Learning Sanskrit by fresh approach – Lesson 47

Learning Sanskrit by fresh approach – Lesson 47
संस्कृतभाषायाः नूतनाध्ययनस्य सप्तचत्वारिंशः (४७) पाठः ।

नेपाल-देशस्थितेन श्रीमता “उज्ज्वल लामिछाने”-महोदयेन अध्ययनाय सूचितोऽस्ति भर्तृहरि-महाभागेन विरचितस्य “नीतिशतक”-स्य अयम् श्लोकः –

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयिभुजयोर्वीर्यमतुलम्
हृदि स्वच्छा वृत्तिः श्रुतमधिगतैकव्रतफलम्
विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् || ६५ ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

करे श्लाघ्यः त्यागः शिरसि गुरु-पाद-प्रणयिता
मुखे सत्या वाणी विजयि-भुजयोः वीर्यम् अतुलम्
हृदि स्वच्छा वृत्तिः श्रुतम् अधिगत-एक-व्रत-फलम्
विना अपि ऐश्वर्येण प्रकृति-महताम् मण्डन-इदम् || ६५ ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ करे “कर” (= Hand) इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
२ श्लाघ्यः “श्लाघ्” १ आ. (= to praise) इति धातुः । तस्मात् “य”-प्रत्ययेन विध्यर्थि विशेषणम् “श्लाघ्य” (= praise-worthy) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३ त्यागः “त्यज्” १ प. (= to leave, to forsake, to donate) इति धातुः । तस्मात् पुल्लिङ्गि सामान्यनाम “त्याग” (= philanthropy) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४ शिरसि (= head) इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
५ गुरु-पाद-प्रणयिता ।

  • ५.१ गुरोः पादौ = गुरुपादौ । षष्ठी-तत्पुरुषः ।
  • ५.२ गुरुपादाभ्याम् प्रणयिता । चतुर्थी-तत्पुरुषः ।
  • ५.३ गुरोः “गुरु” (= teacher, precept) इति सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ५.४ पादौ “पाद” (= foot) इति सामान्यनाम । तस्य प्रथमा विभक्तिः द्विवचनम् च ।
  • ५.५ गुरुपादाभ्याम् “गुरुपाद” इति सामासिकम् नाम । तस्य चतुर्थी विभक्तिः द्विवचनम् च ।
  • ५.६ प्रणयिता “प्र + नी” १ उ. (= to become affectionate) इति धातुः । तस्मात् “अय”-प्रत्ययेन पुल्लिङ्गि भाववाचकम् नाम “प्रणय” (= affection) । “प्रणय”-माम्नः “इता”-प्रत्ययेन स्त्रीलिङ्गि भाववाचकम् नाम “प्रणयिता” (= tendency or inclination to affection) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ५.७ गुरुपादप्रणयिता = inclination to have affection for the feet of the precept

६ मुखे “मुख” (= mouth) इति नपुंसकलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
७ सत्या “सत्य” (= true, truthful) इति विशेषणम् । “आ”-कारान्तेन स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ वाणी (= speech) इति स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
९ विजयि-भुजयोः ।

  • ९.१ विजयिनौ भुजौ = विजयिभुजौ । कर्मधारयः
  • ९.२ विजयिनौ “वि + जय्” १ प. (= To win) इति धातुः । तस्मात् “इन्”-प्रत्ययेन “विजयिन्” (= victorious) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः द्विवचनम् च ।
  • ९.३ भुजौ “भुज” (= arm) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः द्विवचनम् च ।
  • ९.४ विजयि-भुजयोः “विजयिभुज” (= winning arm) इति सामासिकम् नाम । तस्य षष्ठी विभक्तिः द्विवचनम् च ।

१० वीर्यम् “वीरस्य भावः = वीर्यम्”। वीर्य (= bravery, fighting spirit) इति भाववाचकम् नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
११ अतुलम् ।

  • ११.१ न तुल = अतुल । नञ्-तत्पुरुषः ।
  • ११.२ अतुलम् “अतुल” (= incomparable) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१२ हृदि “हृत्” (= heart) इति नपुंसकलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
१३ स्वच्छा “स्वच्छ” (= clean) विशेषणम् । “आ”-कारान्तेन स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१४ वृत्तिः “वृत्” १ आ. (= to behave) इति धातुः । तस्मात् “ति”-प्रत्ययेन स्त्रीलिङ्गि भाववाचकम् नाम “वृत्ति” (= behaviour, character) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१५ श्रुतम् “श्रु” ५ प. (= to listen, to learn) इति धातुः । तस्मात् भूतकालवाचकम् विशेषणम् “श्रुत” (= acquired learning) । प्रायः नपुंसकलिङ्गि नाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१६ अधिगत-एक-व्रत-फलम् ।

