Learning Sanskrit by fresh approach – Lesson 40

Learning Sanskrit by fresh approach – Lesson 40

संस्कृतभाषायाः नूतनाध्ययनस्य चत्वारिंशः (४०) पाठः ।

In Lesson # 38, we studied a सुभाषितम् from मालविकाग्निमित्रम् The opening श्लोकः in मालविकाग्निमित्रम् also makes a good study. It eulogises नाट्यम्  as art-form –

देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषम्  |

रुद्रेणेदमुमाकृतव्यतिकरे  स्वाङ्गे विभक्तं द्विधा |

त्रैगुण्योद्भवमत्र  लोकचरितं नानारसं दृश्यते |

नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्  ||

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा |

देवानां इदम् आमनन्ति मुनयः कान्तं क्रतुं चाक्षुषम् |

रुद्रेण इदम् उमा-कृत-व्यतिकरे स्व-अङ्गे विभक्तं द्विधा |

त्रैगुण्य-उद्भवं अत्र लोक-चरितं नाना-रसं दृश्यते |

नाट्यं भिन्न-रुचेः जनस्य बहुधा अपि एकं समाराधानम्  ||

२. समासानां विग्रहाः तथा शब्दानां व्युत्पत्तयः विश्लेषणानि  च |

१ देवानाम् ‘देव’ (= God) इति पुल्लिङ्गि  सामान्यनाम | तस्य षष्ठी विभक्तिः, बहुवचनम् च |

२ इदम् ‘इदम्’ (= this) इति सर्वनाम | अत्र नपुंसकलिङ्गि | तस्य द्वितीया विभक्तिः एकवचनम् च |

३ आमनन्ति ‘आ + मन्’ १ प. (= to regard) इति धातुः | अत्र परस्मैपदी | तस्य लट्-वर्तमाने, तृतीय-पुरुषे बहुवचनम् |

४ मुनयः ‘मुनि’ (= sage) इति पुल्लिङ्गि सामान्यनाम | तस्य प्रथमा विभक्तिः बहुवचनम् च |

Most prominent faculty of a मुनि is mind मन the faculty of doing intense meditation, deliberation मननम्  makes one a मुनि

५ कान्तम् ‘कम्’ १ आ. (= to be enamoured with) इति धातुः | तस्य ‘त’-प्रत्ययेन कर्मणि भूतकालवाचकं विशेषणम् | अत्र पुल्लिङ्गि  | तस्य द्वितीया विभक्तिः एकवचनम् च |

६ क्रतुम् ‘क्रतु’ (= ceremonial sacrifice, yagya) इति पुल्लिङ्गि  सामान्यनाम | तस्य द्वितीया विभक्तिः एकवचनम् च |

७ चाक्षुषम् ‘चक्षु’ (= eye) इति पुल्लिङ्गि  सामान्यनाम  | तस्मात् ‘चाक्षुष’ (= to be enjoyed by eyes) इति विशेषणम् | अत्र पुल्लिङ्गेन | तस्य द्वितीया  विभक्तिः एकवचनम् च |

८ रुद्रेण ‘रुद्’ २ प. (= to cry due to fear) इति धातुः | तस्मात् ‘र’-प्रत्ययेन प्रयोजक-भावकं विशेषणम् ‘रुद्र’ (= causing crying due to fear, fearsome) इति सामान्यतः विशेषणम् तदेव शिवस्य नाम इति संमतम् | अतः ‘रुद्र’ (= epithet of Shiva, name of 11 inferior manifestations of Shiva. See in 10-23 in श्रीमद्भगवद्गीता “रुद्राणां शंकरश्चास्मि”) इति पुल्लिङ्गि  विशेषनाम | तस्य तृतीया विभक्तिः एकवचनम् च |

९ उमा-कृत-व्यतिकरे ।

९.१ उमया कृतः = उमाकृतः | तृतीया-तत्पुरुषः ।

९.२ उमाकृतः व्यतिकरः = उमाकृतव्यतिकरः | कर्मधारयः | तस्मिन् ।

९.३ उमया | ‘उमा’ (= wife of Shiva) इति स्त्रीलिङ्गि विशेषनाम | तस्य तृतीया विभक्तिः एकवचनम् च |

९.४ कृतः ‘कृ’ ८ उ. (= to do) इति धातुः | तस्मात् ‘त’-प्रत्ययेन कर्मणि भूतकालवाचकं विशेषणम् “कृत” (= done) | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |

९.५ व्यतिकरे ‘वि + अति + कृ’ विशेषेण अतिशयतया च कृ (= to do special intimate act, to marry) इति धातुः | तस्मात् ‘अस्’-प्रत्ययेन करण-वाचकं नाम | तस्य सप्तमी विभक्तिः एकवचनम् च |

