Learning Sanskrit by fresh approach – Lesson 45

Learning Sanskrit by fresh approach – Lesson 45
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चचत्वारिंशः
(४५) पाठः ।

महाकवेः कालिदासस्य अभिज्ञानशाकुन्तलस्य चतुर्थाङ्के यत् सम्मानितम् श्लोकचतुष्टयम् तस्य अयं चतुर्थः श्लोकः –

अर्थो हि कन्या परकीय एव
तामद्य संप्रेष्य परिग्रहीतुः
जातो ममायं विशदः प्रकामम्
प्रत्यर्पितन्यास इवान्तरात्मा ॥ २१ ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

अर्थः हि कन्या परकीयः एव
ताम् अद्य संप्रेष्य परिग्रहीतुः
जातः मम अयं विशदः प्रकामम्
प्रत्यर्पित-न्यासः इव अन्तरात्मा ॥ २१ ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ अर्थः “अर्थ”(= wealth) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२ हि (= because) इति अव्ययम् ।
३ कन्या (= daughter) । स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४ परकीयः “परस्य इति परकीय” (= other’s) विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
५ एव (= only) इति अव्ययम् ।
६ ताम् “तत्” इति तृतीय-पुरुषि सर्वनाम । अत्र स्त्रीलिङ्गि (= she) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
७ अद्य (= today) इति अव्ययम् ।
८ संप्रेष्य “सम् + प्रेष्” ४ प. (= to send over) इति धातुः । तस्य ल्यबन्तम् अव्ययम् “संप्रेष्य” = on sending over ।
९ परिग्रहीतुः “परि + ग्रह्” ९ उ. (= to marry) इति धातुः । तस्मात् “तृ”-प्रत्ययेन कर्तृवाचकम् विशेषणम् “परिग्रहीतृ” । अत्र पुल्लिङ्गि (= husband) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१० जातः “जन्” ४ आ. (= to become) इति धातुः । तस्य भूतकालवाचकम् विशेषणम् “जात”। अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
११ मम “अस्मद्” इति प्रथम-पुरुषि सर्वनाम (= I, we) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१२ अयं “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च
१३ विशदः “विशद” (= clean, free) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च
१४ प्रकामम् “प्रकृष्टः कामः यथा” (= beyond expectation) इति क्रियाविशेषणात्मकम् अव्ययम् ।
१५ प्रत्यर्पित-न्यासः

  • १५.१ प्रत्यर्पितः न्यासः येन सः = प्रत्यर्पितन्यासः । बहुव्रीहिः ।
  • १५.२ प्रत्यर्पितः “प्रति + ऋ” १, ३, ५ प. (= to return) इति धातुः । तस्य प्रयोजकस्य भूतकालवाचकम् विशेषणम् “प्रत्यर्पित” अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १५.३ न्यासः “नि + आस्” २ आ. (= to deposit) इति धातुः । तस्मात् “अ”-प्रत्ययेन पुल्लिङ्गि सामान्यनाम “न्यास”।  तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १५.४ प्रत्यर्पितन्यासः = one, who has returned a deposit or a loan

१६ इव (= similar to) इति अव्ययम् ।
१७ अन्तरात्मा = अन्तर् + आत्मा

  • १७.१ अन्तर् (= inner) उपसर्गः ।
  • १७.२ आत्मा “आत्मन्” (= soul) इति सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १७.३ अन्तरात्मा = inner soul, mind

४ अन्वयाः अनुवादाः च ।

हि कन्या परकीयः अर्थः एव = Because  the daughter is only some other’s wealth
ताम् अद्य परिग्रहीतुः संप्रेष्य = on sending her to her husband
अयं मम अन्तरात्मा प्रत्यर्पित-न्यास इव प्रकामम् विशदः जातः = this inner soul of mine is free similar to the mind of a person, who has returned a loan

५ टिप्पणयः ।

1 अत्र प्रत्येकस्मिन् पादे एकादश अक्षराणि, यथा “अर्थो हि कन्या परकीय एव” । तेषां मात्राः (२-२-१) (२-२-१) (१-२-१) २-१ । “अंतिम-लघुः गुरुरेव” इति न्यायेन अत्र ताराज ताराज जभान ग ग एवं त-त-ज-ग-ग इति गणाः । एवं एतत् “इन्द्रवज्रा”-वृत्तम् । अस्य लक्षणम् “स्यादिन्द्रवज्रा यदि तौ जगौ गः” । अत्र “तौ”-शब्देन “त”-गणस्य द्वित्तम् ज्ञातव्यम् तथा “जगौ”-शब्देन “ज”-गणः च “ग”-गणः च एतयोः समाहारः ज्ञातव्यः ।

2 “परिग्रहीतुः” is a word which merits some discussion.

