Learning Sanskrit by fresh approach – Lesson 43

Learning Sanskrit by fresh approach – Lesson 43
संस्कृतभाषायाः नूतनाध्ययनस्य त्रिचत्वारिंशः (४३) पाठः ।

महाकवेः कालिदासस्य अभिज्ञानशाकुन्तलस्य चतुर्थाङ्के यत् सम्मानितम् श्लोकचतुष्टयम् तस्य अयं द्वितीयः श्लोकः –

अस्मान् साधु विचिन्त्य संयमधनानुच्चं कुलं चात्मनस्
त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम्
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ १६ ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

अस्मान् साधु विचिन्त्य संयम-धनान् उच्चं कुलं च आत्मनः
त्वयि अस्याः कथं अपि अ-बान्धव-कृतां स्नेह-प्रवृत्तिं च ताम्
सामान्य-प्रतिपत्ति-पूर्वकम् इयं दारेषु दृश्या त्वया
भाग्य-आयत्तम् अतः परं न खलु तत् वाच्यं वधू-बन्धुभिः ॥ १६ ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।
१ अस्मान् “अस्मद्” (= Pronoun of first person, I, we) इति प्रथम-पुरुषि लिङ्गभेद-विरहितम् सर्वनाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
२ साधु (= good)
३ विचिन्त्य “वि + चिन्त्” १० उ. (= to think, to consider, to be mindful) इति धातुः । तस्य ल्यबन्तम् अव्ययम् “विचिन्त्य” (= keeping in mind)
४ संयम-धनान् ।

  • ४.१ संयमः (एव) धनम् येषां ते = संयमधनाः । बहुव्रीहिः ।
  • ४.२ संयमः “सम् + यम्” १ प. (= to control oneself) इति धातुः । तस्मात् “अ”-प्रत्ययेन भाववाचकम् पुल्लिङ्गि नाम “संयम” (= self-control) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ४.३ धनम् “धन” (= wealth) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ४.४ संयमधनान् “संयमधन” (= owning wealth of self-control) इति विशेषणम्  । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

५ उच्चम् “उच्च” (= high, exalted) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।तस्य प्रथमा विभक्तिः एकवचनम् च ।
६ कुलम् “कुल” (= family) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
७ च (= and) अव्ययम् ।
८ आत्मनः “आत्मन्” (= self) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
९ त्वयि “युष्मद्” (= Pronoun of second person, you) इति द्वितीय-पुरुषि लिङ्गभेद-विरहितम् सर्वनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
१० अस्याः “अयम्” (= pronoun ‘this’) इति सर्वनाम । अत्र स्त्रीलिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
११ कथमपि ।

  • ११.१ कथम् च अपि च = कथमपि । समाहारद्वन्द्वः ।
  • ११.२ कथम् (= how) अव्ययम् ।
  • ११.३ अपि (= also) अव्ययम् ।
  • ११.४ कथमपि (= somehow) अव्ययम् ।

१२ अ-बान्धव-कृताम्

  • १२.१ बान्धवैः कृता = बान्धवकृता । तृतीया-तत्पुरुषः ।
  • १२.२ बान्धवकृता न = अबान्धवकृता । नञ्-तत्पुरुषः ।
  • १२.३ बान्धवैः “बन्धुत्वम् अस्य इति बान्धवः” । “बान्धव” (= brother, relative) इति पुल्लिङ्गि सामान्यनाम । तस्य तृतीया विभक्तिः बहुवचनम च ।
  • १२.४ कृताम् “कृ” ८ उ. (= to do) इति धातुः । तस्मात् कर्मणि-भूतकालवाचकं विशेषणम् “कृत” (= done) । अत्र स्त्रीलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • १२.५ अ-बान्धवकृता (= not done by relatives) ।

