Learning Sanskrit by a fresh approach – Lesson 39

Learning Sanskrit by a fresh approach – Lesson 39
संस्कृतभाषायाः नूतनाध्ययनस्य नवत्रिंशः (३९) पाठः ।
 

In the previous lesson, we had the mention of the poetic axiom, that raindrops falling in a sea-shell become pearls. In टिप्पणयः it was also noted that the axiom more comprehensively presumes that the raindrops should be of the rains, when the constellation in the sky is स्वाती. This detail of the axiom is seen in the following सुभाषितम् –

सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते
प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥

१. सन्धिविच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

सन्तप्त-अयसि संस्थितस्य पयसः नाम अपि न ज्ञायते ।
मुक्ता-आकारतया तत् एव नलिनी-पत्र-स्थितं राजते ।
स्वात्यां सागर-शुक्ति-मध्य-पतितं सन्मौक्तिकं जायते ।
प्रायेण उत्तम-मध्यम-अधम-दशा संसर्गतः जायते ॥

२. समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणम् च ।

१. सन्तप्तायसि

१.१ सन्तप्तः अयः = सन्तप्तायः । कर्मधारयः । तस्मिन्
१.२ सन्तप्तः “सं + तप्” १ प. क्वचित् आ. ४ प. अपि (= to heat, to become hot) इति धातुः । तस्य ’त’-प्रत्ययेन कर्मणि भूतकालवाचकम् विशेषणम् “संतप्त” (=  heated up, hot) । अत्र पुल्लिङ्गि । प्रथमा विभक्तिः एकवचनम् च ।
१.३ अयः “अयस्” (=  iron) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१.४ सन्तप्तायसि ’सन्तप्तायस्’ (=  hot plate) इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

२. संस्थितस्य “सं + स्था” १ प. (=  to place, to fall) इति धातुः । तस्य ’त’-प्रत्ययेन कर्मणि भूतकालवाचकम् विशेषणम् “संस्थित” (= to become placed) । अत्र नपुंसकलिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३. पयसः “पयस्” (=  water) इति नपुंसकलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
४. नाम “नामन्” (=  name, identity, existence) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
५. अपि (=  even) अव्ययम् ।
६. न (=  not) अव्ययम् ।
७. ज्ञायते “ज्ञा” ९ उ. (=  to know) इति धातुः । कर्मणि-प्रयोगे, लट्-वर्तमाने, तृतीय-पुरुषे एकवचनम् ।
८. मुक्ताकारतया

८.१ मुक्ता इव आकारः = मुक्ताकारः । कर्मधारयः ।
८.२ मुक्ता (=  pearl) इति स्त्रीलिङ्गि सामान्यनाम । सामासिकशब्दस्य पदम् अतः प्रथमा विभक्तिः एकवचनम् च ।
८.३ आकारः “आकार” (=  shape, look) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८.४ मुक्ताकारतया “मुक्ताकारता” (=  look of a pearl) “मुक्ताकार” इति शब्दात् “ता”-प्रत्ययेन भाववाचकं स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

९. तत् (=  that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१०. एव (=  only) अव्ययम् ।
११. नलिनी-पत्र-स्थितं ।
११.१ नलिन्याः पत्रम् = नलिनीपत्रम् । षष्ठी तत्पुरुषः ।
११.२ नलिनीपत्रे स्थितम् = नलिनीपत्रस्थितम् । सप्तमी तत्पुरुषः ।
११.३ नलिन्याः “नलिनी” (=  lotus) इति स्त्रीलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
११.४ पत्रम् “पत्र” (=  leaf) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
११.५ नलिनीपत्रे “नलिनीपत्र” (=  leaf of lotus) इति नपुंसकलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
११.६ स्थितम् “स्था” १ प. (=  to place, to fall) इति धातुः । तस्य ’त’-प्रत्ययेन कर्मणि भूतकालवाचकम् विशेषणम् “स्थित” । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१२. राजते “राज्” १ उ. (=  to command, shine, glitter) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् च ।
१३. स्वात्यां “स्वाती” (=  the constellation “swaati”) इति स्त्रीलिङ्गि विशेषनाम । तस्य सप्तमी विभक्तिः एकवचनम् च । “यदा स्वाती-नक्षत्रम् गगने भवति तदा” (=  when the constellation “swaati” is in the sky) इति अर्थः ।
१४. सागर-शुक्ति-मध्य-पतितम् ।
१४.१ सागरे शुक्तिः = सागरशुक्तिः । सप्तमी तत्पुरुषः ।
१४.२ सागरशुक्तेः मध्यम् = सागरशुक्तिमध्यम् । षष्ठी तत्पुरुषः ।
१४.३ सागरशुक्तिमध्ये पतितम् = सागरशुक्तिमध्यपतितम् । सप्तमी तत्पुरुषः ।
१४.५ सागरे “सागर” (=  sea) इति पुल्लिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
१४.६ शुक्तिः “शुक्ति” (=  shell) इति स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१४.७ सागरशुक्तेः “सागरशुक्ति” (= sea-shell ) इति स्त्रीलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१४.८ मध्यम् “मध्य” (=  middle) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१४.९ सागरशुक्तिमध्ये “सागरशुक्तिमध्य” (=  middle of sea-shell) इति नपुंसकलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
१४.१० पतितम् “पत्” १ प. (=  to fall) इति धातुः । तस्य “इत”-प्रत्ययेन कर्मणि भूतकालवाचकम् विशेषणम् “पतित” (= fallen) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१५. सन्मौक्तिकम्

