Learning Saanskrit by fresh approach – Lesson 44

Learning Saanskrit by fresh approach – Lesson 44
संस्कृतभाषायाः नूतनाध्ययनस्य चतुश्चत्वारिंशः (४४) पाठः ।

महाकवेः कालिदासस्य अभिज्ञानशाकुन्तलस्य चतुर्थाङ्के यत् सम्मानितम् श्लोकचतुष्टयम् तस्य अयं तृतीयः श्लोकः –

शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ १८ ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

शुश्रूषस्व गुरून् कुरु प्रिय-सखी-वृत्तिं स-पत्नी-जने
भर्तृः विप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः
भूयिष्ठं भव दक्षिणा परि-जने भाग्येषु अन्-उत्सेकिनी
यान्ति एवं गृहिणी-पदं युवतयः वामाः कुलस्य आधयः ॥ १८ ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ शुश्रूषस्व शुश्रूष्  (?) आ. (= to listen to, to attend to, to serve) इति धातुः । तस्य लेट्-वेदे (आज्ञार्थे) द्वितीय-पुरुषे एकवचनम् च ।
२ गुरून् “गुरु” (= elderly, respectable, venerable) इति विशेषणम् । प्रायः पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३ कुरु “कृ” ८ उ. (= to do) इति धातुः । तस्य लेट्-आज्ञार्थे द्बितीय-पुरुषे एकवचनम् च ।
४ प्रिय-सखी-वृत्तिम्
४.१ प्रिया सखी = प्रियसखी । कर्मधारयः ।
४.२ प्रिया “प्रिय” (= loving) इति विशेषणम् । स्त्रीलिङ्गि “प्रिया” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४.३ सखी (= friend) इति स्त्रीलिङ्गि सामान्यनाम । सामासिक-शब्दस्य पदम् । अतः मूलरूपेण ।
४.४ प्रियसखिनः (इव) वृत्तिः । प्रियसखीवृत्तिः । षष्ठी-तत्पुरुषः ।
४.५ प्रियसखीवृत्तिम् “प्रियसखीवृत्ति” (= loving friendship) इति सामासिकं स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
५ स-पत्नी-जने ।
५.१ पतिः अस्याः अस्ति इति पत्नी ।
५.२ समानः पतिः यस्याः सा = सपत्नी । बहुव्रीहिः ।
५.३ सपत्नी एव जनः = सपत्नीजनः । कर्मधारयः ।
५.४ सपत्नीजने “सपत्नीजन” (= co-wife) इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचननम् च ।
६ भर्तृः “भर्तृ” (= husband) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
७ विप्रकृता = “वि + प्र + कृ” ८ उ. (= to do otherwise, to be improper, to be unnatural, to trouble, to harass) इति धातुः । तस्य कर्मणि-भूतकालवाचकं विशेषणम् “विप्रकृत” (= troubled, put into anguish) । अत्र स्त्रीलिङ्गि “विप्रकृता” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ अपि (= also) अव्ययम् ।
९ रोषणतया “रुष्” ४ प. (= to be angry) इति धातुः । तस्मात् भाववाचकं नाम “रोषणता” (= anger) । तस्य तृतीया विभक्तिः एकवचनम् च ।
१० मा (= do not) अव्ययम् ।
११ स्म “भवतु” (= may be) इति अर्थेण अव्ययम् ।
१२ प्रतीपम् “प्रति + इ” २ उ. (= to react) इति धातुः । तस्मात् “प”-प्रत्ययेन भाववाचकं नपुंसकलिङ्गि नाम “प्रतीप” (= improper reaction) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१३ गमः “गम्” १ प. (= to go) इति धातुः । तस्मात् “अ”-प्रत्ययेन भाववाचकं पुल्लिङ्गि नाम “गम” (= going)। तस्य प्रथमा विभक्तिः एकवचनम् च ।
१४ भूयिष्ठम् (= again) अव्ययम् ।
१५ भव “भू” १ प. (= to become) इति धातुः । तस्य लेट्-आज्ञार्थे द्बितीय-पुरुषे एकवचनम् च ।
१६ दक्षिणा “दक्ष्” १ प. (= To be courteous, To show respect) इति धातुः । तस्मात् “अन”-प्रत्ययेन विशेषणम् “दक्षिण” (= courteous) । स्त्रीलिङ्गि विशेषणम् दक्षिणा । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१७ परि-जने ।
१७.१ परि चरति अयं जनः (= person who moves about, person who attends) इति परिजनः (= attendants, aids, servants) । “परिजन” इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
१८ भाग्येषु “भाज्” ६ उ. (= to distribute, to allot) इति धातु: । तस्मात् “भाग्य” (= lot, attained by fortune) इति विध्यर्थि विशेषणम् तथा पुल्लिङ्गि सामान्यनाम च । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
१९ अन्-उत्सेकिनी |
१९.१ न उत्सेकिनी = अनुत्सेकिनी । नञ्-तत्पुरुषः ।
१९.२ उत्सेकिनी “उत्सेकः अस्याः अस्ति इति उत्सेकिनी” “उत्सेकिनी” (= eager) स्त्रीलिङ्गि विशेषणम् । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१९.३ उत्सेकः “उत्स”-इति करणम् = उत्सेकः । “उत्सेक” (= eagerness) इति भाववाचकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१९.४ अनुत्सेकिनी = not eager, not aspiring, not envying, not egotic
२० यान्ति “या” २ प. (= to go) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे बहुवचनम् च ।
२१ एवं (= thus) अव्ययम्।
२२ गृहिणी-पदं ।
२२.१ गृहिण्याः पदम् = गृहिणीपदम् । षष्ठी-तत्पुरुषः ।
२२.२ गृहिण्याः “गृहम् अस्ति अस्याः इति गृहिणी” “गृहिणी” (= household lady) इति स्त्रीलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
२२.३ पदम् “पद” (= status) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२२.४ गृहिणीपदम् = status of a household lady
२३ युवतयः “युवती” (= young girl) इति स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२४ वामाः “वाम” (= left, inappropriate) इति विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२५ कुलस्य “कुल” (= family) इति सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
२६ आधयः “आधि” (= headache) इति सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