१३ स्नेह-प्रवृत्तिम् ।

  • १३.१ स्नेहस्य प्रवृत्तिः = स्नेहप्रवृत्तिः । षष्ठी-तत्पुरुषः ।
  • १३.२ स्नेहस्य “स्निह्” ४ प. (= to love, to affect, to attach) इति धातुः । तस्मात् भाववाचकं पुल्लिङ्गि तथा नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १३.३ प्रवृत्तिम् “प्र + वृत्” १ आ. (= to motivate, to excite) तस्मात् भाववाचकं स्त्रीलिङ्गि नाम “प्रवृत्ति” (= motivation, excitement) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • १३.४ स्नेह-प्रवृत्तिः (= excitement of love, infatuation)

१४ ताम् “तत्” (= that) इति सर्वनाम । अत्र स्त्रीलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१५ सामान्य-प्रतिपत्ति-पूर्वकम् ।

  • १५.१ सामान्य “अन्येन सम इति सामान्य” (= common, usual, appropriate) इति विशेषणम् । अत्र सामासिक-शब्दस्य पदम् । अतः मूलरूपेण ।
  • १५.२ सामान्या प्रतिपत्तिः = सामान्यप्रतिपत्तिः । कर्मधारयः ।
  • १५.३ प्रतिपत्तिः “प्रति + पत्” १ प. (= literally, to fall in front of, to respect) इति धातुः । तस्मात् स्त्रीलिङ्गि भाववाचकं नाम “प्रतिपत्ति” (= honour, respect, mark of distinction) ।
  • १५.४ पूर्वकम् “यथा पूर्वम् इति पूर्वकम्” (= attended with) इति अव्ययम् ।
  • १५.५ सामान्य-प्रतिपत्ति-पूर्वकम् = attended with appropriate honour

१६ इयम् “अयम्” (= this) इति सर्वनाम । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१७ दारेषु “दारा” (= wife, queen of a king) इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः बहुवचनम् च । एतन्नाम अपवादात्मकम्, यतः अस्य अर्थः स्त्रीलिङ्गी तथापि अस्य लिङ्गम् पुल्लिङ्गि तथा वचनम् अपि सदैव बहुवचनम् ।
१८ दृश्या “दृश्” १ प. (= to see) इति धातुः । तस्मात् “य”-प्रत्ययेन विध्यर्थि विशेषणम् “दृश्य” (= ) । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१९ त्वया “युष्मद्” (= Pronoun of second person, you) इति द्वितीय-पुरुषि लिङ्गभेद-विरहितम् सर्वनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
२० भाग्य-आयत्तम् ।

  • २०.१ भाग्येन आयत्तम् = भाग्यायत्तम् । तृतीया-तत्पुरुषः ।  अथवा
  • २०.१.१ भाग्यात् आयत्तम् = भाग्यायत्तम् । पञ्चमी-तत्पुरुषः
  • २०.२ भाग्येन “भाज्” १० उ. (= to divide, distribute) इति धातुः । तस्मात् विध्यर्थि विशेषणम् भाववाचकं नपुंसकलिङ्गि नाम च “भाग्य” (= fate, one’s lot) । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • २०.३ आयत्तम् “आ + यम्” १ प. (= to receive, to get) इति धातुः । तस्मात् कर्मणि-भूतकालवाचकम् विशेषणम् “आयत्त” (= what is received) ।

२१ अतः-परम् ।

  • २१.१ अतः च परम् च = अतःपरम् । समाहार-द्वन्द्वः ।
  • २१.२ अतः (= hence) अव्ययम् ।
  • २१.३ परम् “पर” (= other, forth) इति विशेषणम् । तस्मात् अव्ययम् “परम्” (= ) ।
  • २१.४ अतःपरम् (= henceforth, whatever else, whatever further)

२२ न (= not) अव्ययम् ।
२३ खलु (= truely) अव्ययम् ।
२४ तत् (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२५ वाच्यम् “वच्” १ प. (= to say, to speak of) इति धातुः । तस्मात् विध्यर्थि विशेषणम् “वाच्य” (= to be said) । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२६ वधू-बन्धुभिः ।

  • २६.१ वधुनः बन्धुः = वधूबन्धुः । षष्ठी-तत्पुरुषः ।
  • २६.२ वधुनः “वधू” (= bride) इति स्त्रीलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २६.३ बन्धुभिः “बन्धु” (= brother, relative) इति पुल्लिङ्गि सामान्यनाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।