१० स्वाङ्गे ।

१०.१ स्वं अङ्गं = स्वाङ्गम्  | कर्मधारयः | तस्मिन् ।

१०.२ स्वम् ‘स्व’ (= own, of oneself) इति सार्वनामिकं विशेषणम् | अत्र नपुंसकलिङ्गि  | तस्य प्रथमा विभक्तिः एकवचनम् च |

१०.३ अङ्गे ‘अङ्ग’ (= body) इति नपुंसकलिङ्गि सामान्यनाम | तस्य सप्तमी विभक्तिः एकवचनम् च |

११ विभक्तम्  “वि + भज्” १ उ. (= to divide) इति धातुः | तस्मात् ‘त’-प्रत्ययेन कर्मणि भूतकालवाचकं विशेषणम् | अत्र नपुंसकलिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |

१२ द्विधा ‘द्वि’ (= two) इति संख्यावाचकं विशेषणम् | तस्मात् ‘धा’-प्रत्ययेन क्रियाविशेषणम् ‘द्विधा’ (= in two aspects, two-fold, in two ways) इति अव्ययम् |

१३ त्रैगुण्योद्भवम् |

१३.१ गुणानां त्रयं = त्रैगुण्यम् | द्विगु-समासः |

१३.२ त्रैगुण्यात् उद्भवः यस्य तत् = त्रैगुण्योद्भवम् | षष्ठी-बहुव्रीहिः | अथवा त्रैगुण्यस्य उद्भवः यस्मात् तत् = त्रैगुण्योद्भवम् | पञ्चमी-बहुव्रीहिः ।

१३.३ गुणानाम् ‘गुण’ (= quality) इति पुल्लिङ्गि सामान्यनाम | तस्य षष्ठी विभक्तिः बहुवचनम् च |

१३.४ त्रयम् ‘त्रि’ (= three) इति संख्यावाचकं विशेषणम् | तस्मात् ‘य’-प्रत्ययेन ‘त्रय’ (= group of three) इति नपुंसकलिङ्गि सामान्यनाम | तस्य प्रथमा विभक्तिः एकवचनम् च |

१३.५ त्रैगुण्यात् ‘त्रैगुण्य’ (= group of three (grades of) qualities) इति नपुंसकलिङ्गि सामान्यनाम | तस्य पञ्चमी विभक्तिः एकवचनम् च |

१३.६ उद्भवः “उत् + भू” १ प. (= to emanate from) इति धातुः | तस्मात् ‘अस्’-प्रत्ययेन भाववाचकं पुल्लिङ्गि नाम ‘उद्भव’ (= genesis, arising, creation) | तस्य प्रथमा विभक्तिः एकवचनम् च |

१३.७ त्रैगुण्योद्भवम् ‘त्रैगुण्योद्भव’ (= emanating from (or causing emanation of) group of three (grades of) qualities) इति विशेषणम् | अत्र नपुंसकलिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |

१४ अत्र (= here) अव्ययम् ।

१५ लोक-चरितम् ।

१५.१ लोकस्य चरितम् = लोक-चरितम् | षष्ठी-तत्पुरुषः |

१५.२ लोकस्य ‘लोक’ (= people, populace) इति पुल्लिङ्गि सामान्यनाम | तस्य षष्ठी विभक्तिः एकवचनम् च |

१५.३ चरितम् “चर्” १ प. (= to move, to live) इति धातुः | तस्मात् ‘त’-प्रत्ययेन karmaNi भूतकालवाचकं विशेषणम् अथवा करणात्मकं नपुंसकलिङ्गि नाम ‘चरित’ | तस्य प्रथमा विभक्तिः एकवचनम् च ।

१६ नानारसम्  |

१६.१ नाना रसाः यस्य तत् = नानारसम्  | बहुव्रीहिः |

१६.२ नाना (= various) इति विशेषणात्मकं अव्ययम् |

१६.३ रसाः ‘रस’ (= mood, taste) इति पुल्लिङ्गि सामान्यनाम | तस्य प्रथमा विभक्तिः बहुवचनम् च |

१६.४ नानारसम् ‘नानारस’ (= having variety of moods, tastes) इति विशेषणम् | अत्र नपुंसकलिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च  |

१७ दृश्यते ‘दृश्’ १ प. (= to see) इति धातुः | तस्य कर्मणि-प्रयोगे तेन आत्मनेपदी | तस्य लट्-वर्तमाने तृतीय-पुरुषे एकवचनम् |