४ अन्वयाः अनुवादाः च ।

गुरून् शुश्रूषस्व | = Attend to elders (with veneration and respects)
स-पत्नी-जने प्रिय-सखी-वृत्तिं कुरु | = Cultivate good freindship with co-wives
भर्तृः विप्रकृता अपि रोषणतया प्रतीपं गमः मा स्म | = (Even if) troubled (or put into anguish) by husband, do not get into improper reaction
भूयिष्ठं परि-जने दक्षिणा भव | = Again, be courteous with attendants
भाग्येषु अन्-उत्सेकिनी (भव) | = Don’t be egotic with your lot, nor be envious of other’s lot
एवं युवतयः गृहिणी-पदं यान्ति | = (Only) thus young girls get the status of (respectable) house-hold ladies
वामाः कुलस्य आधयः (भवन्ति) | = Inappropriate ones become headache for the family.

५ टिप्पणयः ।

1 अत्र शार्दूलविक्रीडितम् छन्दः ।

2 “प्रतीपं गमः मा स्म” is a special construction in Sanskrit.  We find a similar phrase in the third shloka of second chapter of श्रीमद्भगवद्गीता –
क्लैब्यं मा स्म गमः पार्थ नैतत्वैय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥ २-३ ॥

3 This verse is an advice by कण्व-मुनि to शकुन्तला on how she should conduct herself in husband’s household.

4 The message is of course what every father of a bride would like to say to his daughter.

5 Can there be any better advice ?

6 Maybe, even long-married ladies should remind and re-remind themselves by re-reading this shloka every now and then and should groom their daughters also accordingly. Advices like these make culture संस्कृति to be passed on from generation to generation. No doubt this shloka is among the famous four.

शुभमस्तु ।

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s