४ अन्वयाः अनुवादाः च ।
अस्मान् संयम-धनान् = we, for whom self-control is ‘value’ or self-restraint is wealth
आत्मनः उच्चम् कुलं च = exalted family of (your) own
अस्याः त्वयि कथमपि अ-बान्धव-कृतां स्नेह-प्रवृत्तिं ताम् च = the infatuation she somehow had with you, without (the knowledge, approval of) her relatives
साधु विचिन्त्य = with due diligence i.e. on according due consideration
त्वया इयं दारेषु सामान्य-प्रतिपत्ति-पूर्वकम् दृश्या = you should see that this (ShakuntalA) to get equal respect (as is accorded to your other queens)
अतः-परम् भाग्य-आयत्तम् = Whatever else will happen, will be as per fate
तत् वधू-बन्धुभिः न वाच्यं खलु = that is not to be said by relatives of the bride

Overall meaning –

You should accord due consideration to (1) we are people, who highly regard self-restraint as wealth (2)  you belong to an exalted family (3) she became infatuated with you without knowledge and approval of her relatives.
You should (hence) see that this (ShakuntalA) gets equal respect as is accorded to (your) other queens)
Whatever further will happen, will be as per fate.
That is not to be said by relatives of the bride.

५ टिप्पणयः ।

१ अत्र शार्दूलविक्रीडितम् छन्दः ।

2 This verse is a message by कण्व-मुनि addressed to King दुष्यन्त. कण्व-मुनि told the message to shArngarava, who was to escort शकुन्तला to दुष्यन्त’s courts.

3 The message is almost what father of a bride would like to say to his daughter’s in-laws.

4 कण्व-मुनि as foster father of शकुन्तला is in the embarassing situation that शकुन्तला was pregnant and दुष्यन्त had not kept his promise to send for her. All this had happened wthout his knowledge. Yet by his message he wanted to ensure that शकुन्तला gets the respect deserving for a queen.

5 कण्व-मुनि was also well aware that being a muni, he did not possess resources to provide for a congenial initial acquaintance for the girl in a new strange household, that too, in this case, in a king’s palace. That must have been the basic concept of dowry. One feels it weird, how a good basic concept has degenerated into an atrocious dowry-system !

6 कण्व-मुनि calling self-restraint ‘sanyama’ as wealth ‘dhana’, has also been interpreted to mean that as a muni, कण्व-मुनि had the powers to curse दुष्यन्त for having indulged into an act without his knowledge or approval The act indulged into was serious enough, because शकुन्तला had become pregnant. The situation was furthermore serious, because दुष्यन्त had not kept his promise. Yet कण्व-मुनि was exercising restraint.

7 Speaking of self-restraint by a person with powers, another subhAShitam comes to mind, which has phrases “kShamA balavatAm” meaning, to pardon is adornment for the strong and “shauryasya vAk-sanyamo” meaning restraint of speech is adornment for the brave and strong. We shall study that in due course.

8 कण्व-मुनि saying “Whatever further will happen will be by fate”, has been interpreted to mean that being a muni, कण्व-मुनि could foresee the future. But he did not want to speak about it. He made that into a general statement that, relatives of the bride should not worry themselves with anxieties of the future and should not speak about it all.

9 The very first word of the verse has कण्व-मुनि referring to himself in plural and the mention in the first line is of wealth. The whole strategy seems to be that कण्व-मुनि wanted king दुष्यन्त to receive the message with due respects. Mention of self-restraint as wealth was also in line with that strategy. If शकुन्तला had suffered a dent to her virginity, दुष्यन्त was also equally responsible for it.

10 Is there really the need to discuss why this verse is famous and popular ? It has strategy, poise, self-respect, self-restraint, awareness of social customs, consciousness of one’s strengths and weaknesses (SWOT analysis ?) including T of SWOT, the threats what कण्व-मुनि could foresee ! It has all the sentiments and sensibilities of a father figure, sending his daughter to her husband’s place.

शुभमस्तु ।

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s