Learning Sanskrit by fresh approach – Lesson 37

Learning Sanskrit by fresh approach – Lesson 37

संस्कृतभाषायाः नूतनाध्ययनस्य सप्तत्रिंशः (३७) पाठः ।

महाकवेः कालिदासस्य “मेघदूतम् ”-काव्यात् अयम् श्लोकः मम मनसि आसीत् अस्मै पाठाय | I had this श्लोकः in mind for this lesson –

धूमज्योतिस्सलिलमरुतां संनिपातः क्व मेघः |

सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः |

इत्यौत्सुक्यादपरिगणयन्  गुह्यकस्तं ययाचे |

कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ||

 

१ सन्धि-विच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा |

 

धूम-(ज्योतिः + सलिल)-मरुतां संनिपातः क्व मेघः |

संदेश-अर्थाः क्व पटु-करणैः प्राणिभिः प्रापणीयाः |

इति औत्सुक्यात् अ-परिगणयन्  गुह्यकः तं ययाचे |

काम-आर्ताः हि प्रकृति-कृपणाः चेतन-अचेतनेषु ||

Here are some images of how Sanskrit scholars present their commentaries. The images here are of commentaries on this श्लोकः only –

२. समासानां विग्रहाः ।

१.   धूम-ज्योतिस्-सलिल-मरुताम्  = धूमः च ज्योतिः च सलिलं च मरुत् च एतेषां समाहारः = धूम-ज्योतिस्-सलिल-मरुतः (समाहार-द्वन्द्वः) –> तेषाम्

२.   सन्देशार्थाः = संदेशाः एव अर्थाः (कर्मधारयः)

३.   पटुकरणैः = पटु करणं येषां ते (बहुव्रीहिः) –> तैः

४.   अपरिगणयन् = न परिगणयन् (नञ्-तत्पुरुषः)

५.   गुह्यकः = गुह्यं करोति इति (उपपद-तत्पुरुषः)

६.   कामार्तः = कामेन आर्ताः (तृतीया-तत्पुरुषः)

७.   प्रकृतिकृपणाः = प्रकृतिः कृपणा येषां ते (बहुव्रीहिः)

८.  चेतनाचेतनेषु –>

न चेतनः = अचेतनः (नञ्-तत्पुरुषः)
चेतनाः अचेतनाः च एतेषां समाहारः  = चेतनाचेतनाः (समाहार-द्वन्द्वः) –> तेषु ।

३. शब्दशः विश्लेषणम् ।

१.   धूमः ‘धूम’ (= smoke) इति पुल्लिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, एकवचनं च |

२.   ज्योतिः ‘ज्योति’ (= flame, lightning) इति स्त्रीलिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, एकवचनं च |

३.   सलिलम् ‘सलिल’ (= water) इति नपुम्सकलिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, एकवचनं च |

४.   मरुत् ‘मरुत्’ (= wind) इति पुल्लिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, एकवचनं च |

५.   संनिपातः “सं + नि + पत्” १ प. (= to be or to fall together) धातुतः प्रयोजकेन च ‘अ’-प्रत्ययेन ‘संनिपात’ (= mixture) इति पुल्लिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, एकवचनं च |

६.   क्व प्रश्नार्थकं अव्ययम् (= where)

७.   मेघः ‘मेघ’ (= cloud) इति पुल्लिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, एकवचनं च |

८.   संदेशाः ‘संदेश’ (= message) इति पुल्लिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, बहुवचनं च |

९.   अर्थाः ‘अर्थ’ (= purpose) इति पुल्लिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, बहुवचनं च |

१०.  पटु विशेषणम् (= skilful) अत्र नपुम्सकलिङ्गं, प्रथमा विभक्तिः, एकवचनं च |

११.   करणम् “कृ” ८ उ. (= to do, to act) धातुतः ‘अन”-प्रत्ययेन ‘करण’ (= action) इति नपुम्सकलिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, एकवचनं च |

१२.  पटुकरणैः ‘पटुकरण’ (= capable of skilful action) इति विशेषणम् । अत्र पुल्लिङ्गं, तृतीया विभक्तिः, बहुवचनं च |