  • Since in the tradition of sanAtana dharma there is the ritual that husband and wife being married have to do rounds around a sacred fire, parigrahItRu is the person who accepts the girl as his wife after going around, which is the meaning of the prefix “pari”. In turn “parigrahItRu” means the husband.
  • The word parigrahaH is also quoted in the dollowing verses in shreemad-bhagavad-geetaa.
    निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१ ॥
    अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८-५३ ॥
    At both these places परिग्रहः means yearning for pleasures.
  • Interestingly, the word परिग्रहीतुः is in षष्ठी विभक्तिः | Actually Shakuntalaa is being sent “to” her husband Dushyanta. So dwiteeyaa vobhaktiH would also have been appropriate, rather grammatically more correct. But since she is being sent to her husband the parigrahItRu who is going to be the “right”-ful master, his ownership -ownership of responsibility towards ShakuntalA – is indicated by the sixth case  षष्ठी विभक्तिः since अधिकरणे षष्ठी विभक्तिः Poetic mind is manifest even in using षष्ठी विभक्तिः !!

3 About the word “परकीय”

  • Dr. K.C. Varadachari in his article “KALIDASA AND MYSTICISM AND SRI AUROBINDO” at http://www.drkcv.org/Books/kcv4chap_13.htm says this –
  • “…..In तन्त्र-साधना of the सहजीय we have reference to the परकीय – which is said to be better than स्वकीय.  Much extraordinary and indeed wrong conclusions have been drawn.  परकीय means that, one feels oneself as belonging to God or the Divine, as contrasted with the स्वकीय as belonging to oneself. In an illuminating way कालिदास himself uses this word परकीय as belonging to another or the other:…”
  • Then this verse अर्थो हि कन्या…” is quoted. Dr. VaradAchAree further adds –
  • A girl belongs to her husband (another) and has to be restored to her rightful Lord even like the soul that has to be restored to the supreme.  This simile is very important for, as I had elsewhere suggested, the higher level is shown to illumine the lower level on the basis of similarity.  This is true उपमान or instrument of true knowledge, the उपमेय is the ordinary restoration of the girl to the lawful husband who indeed in धर्म शास्त्र-s is विष्णू or his अंश or
    symbolises Him, and obviously every girl is a श्री or लक्ष्मी or her अंश.

4 This verse is an advice by कण्व-मुनि to all parents, guardians and relatives of the bride  on how their thinking would be and  should be when sending a girl to her husband’s household.

5 The four famous verses are not in consecutive order. Their respective verse number was mentioned in previous lessons also , this one being verse # 21.

6 To recapitulate, the themes of four verses dwelt upon are –

  • 6.1 verse # 5 covered the feelings which overwhelm mind of bride’s father when sending her to her husband’s place
  • 6.2 Verse # 16 covered message of the brides elderly relative to the reponsible person(s) in husband’s household, in this instance, the King himself
  • 6.3 verse # 17 advice to the bride
  • 6.4 verse # 21 advice to parents, guardians and responsible relatives of the girl about the line of thinking to be borne in mind, not only when sending her to her husband’s place, but also when grooming her from childhood.

7 The four “shloka”s together श्लोकचतुष्टयम् make a grand summary of the cultural concepts and eternal wisdom of grooming a girl child and sending her to her husband’s place. That is what makes this श्लोकचतुष्टयम् the “famous four” !

शुभमस्तु ।

-o-O-o-

5 thoughts on “Learning Sanskrit by fresh approach – Lesson 45

  1. Hey could you please do अन्वयः ,व्याख्या as done in the above way of the श्लोकः given below.
    करे श्लाघ्यस्त्याग: शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम्।
    हृदि स्वच्छा वृत्ति: श्रुतमधिगतैकव्रतफलं विनाऽप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम्।।६५।।

    • नमो नमः श्रीमन् “उज्ज्वल लमिच्छने”-महोदय !
      धन्यवादाः भवतः सूचनाय । भवता उल्लेखितम् सुभाषितम् अतिसुन्दरम् खलु । तस्य व्याख्यायाः प्रयत्नः अवश्यम् करोमि ।
      भवता सुभाषितस्य अनुक्रमाङ्कः ।। ६५ ।। एवम् दत्तः अस्ति । कस्मात् ग्रन्थात् अयम् संदर्भः ?
      सस्नेहम् ,
      अभ्यंकरकुलोत्पन्नः श्रीपादः |
      “श्रीपतेः पदयुगं स्मरणीयम् ।”
      https://slabhyankar.wordpress.com
      http://slezall.blogspot.com

      • नमो नमः “अभ्यंकरकुलोत्पन्नः श्रीपादः ” महोदय !
        एषः पद्यः भतृहरिरचितम् ” नीतिशतकम् ” इति ग्रन्थस्य अस्ति । अहम् “उज्ज्वल लामिछाने ” अस्मि । अहम् अस्मिन् काले संस्कृतशिक्षार्थी अस्मि । एषः पद्यः मम परिक्षायाम् आगमिष्यति, ततः अहम् एतस्य पद्यस्य अन्वयं व्याख्यां भावार्थं च इच्छामि । मम गुरुः “त्वम् एतस्य पद्यस्य कार्यं स्वयं कुरु !” इति कथ्यन्ति, परन्तु माम् एषः पद्यः अतीव कठीन अस्ति। ततः अहम् भवन्तम् पृच्छन् अस्मि ।
        सस्नेहम् ,
        उज्ज्वल लामिछाने ॥

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s