Learning Sanskrit by fresh approach – Lesson 42

Learning Sanskrit by fresh approach – Lesson 42
संस्कृतभाषायाः नूतनाध्ययनस्य द्विचत्वारिंशः (४२) पाठः ।

In the टिप्पणयः in previous lesson, mention was made of four shlokaaH श्लोकचतुष्टयम् in Act 4 चतुर्थोऽङ्कः in अभिज्ञानशाकुंतलम् by महाकविः कालिदासः | Very promptly Mr. Vasu Shrinivasan responded saying, “शाकुन्तलस्य श्लोकचतुष्टयम् च् पठितुं प्रतीक्षां करोमि |”.  Actually, I too have not read the श्लोकचतुष्टयम् । in good detail. So, suggestion of Mr. Vasu Shrinivasan proved as a good motivation to read and study them. Before going into the study of the shlokaH, it is necessary to know the background.

Briefly the story of the play is that शकुन्तला the heroine of the play was born of विश्वामित्रऋषिः and मेनका the celestial beauty (अप्सरा) Disowned by both of them the child was being looked after by a pair of birds शकुन्तपक्षिद्वयेन | कण्वमुनिः (alias काश्यपः) happened to notice the child. He brought the baby to his आश्रम and brought her up.

Once राजा दुष्यन्तः in his gaming sojourn, reached आश्रम of कण्वमुनि and was charmed by the beauty of शकुन्तला | He indulged in गान्धर्व-विवाहः with शकुन्तला  गान्धर्व-विवाहः is a marriage by a custom permissible to Gandharvas, the celestial beings. राजा दुष्यन्तः promised to send for her. But he faltered in his promise. शकुन्तला became pregnant and had to be sent to दुष्यन्त This shlokaH expresses the distrot condition of कण्वमुनि due to going away of शकुन्तला

Here is the shlokaH –

यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया ।
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः ।
पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैर्नवैः ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

यास्यति अद्य शकुन्तला इति हृदयं संस्पृष्टम् उत्कण्ठया ।
कण्ठः स्तम्भित-बाष्प-वृत्ति-कलुषः चिन्ता-जडं दर्शनम् ।
वैक्लव्यं मम तावत् ईदृशं इदं स्नेहात् अरण्य-ओकसः ।
पीड्यन्ते गृहिणः कथं न तनया-विश्लेष-दुःखैः नवैः ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ यास्यति “या” २ प.(= To go) इति धातुः । तस्य लुट्-भविष्यकाले तृतीयपुरुषे एकवचनम् ।
२ अद्य (= today) कालवाचकमव्ययम् ।
३ शकुन्तला (= Name of the heroine of this play) स्त्रीलिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४ इति (= Hence) अव्ययम् ।
५ हृदयम् “हृदय” (= heart) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
६ संस्पृष्टम् “सम् + स्पृश्” ६ प. (= To touch) इति धातुः । तस्य कर्मणि-भूतकालवाचक-विशेषणम् “संस्पृष्ट” (= touched, overcome with) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
७ उत्कण्ठया “उत्कण्ठा” (= anxiety) इति स्त्रीलिङ्गि भाववाचकं नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
८ कण्ठः “कण्ठ” (= throat) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
९ स्तम्भित-बाष्प-वृत्ति-कलुषः ।

  • ९.१ बाष्पस्य वृत्तिः = बाष्पवृत्तिः | षष्ठी-तत्पुरुषः ।
  • ९.२ बाष्पस्य “बाष्प” (= vapour) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • पर्यायी अर्थः –
  • ९.२.१ बाष्पम् (= wetness) In this optional meaning wetness is of eyes due to tears
  • ९.३ वृत्तिः “वृत्” १ आ. (= to become, to happen, to go around) इति धातुः । तस्मात् “इ”-प्रत्ययेन भाववाचकं स्त्रीलिङ्गि नाम “वृत्ति” (= tendency, becoming) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.४ बाष्पवृत्तिः = tendency of becoming dry like vapour
  • पर्यायी अर्थः –
  • ९.४.१ बाष्पवृत्तिः = tendency of tears coming in eyes
  • ९.५ स्तम्भिता बाष्पवृत्तिः = स्तम्भितबाष्पवृत्तिः । कर्मधारयः ।
  • ९.६ स्तम्भिता “स्तम्भ्” १ आ. तथा ५, ९ प. (= stand still) इति धातुः । तस्य कर्मणि-भूतकालवाचक-विशेषणम् “स्तम्भित” (= benumbed, choked) । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.७ स्तम्भितबाष्पवृत्तिः = choked due to tendency of becoming dry like vapour
  • पर्यायी अर्थः –
  • ९.७.१ स्तम्भितबाष्पवृत्तिः = choked due to stopping tears coming to eyes.  Elderly men would not like tears to be seen. An effort to stop the tears would cause the throat to become choked
  • ९.८ स्तम्भितबाष्पवृत्तिना कलुषम् = स्तम्भितबाष्पवृत्तिकलुषम् । तृतीया-तत्पुरुषः ।
  • ९.९ कलुषम् “कलुष” (= muddy, foul) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.१० स्तम्भितबाष्पवृत्तिकलुषः (= choked and husky)

१० चिन्ताजडम् ।

  • १०.१ चिन्तया जडम् = चिन्ताजडम् । तृतीया-तत्पुरुषः ।
  • १०.२ चिन्तया “चिन्ता” (= anxiety, worry) इति भाववाचकम् स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • १०.३ जडम् “जड” (= heavy, non-moving, askance) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