१३.  प्राणिभिः ‘प्राणिन् ’ (= living) ” प्राण + इन् = प्राणाः सन्ति अस्य “-इति व्युत्पत्त्या भाववाचकं पुल्लिङ्गी नाम | तस्य तृतीया विभक्तिः, बहुवचनं च |

१४.  प्रापणीयाः “प्र + अप + नी” १ उ., (= to carry away) धातुतः ‘अनीय’-प्रत्ययेन विध्यर्थी विशेषणम् ‘प्रापणीय’ (= to be carried away) अत्र पुल्लिङ्गं, प्रथमा विभक्तिः, बहुवचनं च |

१५.  औत्सुक्यात् “आ + उत् + सू” २, ४ आ., (= to bring forth) अथवा “आ + उत् + सुच्” १० उ. (= to manifest) धातुतः ‘क्य’-प्रत्ययेन ‘औत्सुक्य’ (= excitement) इति भाववाचकं नपुम्सकलिङ्गी नाम | तस्य पञ्चमी विभक्तिः एकवचनं च |

१६.  परिगणयन्  “परि + गण्” १० उ. (= to consider, think, exercise discretion) इति धातुतः ‘अत्’-प्रत्ययेन ‘परिगणयत्’ (= having discretion) इति विशेषणम् | अत्र पुल्लिङ्गं, प्रथमा विभक्तिः, एकवचनं च |

१७.   अपरिगणयन् = न परिगणयन् = one, who lost discretion

१८.  गुह्यम् “गुह्” १ उ. (= to hide, to protect) धातुतः ‘य’-प्रत्ययेन ‘गुह्य’ (= to be protected) इति विध्यर्थी विशेषणम् |  अत्र नपुम्सकलिङ्गं, द्वितीया विभक्तिः, एकवचनं च |

१९.  गुह्यकः “गुह्यम् करोति” [= protector (of wealth of Gods),  a demi-God, deputy of कुबेर:] In the first श्लोकः of मेघदूतम् , the word used is यक्षः । This word ‘गुह्यकः’ becomes synonymous with यक्षः । However, in अमरकोषः which is regarded as an authoritative work on etymology, गुह्यक and यक्ष are considered to be different cadres of demi-Gods, hence, not synonymous.

२०.  तम् ‘तत्’ इति (= he / she / it) सर्वनाम | अत्र पुल्लिङ्गं, द्वितीया विभक्तिः, एकवचनं च |

२१.  ययाचे “याच्” १ आ. (= to beg) धातुनः (लिट्-लकारे) परोक्षभूते तृतीय-पुरुषे एकवचनम् |

२२.  कामेन ‘काम’ (= amorous thought, name of God of love) इति पुल्लिङ्गी सामान्यनाम | तस्य तृतीया विभक्तिः एकवचनम् च |

२३.  आर्ताः ‘आ + ऋ’ ५ प. (= to hurt) धातुनः ‘त’-प्रत्ययेन कर्मणि भूतकालवाचकं विशेषणम् ‘आर्त’ (= anxious) | अत्र पुल्लिङ्गं, प्रथमा विभक्तिः, एकवचनम् च |

२४.  कामार्ताः ‘कामार्ता’ (anxious due to or engrossed in amorous thought) इति विशेषणम् | अत्र पुल्लिङ्गं, प्रथमा विभक्तिः, बहुवचनं च |

२५. हि अव्ययम् (= because, of course)

२६.  प्रकृतिः ‘प्रकृति’ (= nature, character, behaviour) इति स्त्रीलिङ्गी सामान्यनाम | तस्य प्रथमा विभक्तिः, एकवचनम् च |

२७. कृपणा ‘कृपण’ (= poor, weak, oblivious) इति विशेषणम् | अत्र स्त्रीलिङ्गं, प्रथमा विभक्तिः, एकवचनम् च |

२८.  प्रकृतिकृपणाः ‘प्रकृतिकृपण’ (= weak of character, oblivious in behaviour) इति विशेषणम् | अत्र पुल्लिङ्गं, प्रथमा विभक्तिः, बहुवचनं च |

२९.  चेतनः ‘चेतन’ (= living, active) इति विशेषणम् | अत्र पुल्लिङ्गं, प्रथमा विभक्तिः, एकवचनम् च |

