Learning Sanskrit by fresh approach – Lesson 49

Learning Sanskrit by fresh approach – Lesson 49
संस्कृतभाषायाः नूतनाध्ययनस्य नवचत्वारिंशः (४९) पाठः ।

We have been discussing virtues and good nature. This is also in the same vein –

अनाचारेण मालिन्यं अत्याचारेण मूर्खता ।
विचाराचारयोर्योगः स सदाचार उच्यते ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

अन्-आचारेण मालिन्यं अति-आचारेण मूर्खता ।
विचार-आचारयोः योगः सः सत्-आचारः उच्यते ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ अनाचारेण ।

  • १.१ न आचारः = अनाचारः । नञ्-तत्पुरुषः ।
  • १.२ अनाचारेण “अन् + आ + चर्” १ उ. प्रायः प. (= to indulge in improper, untoward, incongruous behaviour) इति धातुः । तस्मात् “अ”-प्रत्ययेन “अनाचार” (= improper, untoward, incongruous behaviour) इति सामासिकं पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

२ मालिन्यम् “मल” (= dirt) इति पुल्लिङ्गि सामान्यनाम । तस्मात् “इन”-प्रत्ययेन विशेषणम् “मलिन” (= dirty) । ततः भाववाचकम् नपुंसकलिङ्गि नाम “मलस्य भावः = मालिन्य” (= dirtiness, blemish) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३ अत्याचारेण

  • ३.१ अतिशयः आचारः = अत्याचारः । उपपद-तत्पुरुषः ।
  • ३.२ अत्याचारेण “अति + आ + चर्” १ उ. प्रायः प. (= to indulge in excessive, oppressive, behaviour) इति धातुः । तस्मात् “अ”-प्रत्ययेन “अत्याचार” (= excessive, oppressive behaviour) इति सामासिकं पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

४ मूर्खता “मूर्ख” (= fool) इति विशेषणम् । प्रायः पुल्लिङ्गि । तस्मात् “ता”-प्रत्ययेन स्त्रीलिङ्गि भाववाचकम् नाम “मूर्खता” (= foolishness) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
५ विचाराचारयोः ।

  • ५.१ विचारः च आचारः च एतयोः समाहारः = विचाराचार । समाहार-द्वंद्वः ।
  • ५.२ विचार “वि + चर्” १ उ. प्रायः प. (= to think) इति धातुः । तस्मात् “अ”-प्रत्ययेन पुल्लिङ्गि नाम “विचार” (= thought) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ५.३ आचार “आ + चर्” १ उ. प्रायः प. (= to behave) इति धातुः । तस्मात् “अ”-प्रत्ययेन पुल्लिङ्गि नाम “आचार” (= behaviour, conduct) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ५.४ विचाराचारयोः “विचाराचार” इति सामासिकम् पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः द्विवचनम् च ।

६ योगः “युज्” ७ उ. (= to join) इति धातुः । तस्मात् पुल्लिङ्गि नाम “योग” (= joint action) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
७ सः “तत्” इति सर्वनाम । अत्र पुल्लिङ्गि (= he) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ सदाचारः ।

  • ८.१ सत् आचारः = सदाचारः । कर्मधारयः ।
  • ८.२ सदाचारः “सदाचार” (= good conduct) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

९ उच्यते “वच्” २ प. (= to speak, to call) इति धातुः । तस्य कर्मणि-प्रयोगे लट्-वर्तमाने तृतीय-पुरुषे एकवचनम् ।

४ अन्वयाः अनुवादाः च ।

अनाचारेण मालिन्यं (भवति) । = Improper incongruous conduct brings blemish
अत्याचारेण मूर्खता (भवति) । = Excessive, oppressive behaviour becomes foolishness
(यः) विचाराचारयोः योगः सः सदाचारः उच्यते । = Proper combination of thought and conduct is called as good conduct.

५ टिप्पणयः ।

१ अत्र अनुष्टुभ् छन्दः ।

2 Here we have उपसर्गाः  अन् अति वि आ and सत् prefixed to the verb चर् and we have words of very different meanings. That reminds of the सुभाषितम् studied in Lesson # 21. उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥

3 Meaning of the second line “Proper combination of thought and conduct is called as good conduct” presumes that the “proper” combination of thought and conduct is when thought is good and conduct is also good. Only then the conduct is a good conduct. Rather conduct (or action) should be preceded by good thinking. The proverb “Think twice before you act” exactly underlines precedence of thinking before action.

