Learning Sanskrit by fresh approach – Lesson 48

Learning Sanskrit by fresh approach – Lesson 48
संस्कृतभाषायाः नूतनाध्ययनस्य अष्ट्चत्वारिंशः (४८) पाठः ।

Having discussed करे श्लाघ्यस्त्यागः and कराग्रे वसते लक्ष्मीः in the previous lesson, this सुभाषितम् also advises what more good things can be done by one’s hands –

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

अभिवादन-शीलस्य नित्यं वृद्ध-उपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुः विद्या यशः बलम् ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ अभिवादन-शीलस्य ।

  • १.१ अभिवादनम् शीलम् यस्य सः = अभिवादनशीलः । बहुव्रीहिः ।
  • १.२ अभिवादनम् “अभि + वद्” १ प. (= to say respects) इति धातुः । तस्य प्रयोजकः “अभि + वाद्” । तस्मात् नपुसंकलिङ्गि नाम “अभिवादन” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १.३ शीलम् “शील” (= ingrained nature) इति नपुसंकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १.४ अभिवादनशीलस्य “अभिवादनशील” (= one, who has being respectful ingrained in his nature) इति सामासिकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

२ नित्यम् (= always) अव्ययम् ।
३ वृद्धोपसेविनः = वृद्ध-उपसेविनः ।

  • ३.१ वृद्धानाम् उपसेवी = वृद्धोपसेवी । षष्ठी-तत्पुरुषः ।
  • ३.२ वृद्धानाम् वृध् १ आ. (= to grow) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “वृद्ध” (= grown, aged) । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३.३ उपसेवी “उप + सेव्” १ आ. (= to serve) इति धातुः । तस्मात् “इन्”-प्रत्ययेन विशेषणम् “उपसेविन्” (= one, who does service) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३.४ वृद्धोपसेविनः “वृद्धोपसेविन्” (= one, who does service of the aged) इति सामासिकम् विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

४ चत्वारि “चतुर्” अथवा “चतुस्” (= four) इति संख्यावाचकम् विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
५ तस्य “तत्”इति सर्वनाम । अत्र पुल्लिङ्गि (= he) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
६ वर्धन्ते वृध् १ आ. (= to enhance) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे बहुवचनम् च ।
७ आयुः “आयुष्” (= life) इति स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ विद्या (= knowledge) स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
९ यशः “यशस्” (= success)  इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१० बलम् “बल” (= strength)  इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

४ अन्वयाः अनुवादाः च ।

नित्यं अभिवादन-शीलस्य वृद्ध-उपसेविनः तस्य आयुः विद्या यशः बलम्  (एतानि) चत्वारि वर्धन्ते ।
= (यः) नित्यं अभिवादनशीलः वृद्धोपसेवी च, तस्य आयुः विद्या यशः बलम्  (एतानि) चत्वारि वर्धन्ते ।
= He who is always respectful and does service to elders, he would have enhancement of life, knowledge, success and strength.

५ टिप्पणयः ।

1 There are four parts, each of 8 syllables. This is अनुष्टुभ् छन्दः । There are many variants of this अनुष्टुभ् छन्दः । However in the most common pattern, the structure is as follows.
अस्य लक्षणम् – श्लोके षष्ठं गुरु ज्ञेयम् । सर्वत्र लघुपञ्चमम् । द्विचतुःपादयोर्र्‍हस्वम् । सप्तमं दीर्घमन्यथा ॥
Apart from there being 8 syllables in each quarter,
श्लोके षष्ठं गुरु ज्ञेयम् = sixth syllable is always with weightage 2 (गुरु)
सर्वत्र लघुपञ्चमम् = fifth syllable is always with weightage 1 (लघु)
द्विचतुःपादयोर्र्‍हस्वम् । सप्तमं दीर्घमन्यथा = seventh syllable is
with weightage 1 = ‌‍र्‍हस्वम् in second and fourth and
with weightage 2 (दीर्घम्) in first and third

2 The phrase नित्यं अभिवादन-शीलस्य वृद्ध-उपसेविनः तस्य is somewhat of idiomatic construction. As has been detailed in अन्वयाः, it has to be understood to be (यः) नित्यं अभिवादनशीलः वृद्धोपसेवी च, तस्य |

3 Traditional way of saying and doing respects अभिवादन is to greet with folded hands. This is also called as नमस्कार “नमः कार्यते एवम् इति नमस्कारः” Literally नमः means bending, bowing, bowing at somebody’s feet, doing respects.