  • १६.१ एकम् व्रतम् = एकव्रतम् । कर्मधारयः ।
  • १६.२ एकव्रतस्य फलम् = एकव्रतफलम् । षष्ठी-तत्पुरुषः ।
  • १६.३ येन अधिगतम् एकव्रतफलम् तत् = अधिगत-एकव्रतफलम् । बहुव्रीहिः ।
  • १६.४ एकम् “एक” (= one, single) इति संख्यावाचकम् विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १६.५ व्रतम् “वृ” ५ प. (= to observe, to undertake) इति धातुः । तस्मात् “अत”-प्रत्ययेन नपुंसकलिङ्गि नाम “व्रत” (= undertaking)। तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १६.६ एकव्रतस्य “एकव्रत” इति सामासिकम् नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १६.७ फलम् “फल” (= fruit) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १६.८ अधिगतम् “अधि + गम्” १ प. (= to acquire) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “अधिगत” (= what is acquired) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १६.९ अधिगत-एकव्रतफलम् = what is acquired as fruit of single (focused, undistracted, dedicated) undertaking

१७ विना (= without) अव्ययम् ।

१८ अपि (= also) अव्ययम् ।

१९ ऐश्वर्येण “ईश्वरस्य इदम् इति ऐश्वर्यम्” ।

  • १९.१ ईशः च वरः च = ईश्वरः । समाहार-द्वन्द्वः ।
  • १९.२ ईशानाम् “ईश” २ आ. (= to command, to overlord) इति धातुः । “ईश” (= commander, overlord, God) इति पुल्लिङ्गि सामान्यनाम अपि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • १९.३ वरः “वृ” ५, ९ उ. (= to grace) इति धातुः । तस्मात् “अ”-प्रत्ययेन “वर” (= grace) इति विशेषणम् । प्रायः पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १९.४ ईश्वरः = He, who overlords and also graces
  • १९.५ ऐश्वर्येण “ऐश्वर्य” (= splendour, that is inherent to overlordship) इति नपुंसकलिङ्गि भाववाचकम् नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

२० प्रकृति-महताम् ।

  • २०.१ प्रकृतिः महती यस्य सः = प्रकृतिमहत् । बहुव्रीहिः ।
  • २०.२ प्रकृतिः “प्र + कृ” ८ उ. (= to habituate) इति धातुः । तस्मात् “ति”-प्रत्ययेन स्त्रीलिंङ्गि नाम “प्रकृति” (= nature) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २०.३ महती “महत्” (= great) इति विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २०.४ प्रकृतिमहताम् “प्रकृतिमहत्” (= ) इति सामासिकम् विशेषणात्मकम् नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

२१ मण्डनम् “मण्ड्” १ प. (= to adorn) इति धातुः । तस्मात् “अन”-प्रत्ययेन नपुंसकलिङ्गि नाम “मण्डन” (= ornament) । तस्य प्रथमा विभक्तिः एकवचनम् च
२२ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

४ अन्वयाः अनुवादाः च ।

१ करे त्यागः श्लाघ्यः (भवति) । = Hand is adorned (becomes praiseworthy) by philanthrpoy. (Philanthropy makes hands praiseworthy)
२ शिरसि गुरु-पाद-प्रणयिता (श्लाघ्या) (भवति) । = Head is adorned by affection for the feet of the precept. (Affection (veneration) for the feet of the precept makes a head praiseworthy)
३ मुखे सत्या वाणी (श्लाघ्या) (भवति) । = Mouth is adorned by truthful speech. (Truthful speech makes a mouth praiseworthy)
४ विजयि-भुजयोः अतुलम् वीर्यम् (श्लाघ्यम्) (भवति) । = Victory-(aspiring) arms are adorned by incomparable bravery. (incomparable (indomitable) bravery makes victorious arms praiseworthy)
५ हृदि स्वच्छा वृत्तिः (श्लाघ्या) (भवति) । = Heart is adorned by clean character i.e. chastity. (Clean character makes a heart praiseworthy)
६ अधिगत-एक-व्रत-फलम् श्रुतम् (श्लाघ्यम्) (भवति) । =  Ears are adorned by the fruit acquired from focused undertaking. (Ears (learning) becomes praiseworthy when it results into attainment due to focused, un-distracted undertaking.)
७ ऐश्वर्येण विना अपि प्रकृति-महताम् इदम् मण्डनम् (भवति) । = Even without the glamour (of wealth), for those who have great nature, (all) this becomes ornamentation.