4 Also, antonym of सदाचारः is actually दुराचारः । We can say that अनाचार: and अत्याचार: make detailing of दुराचारः ।

5 It seems अनाचारेण and अत्याचारेण have to be interchanged.

  • 5.1 Terrorists, for example indulge in excessive behaviour. That is not foolishness. Terrorist minds  are not treated in mental hospitals. They of course are not liked in the society. Theirs becomes a blemished character. What they get is मालिन्यम् |
  • 5.2 Also it is untoward, improper, incongruous behaviour is called as foolish behaviour मूर्खता and is often treated in mental hospitals.
  • 5.3 The सुभाषितम् should hence be rather reworded as –

अत्याचारेण मालिन्यं अनाचारेण मूर्खता ।
विचाराचारयोर्योगः स सदाचार उच्यते ॥

  • 5.4 It also seems that for somewhat of a musical ear, the second line may sound better by interchanging स and सदाचार | Maybe, it should rather be

अत्याचारेण मालिन्यं अनाचारेण मूर्खता ।
विचाराचारयोर्योगः सदाचारः स उच्यते ॥

  • 5.5 This way, it rhymes well with following श्लोकः in श्रीमद्भगवद्गीता –

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ३-६॥

  • 5.6 In addition to दुराचार (अनाचार, अत्याचार) and सदाचार in this सुभाषितम् now by this श्लोकः in श्रीमद्भगवद्गीता we also have मिथ्याचार !!
  • 5.7 Uniformity in thought, word and deed is also important. If not, it becomes मिथ्याचार | There is a सुभाषितम् which does mention मनसि वचसि काये साधूनामेकरूपता । And there is a proverb in Hindi with quite some sarcasm in it मुँहमें राम, बगलमें छुरी meaning “Uttering name of राम by mouth and carrying a knife in the belt.”

6 Essence of the second line is in the word सदाचार, rather in the prefix सत् This word सत् is part of a महावाक्यम् “ॐ तत् सत्”
In श्रीमद्भगवद्गीता this  महावाक्यम् is detailed across 5 verses (# 23 to 27) in the seventeenth chapter. Out of these five verses, सत् itself is explained in two verses.

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ १७-२६ ॥
यज्ञे तपसि दाने च स्थितिः सदिति उच्यते ।
कर्म चैव तदर्थीयम् सदित्येवाभिधीयते ॥ १७-२७ ॥

7 We have lot to study further in lessons ahead.

शुभमस्तु

-o-O-o-

3 thoughts on “Learning Sanskrit by fresh approach – Lesson 49

  1. अपि अनाचारः इति कोऽपि आचारः न विद्यते अत्याचारः इति अत्यधिकः आचारः। कोऽपि आचारः न करणात् अवकरः भवति तथा अत्यधिकः आचारात् मूर्खता।

    हिमांशुः।

    • नमो नमः “हिमांशु”-महोदय !
      “केन्टकी”-विश्वविद्यालयीना श्रीमता “डॉ.अविनाश साठये”-महोदयेनापि काचित् भवद्विधा एव टिप्पणी प्रेषिता । तेन लिखितमस्ति –
      You started with identifying अनाचार correctly as नञ् तत्पुरुष, but then switched to a moralistic twist on the meaning as
      “अनाचार” (= improper, untoward, incongruous behavior) !
      I think this सुभाषित has a much simpler and more elegant meaning –

      By inaction, one gets rusty, by overdoing things, one acquires foolishness (does foolish things);
      Actions coupled with proper thought is called proper action (सदाचार).”
      द्वयोरपि धन्यवादाः ।

    • नमो नमः “हिमांशु”-महोदय ! “केन्टकी”-विश्वविद्यालयीना श्रीमता “डॉ.अविनाश साठये”-महोदयेनापि काचित् भवद्विधा एव टिप्पणी प्रेषिता । तेन लिखितमस्ति – You started with identifying अनाचार correctly as नञ् तत्पुरुष, but then switched to a moralistic twist on the meaning as “अनाचार” (= improper, untoward, incongruous behavior) ! I think this सुभाषित has a much simpler and more elegant meaning –

      By inaction, one gets rusty, by overdoing things, one acquires foolishness (does foolish things); Actions coupled with proper thought is called proper action (सदाचार).” द्वयोरपि धन्यवादाः । सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।” https://slabhyankar.wordpress.com http://slezall.blogspot.com

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s