११ दर्शनम् “दृश्” १ प. (= to see) इति धातुः । तस्मात् “अन”-प्रत्ययेन नपुंसकलिङ्गि नाम “दर्शन” (= vision) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१२ वैक्लव्यम् “वि + क्लव्” ४ आ. (= to fear, to become distrot) धातुः । तस्मात् “व्य”-प्रत्ययेन नपुंसकलिङ्गि भाववाचकम् नाम “वैक्लव्य” (= becoming distrot)। तस्य प्रथमा विभक्तिः एकवचनम् च ।
१३ मम “अस्मद्” (= I, we) इति प्रथमपुरुषीयं सर्वनाम । अस्य लिङ्गभेदः न अस्ति । तथापि अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१४ तावत् (= until, idiomatically “even”) इति अव्ययम् ।
१५ ईदृशम् “इत्थं दृश्यते इति ईदृशम्” “ईदृश” (= like this) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१६ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । प्रथमा विभक्तिः एकवचनम् च ।
१७ स्नेहात् “स्निह्” ४ प. (= to love, to attach, to affect) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “स्नेह” (= love, affection) । तस्य पञ्चमी विभक्तिः एकवचनम् च ।
१८ अरण्य-ओकसः ।

  • १८.१ अरण्ये ओकः यस्य सः = अरण्यौकस् । बहुव्रीहिः।
  • १८.२ अरण्ये “अरण्य” (= forest, jungle) इति नपुंसकलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • १८.३ ओकः “ओकस्” (= staying, residence) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १८.४ अरण्यौकसः “अरण्यौकस्” (= living in forest) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

१९ पीड्यन्ते “पीड्” १० उ. (= to torment) इति धातुः । तस्य कर्मणि-प्रयोगः अतः आत्मनेपदम् । लट्-वर्तमाने तृतीय-पुरुषे बहुवचनम् च ।
२० गृहिणः (गृहम् अस्य अस्ति इति गृह + इन् =) “गृहिन्” (= a householder) इति विशेषणात्मकं सामान्यनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
२१ कथम् (= how) अव्ययम् ।
२२ न (= not) अव्ययम् ।
२३ तनया-विश्लेष-दुःखैः ।

  • २३.१ तनयया विश्लेषः = तनयाविश्लेषः । तृतीया-तत्पुरुषः ।
  • २३.२ तनयया “तनया” (= daughter) इति स्त्रीलिङ्गि सामान्यनाम । तस्य तृतीया विभक्तिः एकवचनम् च।
  • २३.३ विश्लेषः “वि + श्लिष्” ४ प. (= To separate) इति धातुः । तस्मात् भाववाचकं पुल्लिङ्गि नाम “विश्लेष” (= separation)। तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २३.४ तनयाविश्लेषस्य दुःखम् = तनयाविश्लेषदुःखम् । षष्ठी-तत्पुरुषः ।
  • २३.५ तनया-विश्लेष-दुःखैः “तनया-विश्लेष-दुःख” (= sorrow of separation of daughter) । तस्य तृतीया विभक्तिः बहुवचनम् ।

२४ नवैः “नव” (= new, strange) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य तृतीयाविभक्तिः बहुवचनम् च ।

४ अन्वयाः अनुवादाः च ।
४.१ अद्य शकुन्तला यास्यति इति उत्कण्ठया हृदयं संस्पृष्टम् (अस्ति) । My mind is touched because of the anxiety that Shakuntala will leave today
४.२ कण्ठः स्तम्भित-बाष्प-वृत्ति-कलुषः (अस्ति) । My throat is choked due to drying up of all wetness (or due to the effort to stop tears coming into eyes
४.३ दर्शनम् चिन्ता-जडं (अस्ति) । Anxiety has stilled my vision
४.४ स्नेहात् मम अरण्यौकसः तावत् ईदृशं इदं वैक्लव्यं (अस्ति) । Even for a person like me staying in a forest, I am so much distrot
४.५ नवैः तनया-विश्लेष-दुःखैः गृहिणः कथं न पीड्यन्ते ? Will not parents and family-members become distrot by such strange pangs of separation of a daughter ?

५ टिप्पणयः ।

1 Phrases here remind of the conditions experienced by Arjuna on the battlefield. Here are comparative phrases from श्रीमद्भगवद्गीता

  • स्तम्भित-बाष्प-वृत्ति-कलुषः कण्ठः See मुखं च परिशुष्यति (१-२९)
  • उत्कण्ठया हृदयं संस्पृष्टम् See कृपया परयाविष्टो विषीदन् (१-२७)
  • मम वैक्लव्यम् See भ्रमतीव च मे मनः (१-३०) also भयेन च प्रव्यथितम् मनो मे (११-४५)

2 Ashramas in those days, although away from inhabited communities were almost like families. Shakuntala had her friends. KaNva-muni deputed his disciples शार्ङ्गरव and to escort Shakuntala to DuShyanta’s court. There was an elderly lady Gautamee, who took motherly care of all residents of the Ashrama. Because of such environment in the Ashrama, it becomes appropriate for KaNva-muni to say that even though he was अरण्यौकस् with Shakuntala’s leaving, he was feeling the pangs of separation.
3 It is a famous shlokaH, primarily because it is so sentimentally replete. It is famous also because of KaNva-muni expressing empathy with all house-holders. This shloka will make all parents and guardians reminisce the pangs and anxieties, they experienced, when daughters bid good-bye to go to their husband’s household.
4 The phrase कथं न पीड्यन्ते ? has the combination of negation and interrogation. The combination makes it into a firm, positive statement पीड्यन्ते एव ।
5 “Family” is a very important social institution. If divorces are rampant in a society, does it become a good society with all the goodness of sensibilities of family bonds ?
6 The meter here is शार्दूलविक्रीडितम् |

शुभमस्तु ।

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s