५ टिप्पणयः ।

1 अत्र प्रत्येकस्मिन् पादे सप्तदश अक्षराणि, यथा – करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता ।
अक्षराणां मात्राः १-२-२ २-२-२ १-१-१ १-१-२ २-१-१ १-२ एवम् ।
तेन यमाता मातारा नसल सलगं भानस ल ग  = य म न स भ ल ग इति गणाः ।
एषः “शिखरिणी”-छन्दः । तस्य लक्षणपदम् “रसैर्रुद्रैश्छिन्ना यमनसभलागा शिखरिणी”

2 Suggestion of Mr. Ujjwal LAmichhane to study this सुभाषितम् has somehow coincided with the study of “ऐश्वर्यस्य विभूषणम् …” in the previous lesson. Is it some divine coincidence ?

2.1 There we had a listing of nine virtues. Here we have six virtues – philanthropy, affection and respects for the precept, truthful speech, bravery, clean character i.e. chastity, focused undertaking i.e. penance.

2.2 There the virtues were called as विभूषणम् | Here they are called as श्लाघ्य and मण्डनम् |

2.3 There virtues became decoration for a faculty. Here virtues become decorations of different organs.

3 Here we have six virtues adorning the whole body including the heart. We had exactly six virtues also in

उद्यमः साहसं धैर्यम् बुद्धिः शक्तिः पराक्रमः ।

षडेते यत्र वर्तन्ते तत्र देवः सहाय्यकृत् ॥

4 करे श्लाघ्यस्त्यागः brings to mind a prayer to be said immediately after getting up. The prayer is

कराग्रे वसते लक्ष्मीः करमध्ये च सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥

In this prayer three parts of the palms are identified with three deities. Is there a logic behind which deity at which part of the palm ? It seems, there is !

  • लक्ष्मीः is the goddess of wealth. She is assigned the position at tips of fingers. Whatever one would hve at the tips of fingers would be more readily given away. That is how it should be for wealth to be acquired. It should be given away ! Philanthropy adorns the hands !
  • Whatever is held at करमध्ये has quite some firmness in the hold.  सरस्वती is the deity of knowledge. It should better be held firmly. So करमध्ये च सरस्वती !
  • गोविन्दः is कृष्णः He reared cows in his childhood. Hence his name गोविन्दः ! Rearing cows denotes compassion and affection for the animal world. It is best done with patting. Patting is best done by करमूल | So करमूले तु गोविन्दः connotes compassion for the animal world, rather compassion even for the animal world, in turn compassion for all the living !
  • प्रभाते करदर्शनम् Having focused on the three parts of the hands meditating on the three deities in this manner, praying that urge for philanthropy, knowledge and compassion be cultivated over the day, take a wholesome look at both the hands, fold them together in prayer, rub them together and run the warmth all over the face. This will certainly arouse freshness ! That becomes good waking up, awakening !

5 सनातन धर्म has been criticised for its multiple-deity concept ! Look at the positive significance that is inbuilt in the concept. 330 million deities ! Association of a concept of deity with anything cultivates veneration, devotion, affection.

6 I am fascinated by the comprehensiveness and the rhythmic beat and capability to create a pious environment so ingrained in the शान्ति-मन्त्रः
द्यौः शान्तिरन्तरिक्ष शान्तिः । पृथ्वी शान्तिः । आपः शान्तिः । ओषधयः शान्तिः । वनस्पतयः शान्तिः । विश्वेदेवाः शान्तिः । ब्रह्म शान्तिः । सर्व शान्तिः॥ शान्तिरेव शान्तिः |
विश्वेदेवाः शान्तिः । ब्रह्म शान्तिः॥ सर्व शान्तिः |
वनस्पतयः शान्तिः । विश्वेदेवाः शान्तिः । ब्रह्म शान्तिः । सर्व शान्तिः । शान्तिरेव शान्तिः |
सा मा शान्तिरेधि । सुशान्तिर्भवतु ॥
The repetitions also have the power to build up the environment – environment within and environment around ! That is what makes a मन्त्रः a मन्त्रः !

शुभमस्तु ।

-o-O-o-

2 thoughts on “Learning Sanskrit by fresh approach – Lesson 47

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s