On the goodness of नमस्कार there is a beautiful 17th century verse in Marathi by Saint Ramdas (Devanagari: रामदास, Rāmdās) (1606–1682) a prominent Marathi saint and poet greatly respected in Maharashtra, India. I would better quote that verse –

नमस्कारे लीनता घडे = नमस्कार inculcates modesty
नमस्कारे विकल्प मोडे = नमस्कार banishes misunderstandings and immaturities
नमस्कारे सख्य जडे = नमस्कार sets up friendship
नाना सत्त्वाग्राही = across the living world

नमस्कारे दोष जाती = नमस्कार removes faults and short-comings
नमस्कारे अन्याय क्षमती = नमस्कार resolves injustices
नमस्कारे मोडली जडती = नमस्कार rejoins the broken relationships
समाधाने = with congeniality

नमस्कारे कृपा उचंबळे = नमस्कार arouses compassion and grace
नमस्कारे प्रसन्नता प्रबळे = नमस्कार strengthens satisfaction
नमस्कारे गुरुदेव भोळे = by नमस्कार the precepts bestow
साधकांवरी = the disciple

नमस्कारास वेचावे न लगे = One need not spend anything for नमस्कार
नमस्कारास कष्टावे न लगे = One need not exert anyway for doing नमस्कार
नमस्कारास कांहिच न लगे = नमस्कार does not need anything really
उपकरण सामग्री = no tools, no implements, no materials

याकारणें नमस्कारापरतें = Hence better than नमस्कार
आणिक नाही अनुसरतें = there is nothing
नमस्कारे प्राणियांतें = By नमस्कार men
सद्-बुद्धि लाभे = will have right motivations

साधकभावें नमस्कार घाली = Do नमस्कार as a disciple
त्याची चिंता गुरूस लागली = then the responsibility of taking good care becomes responsibility of the precept
सुगमपंथें नेऊन घाली = He will certainly lead to the right path
जेथील तेथें = whichever is appropriate

All this wholesome meaning is implicit in the word अभिवादन of this सुभाषितम् | So अभिवादन should become a part of one’s nature. That is the significance of the word शील !

4 वृद्ध = elder is also an interesting word to study. In Indian culture all elders are to be respected. Importantly however, elderliness is not by age alone. When one attains elderliness by age, one becomes वयोवृद्ध, by knowledge ज्ञानवृद्ध by special aptitudes and faculties achieved by hard and focused study and practice तपोवृद्ध । Elderliness in short is respectability. One becomes respectable also by philanthropy दानम्

These – ज्ञानवृद्धता, तपोवृद्धता, दानशीलता are well-summarized in अष्टादशाध्याये श्रीमद्भगवद्गीतायाम् –

यज्ञो दानम् तपश्चैव पावनानि मनीषिणाम् (१८-५)

Here यज्ञ encompasses all types of यज्ञ-s which have been earlier detailed in

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्याय-ज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४-२८ ॥

Most importantly, all these are to be practised not at all with the objective of gaining respectability. That would happen, automatically. For oneself, one should practise these as inherent nature. That is why the word नित्यम् in this सुभाषितम् |

All across श्रीमद्भगवद्गीता, the advice always is not to have in mind aspirations and expectations to be gained, in cultivating any practice or in doing any कर्म |

एतान्यपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितम् मतमुत्तमम् ॥ १८-६ ॥

5 I always love to compile these टिप्पणयः | Compiling these टिप्पणयः makes for me a more detailed study, delving deeper into the meaning of the सुभाषितम् |

शुभमस्तु ।

-o-O-o-

2 thoughts on “Learning Sanskrit by fresh approach – Lesson 48

    • अभिभूतो ऽ स्मि ननु “भारतीय”-महोदय !
      एषा तु महती टिप्पणी ! सुष्ठु ज्ञापितम् भवता, यत् VS Apte’s dictionary gives the meaning of यशस् as “fame”.
      मया तु यशस् इति success एवमनुवादितम् ।
      यतः यशस् = “fame”, कर्मसिद्धि: तथा एव कर्तव्या यथा यशः भवति ।
      “योगः कर्मसु कौशलम् ।” उक्तं भगवता !
      अभिवादनानि वृद्धोपसेवनानि अपि तथा एव कर्तव्यानि !
      धन्यवादाः !!
      सस्नेहम् ,
      अभ्यंकरकुलोत्पन्नः श्रीपादः |
      “श्रीपतेः पदयुगं स्मरणीयम् ।”
      https://slabhyankar.wordpress.com
      http://slezall.blogspot.com

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s