितम् = अपथ्यसहितम् । तृतीया-तत्पुरुषः ।
  • ६.३ पथ्यम् “पथ्” १ प. (= to go, to move, to walk along, to follow) इति धातुः । तस्मात् “य”-प्रत्ययेन विध्यर्थि विशेषणम् नपुंसकलिङ्गि नाम च “पथ्य” (= what should be followed, prescription) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.४ सहितम् “स + धा” ३ उ. (= to be with) इति धातुः । तस्य कर्मणि-भूतकालवाचकम् विशेषणम् “सहित” (= with) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.५ अपथ्यसहितम् = not following the prescription

७ त्रयम् “त्रीणि अस्मिन्” इति विशेषणम् “त्रय” (= triad, set of three) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
९ अकृतम्

  • ९.१ न कृतम् = अकृतम् । नञ्-तत्पुरुषः ।
  • ९.२ कृतम् “कृ” ८ उ. (= to do) इति धातुः । तस्य कर्मणि-भूतकालवाचकम् विशेषणम् “कृत” (= done) । अत्र नपुंसकलिङ्गि । तस्य  प्रथमा विभक्तिः एकवचनम् च ।

१० वरम् “वृ” १ उ. (= to prefer) इति धातुः । तस्मात् “अ”-प्रत्ययेन विशेषणम् “वर” (= preferable) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

  • अ-व्याकरणम् अधीतम् = Whatever is studied without grammar (analysis)
  • भिन्न-द्रोण्या तरंगिणी-तरणम् = wading across a lake in a leaky boat
  • भेषजम् अ-पथ्य-सहितम् = taking medicine not following the prescription
  • इदम् त्रयम् अकृतम् वरम् = better that this triad is not done
  • कृतम् न (वरम्) = doing them is not preferable

Overall meaning –

Study done without proper understanding, wading across a lake in a leaky boat and taking medicine not following the prescription (especially about diet and exercises) these three are better not done than done.

४ टिप्पणयः ।

१ अत्र आर्या वृत्तम् । पश्यताम् –

  • अव्याकरणमधीतं भिन्नद्रोण्या तरंगिणीतरणम् ।
  • भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम् ॥
  • प्रथमे पादे

अव्याकरणमधीतम्
२-२-१-१-१-१-२-२ = १२ मात्राः ।
भिन्नद्रोण्या तरंगिणीतरणम्
२-२-२-२ १-२-१-२-१-१-१-१ = १८ मात्राः ।
भेषजमपथ्यसहितम्
२-१-१-१-२-१-१-१-२ =१२ मात्राः ।
त्रयमिदमकृतम् वरम् न कृतम्
१-१-१-१-२-१-२ १-१ १ १-२ = १५ मात्राः ।
2 The phrase अकृतम् वरम् न कृतम् is similar to a phrase किमेतत् सुकृतं कृतम् we had in Lesson 33 –

आयुषः खण्ड्मादाय रविरस्तमयं गतः ।
अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम् ॥

3 To understand the meaning of this we have to presume वरम् as implicit with कृतम् न Hence कृतम् न (वरम्) । Sanskrit poetry often has such implicits to be presumed. There is a poetic charm in this also, right ? “A hint is enough for a smart person” is a proverb in Hindi !

4 There is no verb. The function of the verb is served by the past passive participles अकृतम् and न कृतम् । Since participles are basically derived from verbs, using them to serve the function of the verb is very common in Sanskrit. Often the implicit verb is अस्ति or भवति ।

5 The word व्याकरणम् is commonly taken to mean “grammar”. But if we look at its etymology, note that the word is derived from the verb “वि + आ + कृ” It can be appreciated that the word has a broader meaning of “study done with proper analysis and understanding”. So, व्याकरणम् is a method of study for any subject, not just grammar. A language of course should be studied by understanding its grammar as well. That is what I have been trying to present.

6 The word अधीतम् is also interesting. See its etymology also.

  • 6.1 अधीतम् “अधि + इ” २ उ. (= to get command of, to learn) इति धातुः । तस्य कर्मणि-भूतकालवाचकम् विशेषणम् “अधीत” (= studied, learnt) ।
  • 6.2 The word अध्यायः also has etymology from this verb “अधि + इ” २ उ. (= to get command of, to learn) It has one more prefix “अधि + आ + इ” Every chapter in श्रीमद्भगवद्गीता is called as अध्यायः Every chapter is for deep study and not just for rote-learning. That is the recommendation व्यासमुनि implied in calling every chapter as अध्यायः ।
  • 6.3 The prefixes अधि and आ have very encompassing and forceful meaning अधि implies अधिकार command  आ implies expanse
  • 6.4 In Lesson # 17, we studied तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । The words व्याकरणम् and अधीतम् here together encompass प्रणिपातेन परिप्रश्नेन सेवया । It all has to be done with a passion as was mentioned in the two verses in Lesson # 41 यद्येन क्रियते किञ्चित् येन येन यदा यदा
  • 6.5 For Sanskrit grammarians grammar is not a dry subject. It is a subject of very analytical scientific study. Only by such deep passionate study पाणिनी composed his monumental अष्टाध्यायी with 3,983 सूत्राणि getting in their ambit the whole of Sanskrit grammar !!

7 We usually have “DOs and DON’Ts” in codes of conduct. Every सुभाषितम् has recommendation of some “DOs and DON’Ts” In this सुभाषितम् we have the DON’Ts. The DOs are of course implicit.

  • 7.1 In saying अव्याकरणम् अधीतम् अकृतम् वरम् the implied message is अधीतम् सव्याकरणम् कर्तव्यम् All study should be done with analysis and understanding so as to get command over the subject.
  • 7.2 In saying अपथ्यसहितम् भेषजम् अकृतम् वरम् the implied message is भेषजम् पथ्यसहितम् कर्तव्यम्

8 पथ्य is also an interesting word, is it not ? To put it simply पथ्य means “way to go” ! This way, this word पथ्य also has a vast compass. A synonym of पथ्य is विधानम् as is mentioned in श्रीमद्भगवद्गीता “ज्ञात्वा शास्त्रविधानोक्तम् कर्म कर्तुमिहार्हसि (१६-२४)” There would be a science शास्त्रम् and technique, specified procedure विधानम् for doing any job properly.

शुभमस्तु |

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s