१८ नाट्यम् ‘नट्’ १ प. (= to enact) इति धातुः | तस्मात् ‘य’-प्रत्ययेन विध्यर्थि विशेषणम् | अत्र नपुंसकलिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |

१९ भिन्नरुचेः |

१९.१ भिन्नाः रुचयः यस्य सः = भिन्नरुचिः | बहुव्रीहिः | तस्य |

१९.२ भिन्नाः ‘भिद्’ १ प. ७ उ. (= to divide into parts, to break) इति धातुः । तस्मात् कर्मणि भूतकालवाचकं विशेषणम् ‘भिन्न’ (= different) | अत्र स्त्रीलिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनम् च |

१९.३ रुचयः ‘रुचि’ (= taste) इति स्त्रीलिङ्गि सामान्यनाम | प्रथमा विभक्तिः एकवचनम् च |

१९.४ भिन्नरुचेः ‘भिन्नरुचि’ (= having different tastes) इति विशेषणम् | अत्र पुल्लिङ्गि | तस्य षष्ठी विभक्तिः एकवचनम् च |

२० जनस्य ‘जन’ (= people) इति पुल्लिङ्गि सामान्यनाम | तस्य षष्ठी विभक्तिः एकवचनम् च |

२१ बहुधा “बहु” (= many) इति अनिश्चित-संख्या-विशेषणम् | तस्मात् “धा”-प्रत्ययेन ‘बहुधा’ (= in many ways, mostly) इति अव्ययम् |

२२ एकम् ‘एक’ (= one) इति संख्याविशेषणम् | अत्र नपुंसकलिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |

२३ समाराधनम् “सम् + आ + राध्” ५ प. (= to please, often as by prayer) इति धातुः | तस्मात् ‘अन’-प्रत्ययेन भाववाचकं नपुंसकलिङ्गि नाम “समाराधन” (= pleasure often from a prayer) | तस्य प्रथमा विभक्तिः एकवचनम् च |

३ अन्वयाः अनुवादाः च ।

अनुक्र. अन्वयाः अनुवादाः
इदम् देवानाम् कान्तम् चाक्षुषं क्रतुम् (इति) मुनयः आमनन्ति | मुनयः regard this as a ceremonial sacrifice having pleasant appeal to the eyes and desired also by Gods
रुद्रेण इदम् उमा-कृत-व्यतिकरे स्व-अङ्गे द्विधा विभक्तम् | शिव by his communion with उमा made it as two aspects on his own body
त्रैगुण्य-उद्भवम् लोक-चरितम् अत्र नाना-रसम् दृश्यते | People’s characters and interests are of a large variety, because of their genesis from three types of qualities
भिन्न-रुचेः जनस्य अपि बहुधा नाट्यम् एकम् समाराधनम् | Even if likings of people are varied, dramatics is yet a common entertainment.

४ टिप्पणयः ।

१ मुनि is defined in श्रीमद्भगवद्गीता as

दुःखेष्वनुद्विग्नमनाः सुखेषु विगत-स्पृहः |

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६ ॥

२ The two types of नाट्य-भावौ manifesting on शिव’s body are called as लास्य (feminish) and ताण्डव (manly). In this form शिव is called as अर्ध-नारी-नटेश्वरः (= half-feminish God in dancing pose)

३ नाट्य is detailed as a holistic science in नाट्यशास्त्रम् by भरतमुनिः | As can be understood, a drama has many aspects – the dramatist, the actors, costumes and make-ups, singing, music, dance, the stage-design including the back-drops and lighting, the auditorium and its design, etc.

४ Some people focused only on the dance aspect and cultivated into a dance style known as भरतनाट्यम् । This style is mostly practiced in Tamilnadu in Southern India. There are many regional dance styles such as मोहिनीआट्टम् in Kerala, कुचिपुडी in Andhra, उडीसी in Orissa. One may find most of these four dance styles fairly similar to each other. But there are other folk-dance styles such as कथकली in Kerala, which is quite distinct by the facial masking. The कथक evolved as dance of courtesans during the Mughal reign more specifically in courts of Nawabs in Northern India.

५ It is regarded that among संस्कृत dramas the best is अभिज्ञानशाकुन्तलम्  by कालिदास. This has been made into an all-time statement by the श्लोकः –

काव्येषु नाटकम् रम्यम् तत्र रम्या शकुन्तला |

तत्रापि चतुर्थोऽङ्कः तत्र श्लोकचतुष्टयम् ||

Maybe, we should study that श्लोकचतुष्टयम् also in one of our lessons, since it has been so much eulogized.

६ वृत्तम् here is शार्दूलविक्रीडितम्  having 19 syllables in each line and गणाः – म स ज स त त ग ।

शुभमस्तु |

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s