३०.  चेतनाचेतनेषु ‘चेतनाचेतन’ (= living and non-living) इति सामासिक-शब्दः | तस्य पुल्लिङ्गं, सप्तमी विभक्तिः, बहुवचनं च |

४ अन्वयाः अनुवादाः च ।

अनुक्र. अन्वयाः अनुवादाः
धूम-ज्योतिस्-सलिल-मरुतां संनिपातः (मात्रम्) मेघः क्व ? Whither the cloud, which is but a mixture of smoke, lightning, water and wind (and)
पटुकरणैः प्राणिभिः प्रापणीयाः सन्देशार्थाः क्व ? whither messages, which are to be carried by skilful living beings ?
इति औत्सुक्यात् अपरिगणयन् गुह्यकः तम् (मेघं) ययाचे । The यक्ष:, who had lost such discretion due to excitement, begged of him (the cloud)
हि कामार्ताः चेतनाचेतनेषु प्रकृतिकृपणाः (भवन्ति) | Because (as is well said), those, who become engrossed in amorous thoughts become oblivious to the discretion between living and non-living.

५ टिप्पणयः ।

1 Taking clue from the style of Sanskrit commentators, I thought of doing away with the tabular structures for words (nouns नामानि pronouns सर्वनामानि and adjectives विशेषणानि च), for verbal derivatives धातुसाधितानि and for verbs क्रियापदानि च | 

I have attempted समासानां विग्रहाः also rather using item-numbering style instead of the tabular structure.

2 On the whole, this style seems useful to dwell on some etymological व्युत्पत्तिः aspects of different words also. For example, see the detailing of गुह्यकः at 3-19.
3 In saying that a cloud is nothing but a mixture of smoke, lightning, water and wind, कालिदास, the poet is sounding to make a statement of scientific analysis ! 

Interestingly the statement also brings out that the cloud contains three of the पञ्चमहाभूतानि – ज्योतिः, सलिलम् मरुत् च or आपः तेजः वायुः च |

Because a cloud hovers in the sky, the fourth element चतुर्थं महाभूतं आकाशः is inherently there in the backdrop.

4 In using the word प्राणिभिः, कालिदासः seems to have taken cognizance of birds carrying messages. So the skill of carrying messages does not vest only with humans ! 

हंसः the swan is a famous messenger mentioned in नल-दमयन्ति-आख्यानम् within महाभारतम् !

In बाणभट्ट ’s कादंबरी the hero वैशंपायनः is reborn as a parrot endowed with human speech.

Human speech of birds and animals is a very common concept in Sanskrit literature, not to forget पञ्चतन्त्रम् and हितोपदेशः ।

5 Meter of complete मेघदूतम् is “मन्दाक्रान्ता”-वृत्तम्, which has 17 syllables in each line having गणाः म, भ, न, त, त, ग, ग | The natural pace of the meter is slow मन्दं क्रमति । Poet’s idea in using such meter of slow pace seems to be prompted by the need to narrate a story and to explain to अचेतनं मेघम् not only the संदेशः but also to explain to him the path to be followed. 

मन्दाक्रान्ता-वृत्तस्य लक्षणपदम्  Line summarising the गणाः and the name of meter is –

मन्दाक्रान्तां बुधिरसनगैर्-मो भनौ तौ ग-युग्मम्  |

6 Since there is a mismatch between the characteristics required of one to carry a message and characteristics of cloud, the poetic adornment काव्यालङ्कारः here is called as विषमालङ्कारः, an adornment borne by paradox or from converse entities. 

Having deduced in the fourth line a commonly acceptable observation and conclusion and almost a justification of the paradox, the verse also becomes an example of अर्थान्तरन्यासालङ्कारः a poetic adornment borne by transposition of meaning.

7 The verse also suggests a moral that one should not allow the amorous thoughts to blow away discretion and awareness of surroundings.
8 Amorous thoughts causing discretion to be blown away and amorous thoughts causing obliviousness to surroundings brings to mind, that in UAE, the authorities made it illegal to indulge in amorous acts in public places. 

I think, it is a good law to be made into a universal law. Being oblivious to surroundings and allowing discretion to be blown away, more so by amorous thoughts and acts do not make graceful social behaviour, anywhere.

शुभमस्तु |

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s