१५.१ सत् मौक्तिकम् = सन्मौक्तिकम् । कर्मधारयः ।
१५.२ सत् (=  good, pleasing) इति विशेषणम् । अत्र नपुंसकलिङ्गि । सामासिकशब्दस्य पदम् अतः प्रथमा विभक्तिः एकवचनम् च ।
१५.३ मौक्तिकम् मौक्तिक (=  pearl) इति नपुंसकलिङ्गि सामान्यनाम । वस्तुतः “मुक्ता” (=  pearl) इति स्त्रीलिङ्गि सामान्यनाम । तस्मात् “इक”-प्रत्ययेन लालित्यभावकम् लघुत्वभावकम् च सामान्यनाम “मौक्तिक” (= a bead of pearl) । तस्य तृतीया विभक्तिः एकवचनम् च ।
१५.४ सन्मौक्तिकम् (= a good bead of pearl) इति क्रियाविशेषणार्थेन ।

१६. जायते “जन्” ४ आ. (=  to become, to bear, to be born) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् च ।
१७. प्रायेण “प्र + आ + इ” २ प. (= to go generally ) इति धातुः । तस्मात् “एन”-प्रत्ययेन अव्ययम् “प्रायेण” (=  mostly) ।

In Apte’s dictionary two etymologies are given –
१७.१ प्र + अय् इति धातुः । तस्मात् घञ् = प्रायः
१७.२ प्र + इ २ प. इति धातुः । तस्मात् अच् = प्रायः
१७.३ घञ् and अच् are codes of पाणिनी to explain how nouns are formed from verbs
१७.४ “प्राय” (= general or common going) इति पुल्लिङ्गि सामान्यनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

१८. उत्तम-मध्यम-अधम-दशा

१८.१ उत्तमा च मध्यमा च अधमा च दशा = उत्तममध्यमाधमदशा । समाहार-द्वन्द्वः ।
१८.२ उत्तमा “उत्तम” (=  best) इति विशेषणम् । अत्र स्त्रीलिङ्गेन । सामासिकशब्दस्य पदम् अतः मूलसंज्ञा एकवचनेन । वस्तुतः कस्यापि विशेषणस्य सामान्य-तर-तम-भावाः । अत्र “उत्” (=  high, elevated) विशेषणस्य “तम”-प्रत्ययेन “उत्तम” (= highest, most elevated, the best)  ।
१८.३ मध्यमा “मध्यम” (=  medium, average) इति विशेषणम् । अत्र स्त्रीलिङ्गेन । सामासिकशब्दस्य पदम् अतः मूलसंज्ञा एकवचनेन ।
१८.४ अधमा “अधम” (=  low, lowly) इति विशेषणम् । अत्र स्त्रीलिङ्गेन । सामासिकशब्दस्य पदम् अतः मूलसंज्ञा एकवचनेन । वस्तुतः धातुम् मान्यम् = धमम् (=  acceptable) । न धमम् = अधमम् (= not acceptable) । नञ्-तत्पुरुषः ।
१८.५ दशा (=  state, condition) इति स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१९. संसर्गतः “सं + सृ” १प. and ३ प. (= to move along with, to have company of) इति धातुः । तस्मात् “क”-प्रत्ययेन करण-वाचकम् पुल्लिङ्गि नाम “संसर्ग” (= company) । तस्य “तः”-प्रत्ययेन “अपादान”-(पञ्चमी-विभक्त्याः भावः) “संसर्गतः (= by company)।

३. अन्वयाः अनुवादाः च ।

३.१ सन्तप्ते अयसि संस्थितस्य पयसः नाम अपि न ज्ञायते । = (A drop of) water when it falls on a hot plate, loses its very identity (existence).
३.२ तत् एव नलिनी-पत्र-स्थितं मुक्ता-आकारतया राजते । = The same (drop) on a lotus leaf commands the look of a pearl .
३.३ स्वात्यां सागर-शुक्ति-मध्य-पतितं सन्मौक्तिकं जायते । = (And) in the ‘swatee’ nakShatra, when fallen inside a sea shell, it becomes a good bead of pearl.
३.४ प्रायेण उत्तम-मध्यम-अधम-दशा संसर्गतः जायते । =  Usually excellent, medium and bad states (of a person) are borne by company.

४ टिप्पणयः ।

४.१ The वृत्तम् here is शार्दूल विक्रीडितम् having 19 syllables in each line पादम् and the 19 syllables of गणाः – म स ज स त त ग ।
४.२ First 3 lines give 3 instances or companies for a common entity “a drop of water”. The 3 companies – a hot plate, a leaf of a lotus and a sea-shell denote bad, medium and good companies respectively.
४.३ The word प्रायेण meaning “mostly” or “as good as” makes उत्प्रेक्षा-काव्यालङ्कारः
४.४ The moral of the सुभाषितम् is well-summarized in the proverb “A man is known by the company, he keeps”.
४.५ The effect of bad company is also very effectively conveyed in another सुभाषितम् also. Example given there is of bondage सेतुबन्धनम् suffered by the sea between India and Sri Lanka, because that sea had the company of रावण, who was eminently a bad person, having forcibly carried सीता.
शुभमस्तु । 

-o-O-o-

2 thoughts on “Learning Sanskrit by a fresh approach – Lesson 39

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s